कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 303, कुल 361 में से
संदर्भ में पढ़ें( कौ०-४-६; ११, १२,— १८ ) सू० ५ ।- सांमनस्याधिकार आवर्चस्येभ्यः कर्मभ्यो यावत् । जातपुत्रस्य सांमनस्यं क्रियते । यावज्जीवं संजातानां सगोत्राणां सांमनस्यं भवति । सू० ६ ।— उदकुम्भं सम्पातवन्तं कृत्वा ग्रामपार्श्वे आमयित्वा । सू० ८ । — शुक्त्यानि । अम्लेन रसेन सिक्तानि मांसानि ॥ सू० ९ ।— सह- दयमिति भक्तं सम्पात्याभिमन्त्र्याशयति । सुरां प्रयच्छति पुरुषेभ्यः त्रैवर्णिकेभ्यः प्रपोदकं प्रयच्छति । सांमनस्यानि समाप्तानि । सू० १० ।— अथ वर्चस्यविधिं वक्ष्यामः । ये त्रिषप्ता इति सूक्तेन औदुम्बरसमिध आदधाति । सर्वत्र वर्च- स्कामोऽनुवर्तते अराजकर्मभ्यो यावत् । ( कौ० १४।१ ) सू० १२ । अथ कुमारी- वर्चस्यमुच्यते । कुमारी रूपवती वर्चस्विनी भर्तृगृहे प्रधाना भवति । सू० १६ ।- वैश्यशूद्रानुलोमजाः ।
[L