कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 310, कुल 361 में से
संदर्भ में पढ़ें१४ अथर्ववेदीय-कौशिकसूत्रस्य— सू० १५।—कर्णलोहितम् । रसमिश्रितः अश्नापयति पुष्टिकामः । सू० १७।— अथ कृषिकर्म उच्यते । कण्डिका ॥ २४ ॥ सू० १-२।—बीजवापनं कर्म करोति । केदारे वा क्षेत्रे निवपति । त्रीन् मुष्टिबीजस्य । ततः पांसुभिराच्छादयति । सू० ३-६ ।—उच्चस्थाने गत्वा । ततः अभ्यातानान्तं कृत्वामित्यमिति चतुऋर्चेन सूक्तेनोदपात्रं सम्पात्य तदुदपात्रं सोमरसमिश्रं सारूपवत्सं ओदनं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रं प्राग्द्वारप्रत्यग्द्वारे मण्डपे एतत्कर्म । पश्चान्मण्डपमग्निना दहति । सू० ७।— एकवारप्रसूता गौर्गृष्टिः । गोदाममणिं बध्नाति पुष्ट्यर्थी । सू० ८।——अश्नाति पुष्ट्यर्थी । सू० ९।—इत्यृचा वपया वृषभस्येदं यजते वशाविधानेन (कौ० ४४) सू० १६।—अथ प्रवत्स्यत एकाग्निकस्य इदं कर्म कथ्यते । इहैव स्तेति गृहं मानुष्यांश्चावेक्षते । सू० १८ ।—अथ प्रवेशाय यजमानो यदा आगच्छति तदा इदं कर्मोच्यते । मौनं कृत्वा समिधमादाय गृहं दृष्ट्वा ऊर्जं बिभ्रदिति षडर्चं सूक्तं जपति । वामेन हस्तेन समिधः कृत्वा दक्षिणेन शालावलोकं संस्तभ्य जपति ऊर्जं बिभ्रदिति । ततः समिध आदधाति अग्नौ । सुमङ्गलीति कल्पजेन स्थूणे गृह्णात्युप- तिष्ठते । यद्बदामीत्यृचा वाग्विसर्गं करोति । गृहपत्न्यासाद् उपविश्योदपात्रं निनयति तूष्णीं दूर्वाग्राणि अञ्जुलिकायां कृत्वा पूर्वापरमिति षडर्चं सूक्तं जपति । अमावास्यायां केचिच्चन्द्रमसं दृष्ट्वा जपं कुर्वन्ति पुष्टिकामाः । सू० १९। —अथ वृषोत्सर्गविधि वक्ष्यामः । ऋषभं सम्पात्य विवाहवदग्निपरिणयनं कृत्वा सह वत्सरीभिः विसर्ज- यति । सू० २२।—अत एकादशाहे वृषभं करोति तदा शान्त्युदकं कृत्वा वृषोत्सर्गं करोति । वृषोत्सर्गः समाप्तः । वृषभपुच्छं गृहीत्वा देवपितृभिभ्योऽहं ददे ऋषभमुच्चारयति । सू० २४-२५।—अथाग्रहायणीकर्म उच्यते । रात्रौ अभ्या- तानान्तं कृत्वा त्रयश्चरवः श्रपयितव्याः । सत्यं बृहदित्यनुवाकेन पश्चादग्नेर्दर्भेषु खदायां भूमौ एकं चरुं सकृत् सर्वहुतं जुहोति । सू० ३१।—सत्यं बृहदिति नवभिः शान्ति द्वेति दशम्या । सू० ३६ ।—सत्यं बृहदित्यनुवाकेन कृषिकर्म आयोजनकर्म भवति । सू० ३७।—यस्यां सदो हविर्धाने इति तिसृभिराज्यं जुहोति । तत उत्तरतन्त्रम् । वरो म आगमिष्यतीति वरस्य प्रार्थितोऽभिलाषः उत्कृष्ट- पुत्रधनादि वा सर्वफलकामः । सू० ३८ ।—उपतिष्ठते पृथिवीं पुष्टिकामः । सू० ३९ । निधिं बिभ्रती