कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 302, कुल 361 में से
संदर्भ में पढ़ेंसू० २ । —सारिका जिह्वां बध्नाति । सारिका कंटारिका प्रसिद्धा । —सू० ३ । –कृशो भारद्वाजः ॥ सू० ४ । —कर्कन्धूः बृहद्वदरी । सू० ६ । —ये त्रि षप्ता० इति सूक्तेन क्षीरौदनं संपात्याभिमन्त्र्यभक्षयति । पुरोडाशं भक्षयति । रसान् भक्ष- यति । रसप्राशनं सर्वत्र त्वे क्रतुमित्यृचा कर्त्तव्यम् । (कौ० २।१२१) सू० ७ ।— ये त्रि षप्ता इति सूक्तेन उपनयनानन्तरं द्वादशरात्रम् । बहुभैक्ष्यमेकत्र कृत्वाभि- मन्त्र्य उपाध्यायो ददाति । सू० ८ ।— सुप्तस्योपाध्यायस्य कर्णमनुमन्त्रयते ब्रह्म- चारी । सू० ९ ।— यदा यदा उपाध्यायगृहं याति तदा तदा जपति ब्रह्मचारी ॥ सू० १५ ।— उपाध्यायाय । सू० १६ ।— शुक्लपुष्पहरितपुष्पे इति शंख- पुष्पिका अन्धपुष्पिका प्रसिद्धे । सू० १७ ।— सम्यक् वर्चस्कामो मेधाकामश्च