भारतकोश
कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)

कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)

Kausika Grihyasutram of Atharvaveda with Hindi Translation

महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा

DevanagariHindipublished361 पृष्ठ

पृष्ठ 308, कुल 361 में से

संदर्भ में पढ़ें
पृष्ठ 308

१२ अथर्ववेदीय-कौशिकसूत्रस्य- समाप्ता मणिबन्धनशान्तिः। सू० २८।—अथ अष्टकाकर्म पुष्टिकामो वा नित्यं वा... कुर्यात्। माघाष्टकायां पूर्वाण्हे यज्ञोपवीती शालानिवेशनं समूहयति॥ उपवत्स्य- द्भक्तमशित्वा स्नातोऽहतवसनः प्रयुङ्क्ते रात्रौ वशातन्त्रं पाकयज्ञविधानं धानादीनां श्रपणं कृत्वा। तत आज्यभागान्तं कृत्वा ततः पुरस्तादग्नेः प्रतीचीं गां धारयन्ति। पश्चादग्नेः प्राङ्मुख उपविश्य अन्वारब्धाय शान्त्युदकं करोति। प्रथमा ह न्युवास सेति सर्वेण तिस्रः पश्चादाहुतीर्जुहोति। सू० २९।—ततः प्रथमा ह न्युवास सेति सूक्तेन सर्वेण स्थालीपाकं जुहोति। कण्डिका ॥ २० ॥ सू० १।—कृषिनिष्पत्तिकर्म वक्ष्यामः। क्षेत्रे गत्वा। सू० ४।—कालिको अन्यांश्चतुरो वृषभान्युक्ति षड्गवं हलमिति वचनात्। सू० ५।—लोहफालमभि- मन्त्र्य हले प्रतिकर्षति। सू० ७।—अपूपानभिमन्त्र्य हले फालमुखे ददाति। ततः कर्ता हलेन कृषति। सू० ८।—कालिकाय। सू० ९।—तिस्रः सीताः प्राचीर्कालिकः कृषति। सू० १४-१५।—उदपात्रे निदधाति। तेनोदकेन हलं सर्वमनक्ति। सू०-१६-१९।— यत्र सीता सम्पातिता तस्मात्स्थलात् मृत्तिकां पत्नी गृह्णाति हस्तेन। अतोऽन्यो मनुष्यः पृच्छति किमाहार्षीः?। ततः पत्नी ब्रूते वित्तं भूतमिति। सू० २०।— मृत्तिकां निदधाति पत्नी। सू० २१।—ततो लोहफालं घृतेनाभ्यज्य तत्रैव क्षेत्रे निदधाति। सू० २२।—सीताशिरः सूत्रेषु। सू० २३।— एकैकस्याः सीताया दक्षिणे चमसे रसान् प्रक्षिप्य मध्यमेषु विरूढं निदधाति पुरोडाशमुत्तरेषु निदधाति। सू० २४।— चमसोपरि दर्भाग्रान्निदधाति ततः चमसान् पांसुना प्रच्छादयति मृत्तिकां ददाति तत्र। ततः प्रभाते अवश्यं तस्मिन् क्षेत्रे द्वितीयेऽहनि कर्षितव्यम्। एतत्सर्वं एकं कर्म। कृषिभ्यः निष्पत्तिकर्म समाप्तम्। सू० २४।—अथ वृषभ- लाभकर्म उच्यते। सू० २५।—आनडुहसांपदकर्म समाप्तम्। कण्डिका ॥ २१ ॥ सू० १।—अथ स्फातिकरणकर्म उच्यते। सू० ५-६।—यदा यदा भक्तं राध्यते तदा तदा अभिमन्त्रयते। यदा दीयते कण्डेन। ...निष्पवने रन्धने परीक्षणे दाने च सर्वत्राभिमन्त्रणम्। सू० ७।—स्थिरधान्यमक्षयं भवति। समाप्तानि स्फाति- करणानि पुष्टिकर्माण्येव वर्तन्ते। सू० ८।—सन्ध्याकाले॥ सू० ९॥—यदा प्रथमं होममिच्छति तदा इदं कर्म करोति। सू० ११।—सूर्यस्य रश्मीनन्विति तिसृभिर्द्वादश नाम्न्यां बध्नाति। इह वत्सां निबध्नीम इति पादेन वत्सां बध्नाति। अयं घासं इति पादेन घासं ददाति गोभ्यो वा वत्सेभ्यश्च। समाप्ता गोशान्तिः। सू० १२।—वत्स- साम्पदानि कर्माण्युच्यन्ते। सू० १३।—सूत्रेण परिवेष्ट्य घृतेनाक्ता आदधाति।