भारतकोश
कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)

कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)

Kausika Grihyasutram of Atharvaveda with Hindi Translation

महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा

DevanagariHindipublished361 पृष्ठ

पृष्ठ 304, कुल 361 में से

संदर्भ में पढ़ें
पृष्ठ 304

१।—शत्रोहंस्तित्रासनानां कर्मणां विधिं वक्ष्यामः । सू० २ ।— तं हस्तिनं संप्रति मुखं रथमावर्तयति । सू० ६ ।— ये त्रिषप्ता इति सूक्तेन वेलुकामभिमन्त्र्य यत्र हस्तिनस्तत्राभिमुखो याति । समाप्तानि हस्तित्रासनानि । सू० ७ ।— जयकर्मा- ण्यनुवर्तन्ते । आराष्ट्रप्रवेशकर्मभ्यो यावत् । सू० ८ ।— इध्मसमाधानस्थाने धनुरिध्म आदधाति । धनुस्समिध आदधाति । सू० ९ ।— शरेध्मोपसमाधानं शरसमिधः प्रादेशमात्रीरादधाति । सू० ११ ।— विजयकर्माणि सांग्रामिकाणि समाप्तानि । संग्रामे अयुध्यमाने जयो भवति । एभिः कर्मभिः दृष्टमात्रतः शत्रवः पलायन्ते । सू० १२ ।— इषुनिवारणानि कर्माण्युच्यन्ते । अनेन कर्मणा पुरुष- शरीरे इषवो न पतन्ति पार्श्वतो गच्छन्ति । सू० १४ ।— सर्वशस्त्रनिवारणानां कर्मणां विधिं वक्ष्यामः । सू० १५ ।— जुहोति सेनाग्नौ । सू० १६ ।— आरेऽसा- विति सूक्तेन शत्रुं दृष्ट्वा जपति । सू० १७ ।— अथ मोहनकर्मणां विधिं वक्ष्यामः । परसेनामोहनानि । सू० १८ ।— ओदनेन फलीकरणं पिण्डीकृत्य । सू० १९ ।— ओदनेन सह कण्डिकां पिण्डीकृत्य । सू० २० ।— शर्कराशूर्पे कृत्वा निष्पुनाति । सू० २१ ।— अप्वा देवता चरुतन्त्रं आज्यभागान्तं कृत्वाग्निनंः शत्रूनग्निनोंदूत इति सूक्ताभ्यां (सू० १७) चरुं जुहुयात् । निर्वापे प्रोक्षणे बर्हिर्होमे विशेषः । अप्वा यै स्वा जुष्टं निर्वपामि । अप्वायै त्वा जुष्टं प्रोक्षामि । अप्वां गच्छतु हविः । सू० २२।२३ ।— उद्वेगकरकर्म उच्यते । अजां सितपदां शत्रुसेनां प्रति विसर्ज- यति । श्वेतेन पादेन अजा वा अविर्वा एणी वा । इत्युद्वेगकरं समाप्तम् । समाप्तानि परस्परोद्वेगकरणानि मोहनस्तम्भनमित्यर्थः । सू० २४ ।— पुनर्जयकर्मोच्यते । सू० २५ ।— स्वसेनारक्षार्थं कर्मोच्यते । स्वसेनां प्रति दिशमुपतिष्ठते । २६ ।— अथ स्वसेनाया उत्साहकरणं वक्ष्यामः । सू० २७ ।— सेनयोर्मध्ये स्थितो जपति निरीक्षमाणः । सू० २८ ।— परसेनायां प्रक्षिपति । उच्छूंसकः क्रुद्धः । सू० ३० ।— अथ जयपराजयविज्ञानमुच्यते । शरतृणानि । आङ्गिरसेनादीपयति । आङ्गिर- सोऽग्निः चाण्डालाग्निः सूतिकाग्निः । सू० ३१ ।— सेनयोर्मध्ये कृत्वा यान् धूमो- वतनोति ते जयन्ति यत्र धूमो गच्छति तत्र न जयः । कण्डिका ॥ १५ ॥ सू० १ ।— अथ सांग्रामिकं विधिं वक्ष्यामः । जयकर्माण्युच्यन्ते । सूक्ताभ्यामा- श्रुत्यां पात्र्यां त्रिवृत्तिगोमये परिचयेऽग्निं प्रज्वाल्य हस्तिपृष्ठे शत्रुमभिमुखो गच्छन्नाज्यं जुहोति । पुरुषशिरसि ००० तत्पात्रं प्रक्षिपति भूम्यां । सू० ४ ।— युद्धे मृतस्य पुरु- षस्येध्ममुपसमाधाय उपरि चक्रं धारयित्वा दीर्घदण्डेन स्रुवेण । सू० ५ ।— युद्धं योजयेत् । सू० ७ ।— वैश्याय संग्रामविधिं वक्ष्यामः । सू० ८ ।— सेनापतिजयकर्म०००

कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद) · पृष्ठ 304, कुल 361 में से · BharatKosha