कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 301, कुल 361 में से
संदर्भ में पढ़ेंसंक्षिप्तटीकासङ्ग्रहः । ५
शान्ता ओषधयः शान्त्युदकादौ प्रयोक्तव्याः एतासां समुच्चयः । एतासामलाभे यव- प्रतिनिधिः कार्यः इति पैठीनसिः । शान्त्यौषधिकल्पः समाप्तः । सू० १७ । प्रमन्दोशीरशलल्युपधानं शकधूमा जरन्तः । उपधानं विद्यागन्धुकं शकधूमः ब्राह्मणः एता जरन्तः जीर्णा ग्राह्याः । सू० १८ । — यत्र सीसानि तत्र एतानि सर्वाणि प्रत्येत्त- ब्यानि । नदीसीसं नदीफेनम् । सू० १९ । — रसकर्मणि एते रसाः प्रत्येत्तव्याः समु- च्चयेन । — सू० २० यवाकस्ति इन्द्रयव । प्रियङ्गुः कंगुणिका । सू० २१ । — ग्रहणं प्रतीकग्रहणं ग्रहणमनुग्रहणं तावदनुवर्तते यावत्प्रतीकग्रहणं द्वितीयम् । सू० २२ । — अनुषङ्गः यथार्थं सर्वत्र कर्तव्यः । यथा विद्मा शरस्य पितरं पर्जन्यं शत- वृष्ण्यमिति ( कौ० २५।१० ) वैदिकं लौकिकमिति भवति कृतयामं कंकतमव- सृजामीति ( कौ० ७६।५।६ ) अनुषङ्गः पुनरुक्तमित्यर्थः । सू० २४ । — अथ चतुर्गणो महाशान्त्याः पठ्यन्ते । सू० २५ । — अरायक्षयणमिति तिस्रः । १८।३।५
कण्डिका ॥ ६ ॥
सू० १ — ये अग्नय इति सप्त ब्रह्मयज्ञानमित्येका । अग्नेर्मन्व इति सप्त सूगार सूक्तानि ग्रहीतव्यानि ॥ सू० २ । — प्रथमे द्वे उत्तमं वर्जयित्वा शं च नो मयश्च न इत्येका पुनर्मैत्विन्द्रियमित्येका शिवान इत्येका शं नो वातो वातु इत्येका शेषाणि सूक्तानि । अनेन शान्तिगणेन शान्त्युदकं कुर्यात् । सू० ३ । — यत्र शान्त्युदकं क्रियते तत्र पृथिव्यै श्रोत्रायेति त्रिभिऋग्भिः शान्त्युदकं शान्त्युदकमध्ये प्रक्षिपेत् । अनेनैव कारयिता प्रोक्षणाचमनादीनि प्रत्यृचं करोति । सू० ४ । — एष शान्ता- तीयो गणः । यत्र शान्तातीयेन प्रयोजनं तत्रायं सर्वत्र प्रयोक्तव्य इति । यथा शान्ता- तीयेन तिलाञ्जुहोति । — सू० ६ । शान्तिसूक्तानि । इह शान्त्युदके सर्वेषां सूक्तानां समुच्चयः । अन्यत्र सर्वत्र यथोक्तेन न्यायेन विकल्पः न सूक्तविकल्पः । सू० ७ । — उभयतः शान्तिगणस्य प्रारम्भे समाप्तौ च । सू० ८ । — अथ शान्त्युदकविधान- मुच्यते । सू० ९ । — अवकरं विसर्जयति । अनुज्ञातः शान्त्युदकं करोति शं नो देवीत्यृचा सावित्री च अम्बयो यन्ति गणेन च शान्त्युदकं करोति लघुगणेन बृहद्गणेन वा चतुर्गणैर्वा । सावित्री शन्नो देवी । ततः पृथिव्यै श्रोत्रायेति त्रिः प्रत्यासिञ्चति शान्त्यु- दके शान्त्युदकं प्रक्षिपति । सू० १० । — एते चतुर्गणेन बृहद्गणेनैकेन वा शान्त्यु- दकं कुर्वन्ति । शान्त्युदककर्मपरिभाषा समाप्ता । नवमी कण्डिका । तत्र भद्रश्लोकः ।
प्रमाणं पार्वणे चैव प्रकृतित्वात्परीक्षिते । परिभाषा च सर्वार्था प्रथमेऽध्याये संहिताविधौ ॥
इति प्रथमोऽध्यायः ॥ १ ॥