कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 309, कुल 361 में से
संदर्भ में पढ़ेंसंक्षिप्तटीकासङ्ग्रहः । १३ सू० १४ ।—इषीकाः तिस्रो मधुना चिक्सेन प्रलिप्ता आदधाति । सू० १५-१६ ।— ज्येष्ठेन पुत्रेण सह भागविधि वक्ष्यामः । उत पुत्र इत्यृचा गृहकाष्ठकाद्या अभिमन्त्र्य ततो गृहं कारयेत् पुष्टिकामः पुत्रो वा साम्पदं करोति पिता वा करोति । सू० १७ ।—आर्द्रपाणिर्भूत्वा शान्तशाखया ऋचं जपित्वा पुत्रं पिता पुत्रभागं प्रयच्छति । सू० १८-१९ । प्राग्भागमपाकॄत्य पुत्रस्य गृहे गोधनं बध्नाति । अग्निसंमुखं कुरुते । पुत्रस्य भागं क्रियते । सू० २० ।—आग्नेया अमावास्या भवि- ष्यति तस्यां पुत्राश्च भ्रातरोऽपि अनेन विधानेन भागं कुर्वन्ति । समाप्तं विभागकर्म । सू० २१।२३ ।—त्वे क्रतुमित्यृचा सर्वत्र रसप्राशनं परिभाषा सर्वस्मिन्नथर्ववेदे रस- कर्मसु पाक्यज्ञविधानेन प्रजापतये चरुं श्रपयित्वा । स्तुष्व वर्मन्निति ऋचा जुहोति पुष्टिकामः । अमावास्यायामस्तमिते रात्रौ वल्मीके दर्भानास्तीर्य तत्र दीपं ददाति । कण्डिका ॥ २२ ॥ सू० १ ।—पुनः पुष्टिकर्माण्युच्यन्ते । अष्टपिष्टं सक्तुम् । सू० ६ ।—क्षेत्रकामस्य कर्म उच्यते । यत्र क्षेत्रं कामयते तस्मिन् क्षेत्रे इदं कर्म कुर्यात् । सू० ७ ।—सप्त ग्रामलाभकर्म । सू० १० ।—अथ समृद्धिकर्म उच्यते । सू० १० ।—उदक्याम् । सू० १४ ।—अथ समुद्रकर्म उच्यते । शत्रुदेशे गत्वा गार्हपत्यदक्षिणाग्न्याहवनीयेषु कर्म कुर्यात् । ततो गार्हपत्ये अभ्यातानान्तं कृत्वा ममाग्ने वर्च इति सारूपवत्सं गार्हपत्यश्रुतं गार्हपत्ये प्रथमं संपात्य ततो दक्षिणाग्नितन्त्रं कृत्वा पूतीकैस्तरणम् । तत अभ्यातानान्तं कृत्वा तमेव सारूपवत्सं सम्पात्य तत आहवनीयभागस्तरणम् । ततस्तमेव सारूपवत्सं संपात्यानेनैव सूक्तेन ततः पश्चात्सकृदभिमन्त्रणं कृत्वा ततोऽ- श्नाति । गार्हपत्यप्रभृति उत्तरतन्त्रं कुर्यात् । अशनं गार्हपत्यदेशे करोति । उत्तर- तन्त्रम् । व्रतग्रहणादि करोति । दक्षिणाग्न्याहवनीयगार्हपत्येषु यथाक्रमं व्रतग्रहणादि । गार्हपत्यस्य दर्भैस्तरणं दक्षिणाग्नेः पूतिकैः । आहवनीयस्य भङ्गाभिः । समाप्तं समुद्रकर्म । कण्डिका ॥ २३ ॥ सू० १ ।—अथ नवे गृहे अग्निशालायां गोशालायां वा ग्रामे वा पुरे वा अन्य- श्रामित्तेषु वा कर्माणि । पाषाणमये वा काष्ठमये वा तृणमये वा इष्टकामये वा सर्वत्र नवे वासिते इदं कर्म । सू० ६ ।—तूष्णीमादौ वाग्यमनं कृतमिहैव स्तेति वाग्विसर्गः । सू० ७ ।—अग्नौ रविकां औदुम्बरं दत्वा आज्यं जुहोति । धूमं निय- च्छति । लेपं प्राश्नीयात् । सू० ९ ।—दायादेषु विभागकर्म वक्ष्यामः । सू० १२ ।— अथ चित्राकर्म चित्रानक्षत्रे उच्यते । संभारान् संपातयति । वृक्षशाखा । उदकम् । करम्बकम् । औदुम्बरशकलम् । ताम्रछुरिका । सू० १४ ।—वत्सकर्णं छिनत्ति ।