कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 311, कुल 361 में से
संदर्भ में पढ़ेंकर्म समाप्तम् । सू० ४५ ।—सर्वे मंत्राः पुष्टिकर्मसु पठिताः तृतीयेऽध्याये तेषामुपधान- मुपस्थानं भवति । एते मन्त्राः पौष्टिकाः पौष्टिकानां सर्वेषां मन्त्राणां हविरुपधान- मुपस्थानं वा करोति विकल्पेन । सू० ४६ ।—ततः श्लोकः । पूर्वं निर्ऋतिकर्माणि सर्वेषां पापनुत्तये । पौष्टिकानि ततः पश्चात् तृतीये संहिताविधौ ॥ इति कौशिकपद्धतौ तृतीयोऽध्यायः ॥ ३ ॥
चतुर्थोऽध्यायः ॥ ४ ॥
कण्डिका ॥ २५ ॥
सू० १—३ ॥ भेषजशान्तिर्भैषज्यशब्देनोच्यते । तत्र द्विविधा व्याधयः आहारनिमित्ता अन्यजन्मपापनिमित्ताश्च । तत्राहारनिमित्तेषु चरकवाहडसुश्रुतेषु··· व्याध्युपशमनं भवति । अशुभनिमित्तेषु अथर्ववेदविहितेषु शान्तिकेपु व्याध्युपशमनं भवति । तथाचाग्रे वक्ष्यति । अनूक्तान्यप्रतिषिद्धानि भैषज्यानामंहोलिङ्गाभिः (कौ० ३२।२६।२७) सर्वाणि कर्त्तव्यानि । उक्तान्यनूक्तानि च कर्त्तव्यानि । बन्धन- पायनादीनि च कार्याणि । सू० ५ ॥—मुखवलींविमार्ष्टि अङ्गवलीञ्च । तरुणस्य यदि वलयस्तदा एतत्कर्म । सू० ६ ॥—अथ ज्वरातिसारभैषज्यान्युच्यन्ते । मुञ्जपुष्प- मणिं मुञ्जरज्ज्वा बध्नाति । सू० ७ ॥—अतिसारे चातिमूत्रे च भैषज्यम् । ·····। सू० ८ ॥—अपानं श्लक्ष्णिति । सू० ९ ॥—अपाने शिश्नं वा नाडीं वा व्रणमुखं धमति अतिसारे । समाप्तानि ज्वरातिसारे अतिमूत्रे अङ्गनाडीप्रवाहे च भैषज्यानि । सू० १० ॥—अतिदुःखमूत्रे दुःखपुरीषकरणे च शमनभैषज्यान्युच्यन्ते । ····· विद्या शरस्येति द्वितीयेन हरीतकीं कर्पूरं वा सम्पात्याभिमन्त्र्य बध्नाति । सू० १२ ॥ —विषितं ते बस्तिबिलमिति द्वाभ्यामष्टम्यां मूषिकमृत्तिकोपरि उपविश्य जपति । तृणोपरि उपविश्याभिमन्त्रयते ।··· बस्तिबिलमुखमभिमन्त्रयते । दारुतक्षकशकलान् दधिमथितोपरि उपविश्य ततोऽभिमन्त्रयते ।····· जरद्घमन्दोपरि उपविश्याभि- मन्त्रयते ।··· दारुतक्षकशकलानामुपरि उपविश्य व्याधितं ततोऽभिमन्त्रयते मूत्रादि- प्रतिबन्धे मूत्रं मुच्यतामिति लिङ्गात् । सू० १३ ॥—व्याधितमारोहयति । सू० १४ ॥—व्याधितः शरं प्रक्षिपति । सू० १५ ॥—शरशिखामभिमन्त्र्य निष्कोटयति शिखां चर्मणो निःसारयतीत्यर्थः । सू० १६ ।—लोहशलाकामभिमन्त्र्य शिश्ने प्रवेश-