कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 307, कुल 361 में से
संदर्भ में पढ़ेंप्रक्षिपति । सू० १८ ।—एकशतं लक्षम इत्यृचा रक्तवस्त्रं लोहखण्डेन सहाप्सु क्षिपति । एता एना इत्यृचा नीलं वासो लोहखण्डेन सहाप्सु क्षिपति । गृहे आग- च्छति । ततः कर्माणि कुर्यात् पौष्टिकानि साम्पदानि च । समाप्तानि निर्ऋतिकर्माणि । सू० १९ ।--पूर्वस्य चित्राकर्मादीनि पौष्टिकानि तान्युच्यन्ते आ भेषज्येभ्यः कर्मभ्यो यावत् । (कौ० २५) । एतत्कर्म चैत्र्यां पौर्णमास्यां कुर्यात् । अथवा चित्रानक्षत्रे कुर्यात् । नित्यं चैत्रीकर्म । सू० २२ ।—परशुवन्मुखेनाश्नाति न हस्तेन । सू० २६ ।—मन्थान्तानि कर्माणि । सू० २७ ।—अध्वानं गच्छता पुष्टिकर्माण्युच्यन्ते । सू० २८-२९ ।--यदा गच्छति तदा एतत्कर्म । यदा ग्रामं गच्छति तदा एतत्कर्म कुर्यात् । समाप्तं प्रस्थानकर्म । सू० ३०-३१ ।--यथार्थं याचते