कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
प्रक्षिपति । सू० १८ ।—एकशतं लक्षम इत्यृचा रक्तवस्त्रं लोहखण्डेन सहाप्सु क्षिपति । एता एना इत्यृचा नीलं वासो लोहखण्डेन सहाप्सु क्षिपति । गृहे आग- च्छति । ततः कर्माणि कुर्यात् पौष्टिकानि साम्पदानि च । समाप्तानि निर्ऋतिकर्माणि । सू० १९ ।--पूर्वस्य चित्राकर्मादीनि पौष्टिकानि तान्युच्यन्ते आ भेषज्येभ्यः कर्मभ्यो यावत् । (कौ० २५) । एतत्कर्म चैत्र्यां पौर्णमास्यां कुर्यात् । अथवा चित्रानक्षत्रे कुर्यात् । नित्यं चैत्रीकर्म । सू० २२ ।—परशुवन्मुखेनाश्नाति न हस्तेन । सू० २६ ।—मन्थान्तानि कर्माणि । सू० २७ ।—अध्वानं गच्छता पुष्टिकर्माण्युच्यन्ते । सू० २८-२९ ।--यदा गच्छति तदा एतत्कर्म । यदा ग्रामं गच्छति तदा एतत्कर्म कुर्यात् । समाप्तं प्रस्थानकर्म । सू० ३०-३१ ।--यथार्थं याचते
१२ अथर्ववेदीय-कौशिकसूत्रस्य- समाप्ता मणिबन्धनशान्तिः। सू० २८।—अथ अष्टकाकर्म पुष्टिकामो वा नित्यं वा... कुर्यात्। माघाष्टकायां पूर्वाण्हे यज्ञोपवीती शालानिवेशनं समूहयति॥ उपवत्स्य- द्भक्तमशित्वा स्नातोऽहतवसनः प्रयुङ्क्ते रात्रौ वशातन्त्रं पाकयज्ञविधानं धानादीनां श्रपणं कृत्वा। तत आज्यभागान्तं कृत्वा ततः पुरस्तादग्नेः प्रतीचीं गां धारयन्ति। पश्चादग्नेः प्राङ्मुख उपविश्य अन्वारब्धाय शान्त्युदकं करोति। प्रथमा ह न्युवास सेति सर्वेण तिस्रः पश्चादाहुतीर्जुहोति। सू० २९।—ततः प्रथमा ह न्युवास सेति सूक्तेन सर्वेण स्थालीपाकं जुहोति। कण्डिका ॥ २० ॥ सू० १।—कृषिनिष्पत्तिकर्म वक्ष्यामः। क्षेत्रे गत्वा। सू० ४।—कालिको अन्यांश्चतुरो वृषभान्युक्ति षड्गवं हलमिति वचनात्। सू० ५।—लोहफालमभि- मन्त्र्य हले प्रतिकर्षति। सू० ७।—अपूपानभिमन्त्र्य हले फालमुखे ददाति। ततः कर्ता हलेन कृषति। सू० ८।—कालिकाय। सू० ९।—तिस्रः सीताः प्राचीर्कालिकः कृषति। सू० १४-१५।—उदपात्रे निदधाति। तेनोदकेन हलं सर्वमनक्ति। सू०-१६-१९।— यत्र सीता सम्पातिता तस्मात्स्थलात् मृत्तिकां पत्नी गृह्णाति हस्तेन। अतोऽन्यो मनुष्यः पृच्छति किमाहार्षीः?। ततः पत्नी ब्रूते वित्तं भूतमिति। सू० २०।— मृत्तिकां निदधाति पत्नी। सू० २१।—ततो लोहफालं घृतेनाभ्यज्य तत्रैव क्षेत्रे निदधाति। सू० २२।—सीताशिरः सूत्रेषु। सू० २३।— एकैकस्याः सीताया दक्षिणे चमसे रसान् प्रक्षिप्य मध्यमेषु विरूढं निदधाति पुरोडाशमुत्तरेषु निदधाति। सू० २४।— चमसोपरि दर्भाग्रान्निदधाति ततः चमसान् पांसुना प्रच्छादयति मृत्तिकां ददाति तत्र। ततः प्रभाते अवश्यं तस्मिन् क्षेत्रे द्वितीयेऽहनि कर्षितव्यम्। एतत्सर्वं एकं कर्म। कृषिभ्यः निष्पत्तिकर्म समाप्तम्। सू० २४।—अथ वृषभ- लाभकर्म उच्यते। सू० २५।—आनडुहसांपदकर्म समाप्तम्। कण्डिका ॥ २१ ॥ सू० १।—अथ स्फातिकरणकर्म उच्यते। सू० ५-६।—यदा यदा भक्तं राध्यते तदा तदा अभिमन्त्रयते। यदा दीयते कण्डेन। ...निष्पवने रन्धने परीक्षणे दाने च सर्वत्राभिमन्त्रणम्। सू० ७।—स्थिरधान्यमक्षयं भवति। समाप्तानि स्फाति- करणानि पुष्टिकर्माण्येव वर्तन्ते। सू० ८।—सन्ध्याकाले॥ सू० ९॥—यदा प्रथमं होममिच्छति तदा इदं कर्म करोति। सू० ११।—सूर्यस्य रश्मीनन्विति तिसृभिर्द्वादश नाम्न्यां बध्नाति। इह वत्सां निबध्नीम इति पादेन वत्सां बध्नाति। अयं घासं इति पादेन घासं ददाति गोभ्यो वा वत्सेभ्यश्च। समाप्ता गोशान्तिः। सू० १२।—वत्स- साम्पदानि कर्माण्युच्यन्ते। सू० १३।—सूत्रेण परिवेष्ट्य घृतेनाक्ता आदधाति।
संक्षिप्तटीकासङ्ग्रहः । १३ सू० १४ ।—इषीकाः तिस्रो मधुना चिक्सेन प्रलिप्ता आदधाति । सू० १५-१६ ।— ज्येष्ठेन पुत्रेण सह भागविधि वक्ष्यामः । उत पुत्र इत्यृचा गृहकाष्ठकाद्या अभिमन्त्र्य ततो गृहं कारयेत् पुष्टिकामः पुत्रो वा साम्पदं करोति पिता वा करोति । सू० १७ ।—आर्द्रपाणिर्भूत्वा शान्तशाखया ऋचं जपित्वा पुत्रं पिता पुत्रभागं प्रयच्छति । सू० १८-१९ । प्राग्भागमपाकॄत्य पुत्रस्य गृहे गोधनं बध्नाति । अग्निसंमुखं कुरुते । पुत्रस्य भागं क्रियते । सू० २० ।—आग्नेया अमावास्या भवि- ष्यति तस्यां पुत्राश्च भ्रातरोऽपि अनेन विधानेन भागं कुर्वन्ति । समाप्तं विभागकर्म । सू० २१।२३ ।—त्वे क्रतुमित्यृचा सर्वत्र रसप्राशनं परिभाषा सर्वस्मिन्नथर्ववेदे रस- कर्मसु पाक्यज्ञविधानेन प्रजापतये चरुं श्रपयित्वा । स्तुष्व वर्मन्निति ऋचा जुहोति पुष्टिकामः । अमावास्यायामस्तमिते रात्रौ वल्मीके दर्भानास्तीर्य तत्र दीपं ददाति । कण्डिका ॥ २२ ॥ सू० १ ।—पुनः पुष्टिकर्माण्युच्यन्ते । अष्टपिष्टं सक्तुम् । सू० ६ ।—क्षेत्रकामस्य कर्म उच्यते । यत्र क्षेत्रं कामयते तस्मिन् क्षेत्रे इदं कर्म कुर्यात् । सू० ७ ।—सप्त ग्रामलाभकर्म । सू० १० ।—अथ समृद्धिकर्म उच्यते । सू० १० ।—उदक्याम् । सू० १४ ।—अथ समुद्रकर्म उच्यते । शत्रुदेशे गत्वा गार्हपत्यदक्षिणाग्न्याहवनीयेषु कर्म कुर्यात् । ततो गार्हपत्ये अभ्यातानान्तं कृत्वा ममाग्ने वर्च इति सारूपवत्सं गार्हपत्यश्रुतं गार्हपत्ये प्रथमं संपात्य ततो दक्षिणाग्नितन्त्रं कृत्वा पूतीकैस्तरणम् । तत अभ्यातानान्तं कृत्वा तमेव सारूपवत्सं सम्पात्य तत आहवनीयभागस्तरणम् । ततस्तमेव सारूपवत्सं संपात्यानेनैव सूक्तेन ततः पश्चात्सकृदभिमन्त्रणं कृत्वा ततोऽ- श्नाति । गार्हपत्यप्रभृति उत्तरतन्त्रं कुर्यात् । अशनं गार्हपत्यदेशे करोति । उत्तर- तन्त्रम् । व्रतग्रहणादि करोति । दक्षिणाग्न्याहवनीयगार्हपत्येषु यथाक्रमं व्रतग्रहणादि । गार्हपत्यस्य दर्भैस्तरणं दक्षिणाग्नेः पूतिकैः । आहवनीयस्य भङ्गाभिः । समाप्तं समुद्रकर्म । कण्डिका ॥ २३ ॥ सू० १ ।—अथ नवे गृहे अग्निशालायां गोशालायां वा ग्रामे वा पुरे वा अन्य- श्रामित्तेषु वा कर्माणि । पाषाणमये वा काष्ठमये वा तृणमये वा इष्टकामये वा सर्वत्र नवे वासिते इदं कर्म । सू० ६ ।—तूष्णीमादौ वाग्यमनं कृतमिहैव स्तेति वाग्विसर्गः । सू० ७ ।—अग्नौ रविकां औदुम्बरं दत्वा आज्यं जुहोति । धूमं निय- च्छति । लेपं प्राश्नीयात् । सू० ९ ।—दायादेषु विभागकर्म वक्ष्यामः । सू० १२ ।— अथ चित्राकर्म चित्रानक्षत्रे उच्यते । संभारान् संपातयति । वृक्षशाखा । उदकम् । करम्बकम् । औदुम्बरशकलम् । ताम्रछुरिका । सू० १४ ।—वत्सकर्णं छिनत्ति ।
१४ अथर्ववेदीय-कौशिकसूत्रस्य— सू० १५।—कर्णलोहितम् । रसमिश्रितः अश्नापयति पुष्टिकामः । सू० १७।— अथ कृषिकर्म उच्यते । कण्डिका ॥ २४ ॥ सू० १-२।—बीजवापनं कर्म करोति । केदारे वा क्षेत्रे निवपति । त्रीन् मुष्टिबीजस्य । ततः पांसुभिराच्छादयति । सू० ३-६ ।—उच्चस्थाने गत्वा । ततः अभ्यातानान्तं कृत्वामित्यमिति चतुऋर्चेन सूक्तेनोदपात्रं सम्पात्य तदुदपात्रं सोमरसमिश्रं सारूपवत्सं ओदनं सम्पात्याभिमन्त्र्याश्नाति । तत उत्तरतन्त्रं प्राग्द्वारप्रत्यग्द्वारे मण्डपे एतत्कर्म । पश्चान्मण्डपमग्निना दहति । सू० ७।— एकवारप्रसूता गौर्गृष्टिः । गोदाममणिं बध्नाति पुष्ट्यर्थी । सू० ८।——अश्नाति पुष्ट्यर्थी । सू० ९।—इत्यृचा वपया वृषभस्येदं यजते वशाविधानेन (कौ० ४४) सू० १६।—अथ प्रवत्स्यत एकाग्निकस्य इदं कर्म कथ्यते । इहैव स्तेति गृहं मानुष्यांश्चावेक्षते । सू० १८ ।—अथ प्रवेशाय यजमानो यदा आगच्छति तदा इदं कर्मोच्यते । मौनं कृत्वा समिधमादाय गृहं दृष्ट्वा ऊर्जं बिभ्रदिति षडर्चं सूक्तं जपति । वामेन हस्तेन समिधः कृत्वा दक्षिणेन शालावलोकं संस्तभ्य जपति ऊर्जं बिभ्रदिति । ततः समिध आदधाति अग्नौ । सुमङ्गलीति कल्पजेन स्थूणे गृह्णात्युप- तिष्ठते । यद्बदामीत्यृचा वाग्विसर्गं करोति । गृहपत्न्यासाद् उपविश्योदपात्रं निनयति तूष्णीं दूर्वाग्राणि अञ्जुलिकायां कृत्वा पूर्वापरमिति षडर्चं सूक्तं जपति । अमावास्यायां केचिच्चन्द्रमसं दृष्ट्वा जपं कुर्वन्ति पुष्टिकामाः । सू० १९। —अथ वृषोत्सर्गविधि वक्ष्यामः । ऋषभं सम्पात्य विवाहवदग्निपरिणयनं कृत्वा सह वत्सरीभिः विसर्ज- यति । सू० २२।—अत एकादशाहे वृषभं करोति तदा शान्त्युदकं कृत्वा वृषोत्सर्गं करोति । वृषोत्सर्गः समाप्तः । वृषभपुच्छं गृहीत्वा देवपितृभिभ्योऽहं ददे ऋषभमुच्चारयति । सू० २४-२५।—अथाग्रहायणीकर्म उच्यते । रात्रौ अभ्या- तानान्तं कृत्वा त्रयश्चरवः श्रपयितव्याः । सत्यं बृहदित्यनुवाकेन पश्चादग्नेर्दर्भेषु खदायां भूमौ एकं चरुं सकृत् सर्वहुतं जुहोति । सू० ३१।—सत्यं बृहदिति नवभिः शान्ति द्वेति दशम्या । सू० ३६ ।—सत्यं बृहदित्यनुवाकेन कृषिकर्म आयोजनकर्म भवति । सू० ३७।—यस्यां सदो हविर्धाने इति तिसृभिराज्यं जुहोति । तत उत्तरतन्त्रम् । वरो म आगमिष्यतीति वरस्य प्रार्थितोऽभिलाषः उत्कृष्ट- पुत्रधनादि वा सर्वफलकामः । सू० ३८ ।—उपतिष्ठते पृथिवीं पुष्टिकामः । सू० ३९ । निधिं बिभ्रती
कर्म समाप्तम् । सू० ४५ ।—सर्वे मंत्राः पुष्टिकर्मसु पठिताः तृतीयेऽध्याये तेषामुपधान- मुपस्थानं भवति । एते मन्त्राः पौष्टिकाः पौष्टिकानां सर्वेषां मन्त्राणां हविरुपधान- मुपस्थानं वा करोति विकल्पेन । सू० ४६ ।—ततः श्लोकः । पूर्वं निर्ऋतिकर्माणि सर्वेषां पापनुत्तये । पौष्टिकानि ततः पश्चात् तृतीये संहिताविधौ ॥ इति कौशिकपद्धतौ तृतीयोऽध्यायः ॥ ३ ॥
चतुर्थोऽध्यायः ॥ ४ ॥
कण्डिका ॥ २५ ॥
सू० १—३ ॥ भेषजशान्तिर्भैषज्यशब्देनोच्यते । तत्र द्विविधा व्याधयः आहारनिमित्ता अन्यजन्मपापनिमित्ताश्च । तत्राहारनिमित्तेषु चरकवाहडसुश्रुतेषु··· व्याध्युपशमनं भवति । अशुभनिमित्तेषु अथर्ववेदविहितेषु शान्तिकेपु व्याध्युपशमनं भवति । तथाचाग्रे वक्ष्यति । अनूक्तान्यप्रतिषिद्धानि भैषज्यानामंहोलिङ्गाभिः (कौ० ३२।२६।२७) सर्वाणि कर्त्तव्यानि । उक्तान्यनूक्तानि च कर्त्तव्यानि । बन्धन- पायनादीनि च कार्याणि । सू० ५ ॥—मुखवलींविमार्ष्टि अङ्गवलीञ्च । तरुणस्य यदि वलयस्तदा एतत्कर्म । सू० ६ ॥—अथ ज्वरातिसारभैषज्यान्युच्यन्ते । मुञ्जपुष्प- मणिं मुञ्जरज्ज्वा बध्नाति । सू० ७ ॥—अतिसारे चातिमूत्रे च भैषज्यम् । ·····। सू० ८ ॥—अपानं श्लक्ष्णिति । सू० ९ ॥—अपाने शिश्नं वा नाडीं वा व्रणमुखं धमति अतिसारे । समाप्तानि ज्वरातिसारे अतिमूत्रे अङ्गनाडीप्रवाहे च भैषज्यानि । सू० १० ॥—अतिदुःखमूत्रे दुःखपुरीषकरणे च शमनभैषज्यान्युच्यन्ते । ····· विद्या शरस्येति द्वितीयेन हरीतकीं कर्पूरं वा सम्पात्याभिमन्त्र्य बध्नाति । सू० १२ ॥ —विषितं ते बस्तिबिलमिति द्वाभ्यामष्टम्यां मूषिकमृत्तिकोपरि उपविश्य जपति । तृणोपरि उपविश्याभिमन्त्रयते ।··· बस्तिबिलमुखमभिमन्त्रयते । दारुतक्षकशकलान् दधिमथितोपरि उपविश्य ततोऽभिमन्त्रयते ।····· जरद्घमन्दोपरि उपविश्याभि- मन्त्रयते ।··· दारुतक्षकशकलानामुपरि उपविश्य व्याधितं ततोऽभिमन्त्रयते मूत्रादि- प्रतिबन्धे मूत्रं मुच्यतामिति लिङ्गात् । सू० १३ ॥—व्याधितमारोहयति । सू० १४ ॥—व्याधितः शरं प्रक्षिपति । सू० १५ ॥—शरशिखामभिमन्त्र्य निष्कोटयति शिखां चर्मणो निःसारयतीत्यर्थः । सू० १६ ।—लोहशलाकामभिमन्त्र्य शिश्ने प्रवेश-
यति । मूत्रप्रवाहं विदारयति । सू० १७ । — विद्मा शरस्येति द्वितीयेन दुग्धीं ज्याधनुषं जघने शिश्नदेशे ऊर्ध्वंकृत्वा गोदोहन्त्यामुदकं कृत्वा यवानेकविंशतिं प्रविश्य प्रक्षिप्य तेन उदकेन धनुषमुपरि फलं सिञ्चति सूक्तं जपित्वा ॥ यथा उदकं शिश्ने पतति तथा कार्यम् । सू० १८ । —यवगोधूमवल्ली पद्ममूलं यातिका एतानि क्वाथयित्वाभिमन्त्र्य व्याधितं पाययति । समाप्तानि मूत्रप्रतिबन्धे दुःखमूत्रकरणे दुःखपुरीषकरणे···उदर- पूर्णनिरोधकरणे च एतानि भैषज्यानि कार्याण्यारोग्यकामः । सू० २० । —अथ सर्व- रोगभैषज्यान्युच्यन्ते । अभ्यातानान्तं कृत्वा अम्ब यो यन्तीति वायोः पूत इति सूक्ते- नाज्यं जुहोति । पलाशोदुम्बराद्याः समिध आदधाति । सर्वव्याधिभैषज्यकामः । सू० २१ । —अथ सोमभक्षणे भैषज्य
संक्षिप्तटोकासङ्ग्रहः । १७ एकविंशति गृहत्तृणानि च प्रक्षिप्य तं घटमभिमन्त्र्य ततो व्याधितं सिञ्चति । ततो मार्जनञ्च दर्भत्रयमेकत्र बद्धं पिञ्जूलीत्युच्यते । समाप्तं जलोदरभैषज्यम् । अभ्यासेन कर्मसिद्धिः दिने दिने कुर्यात् जलोदरनाशनार्थम् ॥ कण्डिका ॥ २६ ॥ सू० १ ।—अथ वातपित्तश्लेष्मणि भैषज्यान्युच्यन्ते । मांसमेदोऽभिमन्त्र्य पाययति वातविकारे । मधु अभिमन्त्र्य पाययति श्लेष्मविकारे । घृतमभिमन्त्र्य पाय- यति वातपित्तसहविकारे । तैलमभिमन्त्र्य पाययति वातश्लेष्मविकारे । सू० २-६ ।- अतिकाशे शीर्षक्ति शिरोवेदनायां च कर्माण्युच्यन्ते । व्याधितं शिरं मौञ्जवेष्टितं कृत्वा वामेन हस्तेन वपनं जालसहितं गृहीत्वा जरायुज इति सूक्तेन लाजान् प्रकिरन् व्रजति व्याधिदेशं यावत् । तत्रैव मुञ्जप्रक्षं लाजांश्च वपनानां प्रक्षेपः । वामेन हस्तेन वपनं मौञ्जं इन्दुकं च गृहीत्वा दक्षिणेन हस्तेन ज्यां तूणीं गृहीत्वा...व्याधितमग्रे कृत्वा यत्र व्याधिरुत्पन्ना तत्र स्थाने गत्वा जरायुज इति जपित्वा मौञ्जप्रक्षं वपनं क्षिपति व्याध्युत्पत्तिस्थाने ज्यां तूणीं प्रक्षिपति । वातज्वरे कटिभङ्गे शिरोरोगे च वातगुल्मे वातविकारे च सर्वरोगे च भैषज्यम् । धनुर्वाते अङ्गकम्पने वाते शरीरभङ्गे सर्ववातविकारे भैषज्यम् । सू० ८ ।—घृतमभिमन्त्र्य नासिकानस्तं दद्यात् । सू० ९ ।—जरायुज इति सूक्तेन पञ्चपर्ववेणुदण्डं ललाटे संस्तभ्य जपति शिरोरोगे कटिभङ्गे वा वातगुल्मे विकारे च । लिङ्गयुपतापः समाप्तः । सू० १० ।—अथ लोहितं वहति शरीरमध्ये बहिश्च । कर्माण्युच्यन्ते । पञ्चपर्ववेणुदण्डं रुधिरवहनस्थाने दत्वा “असूर्या” इति सूक्तं जपति । रथ्यायाः पांसून् गृहीत्वाभिमन्त्र्य रुधिरव्रणे वि- किरति । सू० ११ ।—अभ्रंकपालिकां बध्नाति । केदारमृत्तिका इति । सू० १२ ।- अभ्रंकपालिकामभिमन्त्र्य पाययति । अभ्रंकपालिकां शुष्कपङ्कमृत्तिकाम् । स्त्रीरजसोऽति- प्रवर्त्तने भैषज्यं रुधिरप्रवाहे च । सू० १४ ।—अथ हृद्रोगे कामले चेत्यादिभैषज्या- न्युच्यन्ते । सू० १६-१७ ।—अनुसूर्यमिति सूक्तेन गोरक्तचर्मच्छिद्रमणिं गोदुग्धे तं दत्त्वा संपात्याभिमन्त्र्य बध्नाति दुग्धं च पाययति । अभ्यातानाद्युत्तरतन्त्रम् । कामले हृद्रोगे चेत्यादि लिङ्गयुपतापः । सू० १८ ।—हरिद्रौदनं व्याधितस्य भोजनं दत्वा तस्योच्छिष्टं चानुच्छिष्टं चैकत्र कृत्वा तेन च उद्वर्त्तनं कृत्वा शिरः- प्रभृत्यारभ्य यावत्पादौ उद्वर्त्य ततो व्याधितं च खट्वायामुपवेश्य खट्वाधस्तात् शुकं काष्ठमुसुकं च गोपितिलकां च एते त्रयः पक्षिणः सव्यजङ्घायां हरितसूत्रेण बद्ध्वा खट्वाधस्ताद् बध्नाति ।......अपस्मारे भैषज्यम् । उदकमभिमन्त्र्य व्याधितं स्नापयति । सू० १९।—मन्थमभिमन्त्र्य प्रपाद्य प्रयच्छति भक्ष्यार्थम् । सर्वत्र गृहद्वारे अग्रे व्याधितं कृ
व्याधिताय प्रयच्छति । सर्वत्र यत्र यत्र प्रयच्छतिशब्दस्तत्र तत्रैव बोद्धव्यम् । (कौ० ७।१८) सू० २० । — अनुसूर्यं इति सूक्तेन शुष्कचन्दनमभिमन्त्रयेत् । काष्ठ- शुष्कचन्दनमभिमन्त्रयेत् । गोपीतिलकां-यस्मिन्कस्मिंश्च दृष्ट्वा वदन्तीं तत्राभिमन्त्रयते व्याधितः । सू० २१ ।--वृषभहृदयलोमभिः सुवर्णवेष्टितं मणिं कृत्वा सम्पात्याभि- मन्त्र्य व्याधिताय बध्नाति । समाप्तानि अपस्मारविस्मयहृद्रोगकामलकरोहिणकानि भैषज्यानि । सू० २२ ।—अथ श्वेतकुष्ठभैषज्यान्युच्यन्ते । श्वेतकुष्ठं गोमयेन प्रघृष्य यावल्लोहितं दृष्ट्वा भृङ्गराजहरिद्राभ्यां इन्द्रवारुणीनीलिकापुष्पा एताः पञ्च पिष्ट्वाभिमन्त्र्य कुष्ठं प्रलिम्पति । सू० २३ ।—पलितानि छित्त्वा घृष्ट्वा अवलिम्पति । सू० २४ ।--अथ मारुतान्युच्यन्ते । समाप्तानि कुष्ठभैषज्यानि श्वेतपलितनाशनं दुर्भिन्ननाशनं च । सू० २५ ।--अथ ज्वरभैषज्यमुच्यते । नित्यज्वरे वेलाज्वरे सतत- ज्वरे एकान्तरितज्वरे चातुर्थिकज्वरे च ऋतुज्वरे च । सू० २६ ।—अथोद्वेगविनाश- भैषज्यान्युच्यन्ते । सू० २८ । —उप प्रागादितिसूक्तेन उल्मुकद्वयमभिमन्त्र्य घृषीयत रात्रौ उषाकाले एतत्कर्म । तथा प्रभाते स्वस्तिदा इति सूक्तेन दक्षिणेन पादेन प्रक्राम- तीति (कौ० ५०।१।) स्वस्थयनम् । वृद्धबालयुवस्त्रीपुरुषाणामकस्मादुद्वेगः प्रलापो वा भवेत्तदा एतत्कर्म कुर्यात् । सू० २९ ।--गन्धर्वराक्षसेऽप्सरसे भूतग्रहादिषु भैषज्यान्युच्यन्ते । सू० ३० ।---चतुष्पथे व्याधितं कृत्वा ततः प्रज्वालिताग्नौ घृताक्ताः सर्वौषधीर्जुहोति । सू० ३१ ।—व्याधितस्य वल्गुनिकां सर्वौषधिसहितां हस्तेन कृत्वा नदीमुखसंमुखां प्रविश्य नदीमध्ये वल्गुणिकायां सर्वौषधिं घृताक्तां हुत्वा । ततः प्रक्रामति । उदकमध्ये सर्वौषधीर्जुहोति घृताक्ताः । पश्चात्स्थितो व्याधितं सिञ्चति । सू० ३२ ।—ततो मृण्मये आमपात्रे होमशेषाः सर्वौषधीः कृत्वा पक्षिणो यस्मिन् वृक्षे वसन्ति तत्र त्रिपादे कृत्वा बध्नाति । सू० ३३-४० ।--अथ लौकिके शापे वैदिके शापे च स्त्रीणामाक्रोशे च पुरुषाणाञ्च भैषज्यमुच्यते । सर्वस्मिन् संहिता- विधिकर्मणि प्रधानकर्ममध्ये नवं घटं यत्प्रथममास्थापितमुत्तरतस्तेनोदकेन हिरण्य- वर्णा इति सूक्तेन अभिमन्त्रितेन कारयिताभिषेचयेत् । सर्वत्र मेधाजननादिकर्मसु । ततः पश्चान्मणिबन्धनादिकर्म कुर्यात् । भैषज्येष्वभिषेकं न कुर्यात् । अभ्यातानान्तं कृत्वा अघद्विष्टा इति सूक्तेन यवमणिं सम्पात्याभिमन्त्र्य पुनः सूक्तं जपित्वा बध्नाति । लौकिके आक्रोशे वैदिके च ब्राह्मणस्य शापे आक्रोशे च क्रूरचक्षुर्दृष्टिनिपाते च पिशाच- रक्षादिषु भैषज्यं समाप्तम् । अथ रक्षोग्रहे भैषज्यमुच्यते । आज्यतन्त्रं कृत्वा शं नो देवीति सूक्तेन पृश्निपर्णीमोषधिं पिष्ट्वा सम्पात्याभिमन्त्र्य पुनः सूक्तं जपित्वा शरीरं प्रलिम्पति । अभ्यातानाद्युत्तरतन्त्रम् । पापगृहीते च स्त्रीगर्भस्रावे च मृतापत्यायां च क्रव्याद्गृहीते च पिशाचगृहीते च रक्षोभयभैषज्यं समाप्तम् । अथ राजयक्ष्मादि- भैषज्यमुच्यते । तन्त्रं कृत्वा वरणोवारयता इति तृचेन वरणवृक्षमणिं बध्नाति ।
राजयक्ष्मादिपूगव्याधिषु श्वेतोदुम्बरकुष्ठाद्यष्टादशजातिषु ज्वरादिसर्वरोगेषु भैषज्यं समाप्तम् । अथ वातविकारे भैषज्यमुच्यते । पिप्पलीक्षिप्तभेषजीमिति सूक्तेन पिप्पल- द्रव्यं आशयति । वातविकारे धनुर्वातगुल्मे वातशूले क्षिप्तवातप्रदोषे कर्मकृते वाते उत्पन्ने सर्वव्याधिविकारे भैषज्यं समाप्तम् । जलोदरे भैषज्यमुच्यते । विद्रधस्य बलासस्येति तृचेन सूक्तेन व्याधितस्य मूर्धनि सम्पातानानयति । सर्वव्याधिविसर्पणे प्रकोप च बलासे च आन्त्रविसर्पणे च अक्षिविसर्पणे च विद्रधिविसर्पणे च हृदयामये च अज्ञातराजयक्ष्मणि च एतेषां भैषज्यं समाप्तम् । या बभ्रव इति सूक्तेन दश वृक्ष- शकलानि लाक्षाहिरण्येन वेष्टितं मणिं कृत्वा...बध्नाति । सर्वव्याधिभैषज्यं समाप्तम् । सू० ४१ ।--अथ क्षेत्रियव्याधिभैषज्यमुच्यते ।
२० अथर्ववेदीय-कौशिकसूत्रस्य— मुच्यते । आज्यतन्त्रं कृत्वा व्याधितं पर्वसु बद्ध्वा अक्षीभ्यां त इति सूक्तेनोदपात्रं सम्पात्य ततः पुनः सूक्तं जपित्वावसिच्य व्याधितस्य पर्वग्रन्थिर्विमुच्यते । तत उत्तर- तन्त्रम् । समाप्तमक्षिरोगनासिकाकर्णशिरोजिह्वाग्रीवाराजयक्ष्मादि सर्वभैषज्यम् । सू० २९।—हरिणस्येति सूक्तेन हरिणशृङ्गमणिं···बध्नाति ॥ हरिणशृङ्गेन सहोदकं आचामयति । अथोषाकाले एतत्कर्म । हरिणचर्मशङ्कुधानं प्रज्वाल्योदकेन प्रक्षिप्य ततो व्याधितमवसिञ्चति । सू० ३२।—बालरोगगृहीते च मैथुनदोषभैषज्यान्यु- च्यन्ते । पूतिगन्धमत्स्यसहितमोदनं व्याधिताय प्रयच्छति भक्षणार्थम् । सू० ३३।— अरण्यतिलैः प्रज्वालितमुदपात्रमभिमन्त्र्य प्रक्षिपति उषाकाले । अवसिञ्चति व्याधि- तम् । मैथुनराजयक्ष्मणि भैषज्यम् । अरण्यशणेन अरण्यगोमयेनावज्वालितमुदकंम- भिमन्त्र्यावसिञ्चति । उषाकाले मार्जनाचमनम् । चित्यादिभिः प्रज्वालितमुदकमभि- मन्त्र्य व्याधितमवसिञ्चति । मार्जनाचमनं च । केचित्तिलशणादिचतुर्षु कर्मसु अरण्ये अवसेकमिच्छन्ति । केचिद् गृहे अवसेकमिच्छन्ति । सू० ३४।—अथ सर्वभैषज्यान्युच्यन्ते । आ गाव इति दशभिः सूक्तैः मुञ्जशीर्षक्त्या इत्यृचा घटमुद- कपूर्णं संपात्याभिमन्त्र्य व्याधितमवसिञ्चति ॥ कण्डिका ॥ २८ ॥ सू० १।—स्कन्दविषभये भैषज्यान्युच्यन्ते । तक्षकदेवतायै नमस्कारं कृत्वा ततो ब्राह्मणो जज्ञे वारिदमिति सूक्ताभ्यां उदकमभिमन्त्र्य आचामयति । संप्रोक्षति विषदुष्टं । सू० २।—क्रमुकवृक्षशकलं सहोदकमभिमंत्र्य तत आचामयति··· अभ्युक्ष्यति दूर्वांवज्वालितमुदकमभिमन्त्र्यावसिञ्चति । जीर्णहरिणचर्मावज्वालित- मुदके प्रक्षिप्य तमभिमन्त्र्य ततोऽवसिञ्चति । मार्जालिकावकरतृणैरवज्वालितमुदक- मभिमन्त्र्यावसिञ्चति । सू० ३।—उदपात्रं सम्पात्य तत आप्लावयति विषदुष्टं विषलिप्ता- भ्यां सक्तुमन्थमुपमथ्य ततोऽभिमन्त्र्य पाययति । मदनफलानि प्रत्यृचं भक्षयति यथा च छर्दयति तथा च कर्त्तव्यम् । सू० ५।—शस्त्राद्यभिघाते रुधिरप्रवाहे भैषज्या- न्युच्यन्ते । रोहिण्यसीति सूक्तेन लाक्षोदकं कथितमभिमन्त्र्य व्याधिदेशमवसिञ्चति ॥ उषाकाले कर्म । अस्थिभङ्गे रुधिरप्रवाहे शस्त्राभिघातादौ भैषज्यम् । सू० ७।—रक्षो- भैषज्यमुच्यते । सदम्पुष्पा सन्ध्या प्रसिद्धा । सू० ८।—अथ सर्वव्याधिभैषज्य- मुच्यते ॥ भवाशर्वौ मन्वे वामिति सूक्तेन । सू० ९ । सर्वभूतग्रहमैषज्यमुच्यते । शमीपर्णचूर्णं शमीफले कृत्वाभिमन्त्र्य सक्तुमध्ये ददाति भक्षार्थं रक्षोग्रहमैषज्यम् । सू० १०।—शमीचूर्णं शमीफले कृत्वाभिमन्त्र्यालङ्कारे ददाति । सू० ११।— शमीचूर्णं शमीफले कृत्वाभिमन्त्र्य व्याधितस्य शालां चूर्णैः परिकिरति । सू० १२।- अमतिगृहीते पुरुषे भैषज्यमुच्यते । प्रज्ञानष्टे अज्ञानगृहीते अधर्मगृहीते त्रिवर्गे च
:
- 'अश्वत्थ' (L2): top bar is ONLY over the vertical stem! No bar over the left 3-shape!
- 'अप्रतिहारं' (L3): no bar over the left!
- 'अथ' (L4): no bar over the left!
- 'अग्निदग्धे' (L6): no bar over the left!
- 'अरिष्टकस्य' (L7): no bar over the left!
- 'अद्भुतदर्शने' (L9): no bar over the left!
- 'अथोदकम्' (L14): no bar over the left!
- 'अपेह्य' (L19): no bar over the left!
- 'अपेह्य' (L20): no bar over the left!
- 'असितस्य' (L23): no bar over the left!
- 'अथ' (L26): no bar over the left!
- 'अथ' (L30): no bar over the left! EVERY SINGLE 'अ' in this entire page has NO top bar over the left portion! Does the word in L20 have a top bar over the first glyph? LOOK AT L20: "ततो" then space. Then the top horizontal bar starts... wait, WHERE does it start? It starts over the vertical stem? Wait! Look at the left: The left part is: A loop at top
१९ ।-अभ्रिस्तक्मानमिति सूक्तेन । ताम्रस्रुवेण मूर्ध्नि संपातानानयति । तत उत्तर- तन्त्रम् । एकस्मिन् तन्त्रे दावाग्निप्रणयनम् । सू० २० ।—अथ कृमिभैषज्यमुच्यते । करीरमूलं सम्पात्याभिमन्त्र्य बध्नाति । गोबालैः करीरकाष्ठं वेष्टयित्वा सूक्तं जपित्वा पाषाणेन चूर्णयति । ततः सूक्तेनाग्नौ प्रतपति । ततः सूक्तेनादधाति । सू० २४ ।--एकविंशत्युशीराणां मूलान्यभिमन्त्र्य ततः पाषाणेन क्षुदयति ततः सूक्तं जपित्वा उशीराण्यग्निना दहति । सू० २६ ।—एकविंशत्युशीरपिञ्जूली- सहितं सम्पात्याभिमन्त्र्य ततो व्याधितमाप्लावयति । सू० २७ ।—अथ राक्षस- भैषज्यमुच्यते ।—वयोनिवेशनकाष्ठशृतम् । सू० २८।—अथ सर्पविषभैषज्यमुच्यते । सर्पविषलिङ्गयुपतापः । सू० ३० ।—श्लेष्मभैषज्यमुच्यते । उदकेन इदं क्रियते । अत्स्विदं कृत्वा तत्राग्निं प्रज्वाल्य । अस्थिसंसमिति सूक्तेन काष्ठशकलं संपात्य ततः शकलेन सम्पातवतावसिञ्चति व्याधितम् ॥ कण्डिका ॥ ३० ॥ सू० १।२ ।—अथाक्षिरोगे भैषज्यमुच्यते । सर्षपकाण्डमणिं संपात्याभि- मन्त्र्य बध्नाति सर्षपतैलेन सम्पातवन्तं करोति । आज्येन प्रधानं अङ्गानि सर्षपतैलेना- भ्यज्य मणिं वा ततो बध्नाति । सू० ३ ।—सर्षपशाकं सर्षपतैलेनाभ्यक्तमभिमन्त्र्य व्याधिताय प्रयच्छति । सू० ५ ।-मूलक्षीरं मुखेन प्राश्य ततोऽभिमन्त्र्य अङ्क्ते अक्षिणी व्याधितस्य । मूलक्षीरं क्षीरपाटिकालग्नं तदुच्यते । सू० ६ ।—मूलक्षीरं भक्षयति । सू० ७ ।—पित्तज्वरभैषज्यमुच्यते । ताम्रस्रुवेण मूर्ध्नि संपातानानयति । अस्मिन् तन्त्रे दावाग्निप्रणयनं कुर्यात् । सू० ८ ।—अथ केशवृद्धिकरणे केशपतने भैषज्य- मुच्यते । वृक्षभूमिजातौषधीभिरवज्वालितमुदकमभिमंत्र्यावनक्षत्रेऽवसिञ्चति । सू० ९ ।—मधु क्वाथयित्वा विभीतकं क्वाथयित्वाभिमन्त्र्य व्याधितमवसिञ्चति । सू० १० ।-दारुहरिद्रा हरिद्रे च द्वाभ्यां क्वाथयित्वाभिमन्त्र्यावसिञ्चति । सू० ११ ।—अथ उदरतुण्डभैषज्यमुच्यते । कृष्णं नियानं सञ्चरिति सूक्ताभ्यां चिरुयाचोषध्या सहित- मुदकमभिमन्त्र्य ततो व्याधितमवसिञ्चति । सू० १२ ।—कृष्णं नियानं सञ्चुषो- रितिसूक्ताभ्यां मरुतो यजते पाकयज्ञविधानेन यथा वरुणम् । मारुतं क्षीरौदनं मारुतशृतम् । सू० १३ ।......अथ हृदयदग्धे जलोदरे कामले च भैषज्यान्युच्यन्ते । नद्युदकमनुलोममाहार्यं तत्र वलीकतृणानि प्रक्षिप्य व्याधितमवसिञ्चति । सू० १४ ।—अथ गण्डमालाभैषज्यमुच्यते । पञ्च च या इति सूक्तेन गोपाशूलिकां पञ्चाशत्पंचाशत्यधिकाअग्नौ प्रज्वाल्य अधस्तादयः समिध आदधाति । कण्डिका ॥ ३१ ॥ सू० ४ ।—पुरोडाशं ... पयो जुहोति । व्रीहीन् । आवपति शान्तवृक्षसमिध
संक्षिप्तटीकासङ्ग्रहः । २३
आदधाति । रक्षोग्रहभैषज्यम् । सू० ५ । — अथ सर्वभैषज्यमुच्यते । वैश्वानरो न ऊतये ऋतावानं वैश्वानरमिति सूक्ताभ्यां उदपात्रमभिमन्त्र्य पाययति । सक्तुमन्थं पाययति । हरिद्रां सर्पिषि पाययति । अप्सु घृतमुदकमभिमन्त्र्य पाययति । सू० ६।— अपवादे भैषज्यमुच्यते, बहुभाषणमधर्मे च प्रवर्तते तस्यापवादः । अभ्यातानान्तं कृत्वा अस्याद् द्यौरिति पूर्वेण स्वयंपतिते गोशृङ्गे उदकं कृत्वाभिमन्त्र्याचामयति अभ्युक्षति च । सू० ७ ।—अथ उदरे वा हृदये वाङ्गे वा सर्वाङ्गे वा शूले उत्पन्ने भैषज्यमुच्यते । या ते रुद्र इति सूक्तेन शूलमणिं संपात्याभिमन्त्र्य बध्नाति । शूलं लोहमणिः पाषाणो वा दारिलरुद्रमतम् । यां ते रुद्र इति व्याधितमभिमन्त्रयते रुद्र- भाष्यमतम् । शूलभैषज्यं समाप्तम् । सू० ८।—रक्षोग्रहे भैषज्यमुच्यते । उत्सूर्यमिति चित्याद्योषधीभिः सहोदकघटमभिमन्त्र्य व्याधितमवसिञ्चति । शम्युदकेन सह अव- सिञ्चति । शमीबिम्बमुदकसहितं अवसिञ्चति शीर्षपर्णीमुदकं दत्त्वा अवसिञ्चति । सू० ९ ।—दुष्टगण्डविशिष्टभैषज्यमुच्यते । तैलमभिमन्त्र्य व्याधितं गण्डं संमार्ष्टि । सू० १० । — स्थूणायां निकषंति घृष्यति व्रणं रुधिरकृते दुष्टव्रणे दुष्टगण्डव्याधि- भैषज्यं समाप्तम् । सू० ११ ।—अक्षितव्रणभैषज्यमुच्यते । गोमूत्रमभिमन्त्र्य तेन व्रणं मर्दयति । यस्य व्रणस्य मुखं नास्ति । अक्षतदुष्टव्रणे भैषज्यम् । सू० १४ ।— तृणरजस्य फेनमभिमन्त्र्य व्रणं प्रलिम्पति । यस्य गण्डदुष्टस्य रुधिरं न च वहति तस्य समाप्तमक्षतव्रणभैषज्यम् । सू० १६।—गण्डमालाभैषज्यमुच्यते । शंखं घृष्ट्वाभि- मन्त्र्य गण्डमालां प्रलिम्पति । श्वानलालां कुकुंटलालां प्रलिम्पति । जलौकामभिमन्त्र्य गण्डमालायां संसंजयति । सू० १७ ।—सैन्धवलवणं चूर्णयित्वाभिमन्त्र्य गण्डमा- लाया उपरि प्रकिरति । ततस्तस्योपरि निष्ठीवति मुखलालां प्रक्षिपति । सू० १८।— अथ पक्षिणोऽभिघाते भैषज्यमुच्यते । श्वानपदस्थानमृत्तिकामभिमन्त्र्य पक्षाहतं देशं प्रलिम्पति । पक्षहतभैषज्यम् । सू० १९ ।—शुनो मक्षिकामभिमन्त्र्याग्नौ प्रक्षिप्य ततो धूपयति व्याधिप्रदेशम् । काकगृध्रकपोतश्येनादिपक्षिणाभिघाते भैषज्यं समाप्तं । सू० २० ।—अथ गण्डभैषज्यमुच्यते । ग्लौरितः प्रपतिष्यतीति अर्धर्चेन गोमूत्र- मभिमन्त्र्य गण्डं मर्दयति । प्रक्षालयति । दन्तमलं प्रलिम्पति । तृणरजःफेनं ॰॰॰ प्रलि- म्पति । समाप्तं गण्डभैषज्यं गण्डस्फोटिकां इत्यर्थः । सू० २१ ।—गर्दभाद्युहं गण्ड- भैषज्यमुच्यते ॰॰॰ । शान्त्युदकमभिमन्त्र्य क्षतं प्रोक्षति । आज्यं जुहोति । ततो मनसा संकल्पयति सम्पातान्ददाति । समाप्तं गर्दभदशजातिपिकादिक्षतगण्डभैषज्यम् । सू० । २२ ।—पापगृहीते जलोदरे च भैषज्यमुच्यते । सू० २६ ।—विषे उपविषे स्थावरजङ्गमे च भैषज्यमुच्यते । मक्षिकायां च भैषज्यम् । सू० २७ ।—काशो श्लेष्म- पतने च भैषज्यमुच्यते । भोजनमभिमन्त्र्य ददाति । सक्तुमभिमन्त्र्य भक्षयति । उप- स्थानमादित्यस्य । उदकमभिमन्त्र्याचामयति । सू० २८ ।—केशवृद्धिकरणे भैषज्य-
२४ अथर्ववेदीय-कौशिकसूत्रस्य— मुच्यते । काचीमाचीफलमणिं बध्नाति । जीवन्तीफलं बध्नाति । भृङ्गराजं बध्नाति । केशादृढीकरणे केशाजनने ह्रस्वकेशेषु वृद्धकरणभैषज्यम् । माषतिलादि कृष्णमन्नं भक्ष- यित्वा काचीमाचीफलं भृङ्गराजाभ्यां सहोदकमभिमन्त्र्य रात्रौ ब्राह्मे मुहूर्त्तेऽव- सिञ्चति । कण्डिका ॥ ३२ ॥ सू० १।—जम्भगृहीते भैषज्यमुच्यते । स्तनमभिमन्त्र्य बालकाय प्रयच्छति पानार्थं पतिः करोति कर्त्ता करोति । दुःखनाशने भैषज्यम् । सू० २ ।—पाययति बालकं पिता वा माता वा पाययति तत्रोपरि दुह्यते अन्यवदुग्धाः । सू० ३ ।— सर्वव्याधिभैषज्यमुच्यते......सू० ५ । वृश्चिकभैषज्यमुच्यते “तिरश्चिराजैरित्यृचेन” ज्येष्ठेमधु पिष्ट्वाभिमन्त्र्य पाययति । सू० ६ ।—क्षेत्रमृत्तिकां जीवकोषणीचर्मवेष्टितां मणिं कृत्वा सम्पात्याभिमन्त्र्य बध्नाति । वृश्चिकमशकभैषज्यम् । जीवतः पशोश्चर्म जीवकोषणीत्युच्यते । सू० ७ । यानि यानि पायनान्युक्तानि तानि “तिरश्चिराजैरि”- त्यस्य सूक्तस्य भवन्ति । समाप्तं वृश्चिकपिपीलिकामशकदंशशार्कोटजलूकाभैषज्यम् । ॰॰॰सू० ८ । अथ गण्डमालाभैषज्यमुच्यते । “अपचितां लोहिनीनामिति द्वाभ्याम् । “आसुस्रुस” इत्येका एताभिस्तिसृभिर्वंशधनुषं कृष्णोर्णमयीं ज्यां कृत्वा चित्रितेन शरेण गण्डमालां विध्यति प्रत्यृचम् । त्रयः शरा भवन्ति । सू० ९ ।—“या ग्रैव्या अपचित” इति चतुर्थ्या ऋचा चतुर्थेन शरेण गण्डमालामभिनिधाय विध्यति । सू० १०।–कृष्णोर्णज्याप्रज्वालितोदकमभिमन्त्र्य उषाकाले...अवसिञ्चति व्याधितम् । सू० ११ ।—अथ राजयक्ष्मभैषज्यमुच्यते ।......तृचेन वीणातन्त्रीखण्डं सम्पा- त्याभिमन्त्र्य बध्नाति । सू० १२ ।—वाद्यवीणा तस्याङ्गस्वरं विष्णोर्वाद्यवीणाकण्ठं शिखण्डं वीणातन्त्रीं बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । सू० १३ । स्वयंपतितवीरि- णखण्डत्रयमेकत्र बद्ध्वा सम्पात्याभिमन्त्र्य बध्नाति । सू० १४ ।—जलोदरे वरुण- गृहीते भैषज्यमुच्यते । सू० १७।—अथ ज्वरभैषज्यमुच्यते । “नमो रुण्येति” सूक्तद्वयेन खट्वायां व्याधितं कृत्वा बध्वा तत अधः खट्वायां व्याधितमुपवेश्य तत उदकमभिमन्त्र्य व्याधितमवसिञ्चति । व्याधितं सिच्यमानं यथा मण्डूकमभिषिच्यते तथा कुर्यात् । सू० १८ ।—अथ सर्वभैषज्यमुच्यते । अर्थसूक्तेन व्याधितेन...... अभिमृशति । सू० २० ।—सर्वविषभैषज्यमुच्यते । सू० २१ ।-“इन्द्रस्य प्रथम०” इत्यर्थसूक्तेन पैद्रं कीटकं तालिणीति लोकप्रसिद्धा तं पिष्ट्वाभिमन्त्र्य नस्तं ददाति... दक्षिणनासिकापुटे । सू० २२ ।—अथ सर्पभये भैषज्यमुच्यते । पैद्रं श्वेतवस्त्रवेष्टित- मभिमन्त्र्य यत्र सर्पभयं तत्र निखनति । पैद्रं हिरण्यवर्णसदृशः कीटश्चित्रितो वासः पैद्र इत्युच्यते । सू० २४ ।—“आरे अभूदित्यृचान्तेन उल्मुकं प्रताप्याभिमन्त्र्य ततो
दा पुत्रो जायते।" Again, "कर्तव्यं ।" "जायते।" - danda right after te.
विज्ञानकर्मेदं । सू० २० ।—यदि पुंनामधेयं स्पृशन्ति तदा कुमारो जायते । Look at L20: "विज्ञानकर्मेदं । सू० २० ।—यदि पुंनामधेयं स्पृशन्ति तदा कुमारो जायते ।" Wait, "पुंनामधेयं": प, ु, ं, न, ा, म, ध, े, य, ं = पुंनामधेयं.
कण्डिका ॥ ३४॥ Centered: "कण्डिका ॥ ३४॥" Wait, does it have space between ३४ and ॥? "३४॥"
सू० १।—अथ वन्ध्याप्रजननकरणमुच्यते । सू० २। —ततो गृहे पुरोडाशं Look at L22: "सू० १।—अथ वन्ध्याप्रजननकरणमुच्यते । सू० २। —ततो गृहे पुरोडाशं" Wait, is there space before the dash in सू० २। —? Yes, space, dash.
प्रसन्दं कटुपा अलंकारान्सम्पात्य प्रयच्छति । सू० ३।—अथ मृतापत्यायाः स्त्रिय- Look at L23:
२६ अथर्ववेदीय-कौशिकसूत्रस्य— आवपेत्सुरभिगन्धान् क्षीरे सर्पिस्तथोदके । एतदायनमित्याहु रौक्षं तु मधुना सह ॥— सू० १५।—दक्षिणामुखी कुमारी प्रक्रामति । सू० १६।—नावं सम्पात्य “भगस्य नाव” मित्यृचा उत्तारयति । सू० १७।—सप्तदानतंत्र्या वत्सान् बन्ध- यित्वा सम्पात्याभिमंत्र्य कुमारीं मोचयति । स्वयं न कर्त्ता । यदि प्रदक्षिणं मोचयति तदा पतिलाभः । सू० १८।—वृषभं विसर्जंयति । सू० २१।—आगम कृशरं आशयति आज्यतंत्रे भगिनीकं । सू० २३।—तत “अर्यम्ण” इत्यर्धर्चेन गृहाभ्य- न्तरे कोणे, बलिहरणं करोति । सू० २४।—यत आगच्छति काकस्तत आगच्छति वरः समाप्तानि पतिलाभकर्माणि । कण्डिका ॥ ३५ ॥ सू० १।—पुंसवानान्युच्यन्ते । सू० २। — नक्षत्रकल्पे उक्तानि पुंनक्षत्राणि सू० ३। —बाणं विवृर्हति । शरमणिं सम्पात्याभिमंत्र्य बध्नाति । सू० ४।— अध्यण्डे बृहतिपलाशविदार्यौ वा एकत्र पिष्ट्वाभिमंत्र्य दक्षिणेनाङ्गुष्ठेन दक्षिणस्यां नासिकायां नस्तं ददाति । पुत्रार्थं कर्म पुंसवनमित्युच्यते । सू० ५।६।७।— केलूनांश्च पलाशत्सरु निर्वर्तं निघृष्य शिश्ने आधाय ततो मैथुनं करोति । समाप्तं गर्भाधानं । सू० ८।९। —पुनः पुंसवनमुच्यते मधुमन्थेऽद्रिं निक्षिप्याभिमंत्र्य पाययति स्त्री । सू० १०।—शमीगर्भऽश्वत्थस्याङ्घ्रिं कृष्णोर्णया वेष्टयित्वा सम्पात्याभि- मन्त्र्य बध्नाति आज्यतन्त्रे । समाप्तं पुनः पुंसवनं । सू० ११।—अथ गर्भाधान- मुच्यते हस्तावतंकं कर्णादिकं सम्पात्याभिमन्त्र्य बध्नाति आज्यतन्त्रे । समाप्तं गर्भाधान । सू० १२।—अथ गर्भबृंहणमुच्यते । “अच्युता द्यौरि”ति । सू०१६। “धाता दधात्वि”ति चतसृभिर्गर्भिण्या उदरमभिमंत्रयते वीरकर्म समाप्तं सू० १७। अथ प्रजननकर्म । “प्रजापतिर्जनयती”ति सूक्तेन । सू० १९।—उदकुलिजं संपातवन्तं कृत्वा गर्भिणीं परिहृत्य मध्ये निनयति । सुरा कुलिजं ... भक्तं सुरां प्रपां सम्पात्याभिमन्त्र्य प्रजाकामायै प्रयच्छति । समाप्तं प्रजागर्भकर्म वन्ध्यायाः । सू० २०। —अथ सीमन्तकर्म उच्यते । श्वेतपीतसर्षपाञ् सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । सू० २१।—अथ स्त्रीवशीकरणमुच्यते । वृक्षत्वक् , तगरं, शरखण्डं, अञ्जनं, कुष्ठं, ज्येष्ठिमधु, वातसंभ्रमतृणानि । एतानि द्रव्याणि आज्येना- लोढ्य अङ्गं समालभेत रुच्यर्थम् । सू० २२। —अङ्गुल्या तुदति भार्यायामुदरे पृष्ठौ रुच्यर्थी । सू० २३ । —एकविंशतिबदरीकण्टकानादधाति । सू० २४।— एकविंशतिबदरीप्रान्तानि सूत्रेण वेष्टयित्वा । सू० २६। —खट्वा अधोमुखपट्टिकां गृहीत्वा...स्वपिति । त्रिरात्रं कर्म । सू० २७। —अर्दयञ्छेते । सू० २८।— समाप्तानि संवननानि वशीकरणानि कामविषये स्त्रियामुत्साहो भवति ।
संक्षिप्तटीकासङ्ग्रहः । २७ कण्डिका ॥ ३६ ॥ सू० १-२।—स्वापनविघ्नशमनम् । स्त्रीस्वापनकर्म उच्यते । अभ्यन्तरद्वारे शेषमुदकं न्युब्जति । सू० ४ ।—स्त्रियाः खट्वाया दक्षिणपादमभिमन्त्रयते । खट्वा- या रज्जुमभिमन्त्रयते । स्त्रीस्वापनं पुरुषस्य विषये काम उत्पद्यते । कामविषये स्त्रीस्वापनं समाप्तम् । लज्जाप्रच्छादनं लज्जा भवतीत्यर्थः । स्वापनं सर्वेषां मानुषाणां निद्राकामानाम् । मैथुनमाचरतो विघ्नं न भवति । सू० ५-६।— अथ पलायिन्याः स्त्रियाः बन्धनकर्म तन्त्रक्रमेण क्रियते । रज्जु कल्पते तद्रज्जुवेष्टनमुच्यते । “अस्थाद् द्यौरस्थादि”ति द्वितीयेन सूक्तेन रज्जुवेष्टनमभिमन्त्र्य वंशाग्रे बध्वा मध्यमस्थूणे बध्नाति । सू० ७ । —शयनपादमभिमन्त्र्य उत्पले बध्नाति । सू० ९ ।—अङ्कुशेन तिलान्जुहोति । सू० १० । —जायापत्योरक्रोधकरणमुच्यते । सू० १२। —सौभाग्यकरणमुच्यते । शङ्खपुष्पीमूलमोषधिवत् खात्वा ... बध्नाति । सौवर्चलपुष्पमभिमन्त्र्य यस्य सौभाग्यमिच्छति तस्य पुष्पमभिमन्त्र्य तस्य शिरसि बध्वा । सौवर्चलं सूर्यवेलेति प्रसिद्धा । सू० १३-१४ ।—दुष्टस्त्रीवशीक- रणमुच्यते “रथजितामि”ति सूक्तैस्त्रिभिर्माषानभिमन्त्र्य स्त्रियाः क्रमेषु वपति ।... चणकान्...वपति । खट्वास्थाने वा गृहे शयनदेशे वा । शरभृष्टीरादीक्षा अभि- मन्त्र्य प्रतिदिशमभ्यस्यति । एषु पतिप्रतिकृति कृत्वा...हृदये विध्यति । दाम्भ्यूषेण भाङ्गेन । समाप्तानि पतिद्वेषिणीकर्माणि । पुरुषो वा स्त्रीणां द्वेषं करोति । अनेन कर्मणा शान्तिर्भवति । सू० १५ ।—अथ स्त्रियो वा पुरुषस्य वा दौर्भाग्यकरणमु- च्यते । दहनघातिता गौः अनुस्तरणीत्युच्यते । ईशानहता ज्वरहतेत्युच्यते । तत उलूखलदरणे त्रिशिले निखनति तत उलूखले ददाति । उपरि यस्य दौर्भाग्यं क्रियते तस्य एतानि गृह्णीयात् । सू० १६ ।—स्त्रीपुष्पमालां पिष्ट्वा अन्वाह । सू० १७— कृष्णसूत्रेण वेष्टयित्वाभिमन्त्र्य...व्यत्यासं अश्मानं शालाया उपरि ददाति । व्यत्यासेन निखनति दौर्भाग्यकामः। सू० १८ ।—अथ तस्याः सौभाग्यकरणमुच्यते । “यं ते भगं निचख्नु”रिति-शिला उत्खनति उत्पादयति । “भगमस्या” इत्यनेन सूक्तेन यत्कृतं तदनया विनश्यति । समाप्तं यस्या दौर्भाग्यं कृतं तस्याः सौभाग्यकरणम् । सू० १९ ।— अथ सपत्नीजयकर्माण्युच्यन्ते । सपत्नीविद्वेषणं...बाणपर्णी मासिका लोकेप्रसिद्धा । सू० २२ ।—अथ स्त्रीविषये काम उत्पन्ने कामविनाशकान्युच्यन्ते । यस्मिन्देशे काम उत्पन्नस्तत्स्थानं यावत् स्त्री वा पुरुषो वा...व्रजति । सू० २५।— स्त्रीविषये ईर्ष्याविनाशकान्युच्यन्ते । ईर्ष्यालुं दृष्ट्वा जपति । सक्तुमन्थमभिमन्त्र्य ईर्ष्यालुकाय ददाति...भक्ष्यार्थम् ॥ २६ ॥ ईर्ष्यालुकस्य कटिप्रदेशे खल्वामभिमन्त्र्य धमति ॥ २८ ॥ अथ मन्युविनाशकान्युच्यन्ते स्त्रीविषये पुरुषस्य । मन्युमन्तं
... L20:मरणामरणं । L23:मित्रा मित्रसंयोगात् । L25:दुर्भगावा । गृहं ग्रामादि, भविष्यति न वा । आधानं भवेन्नवेति । इत्यादि मनसा`
Everything looks extremely accurate and faithful to the source image.२८ अथर्ववेदीय-कौशिकसूत्रस्य—
पुरुषं दृष्ट्वाश्मानमभिमन्त्र्य हस्तेन गृह्णाति ॥ सू० २९ ॥ अश्मानं भूमौ निदधाति । सू० ३१ । —मन्युमतः पुरुषस्य छायायां धनुरभिमन्त्र्य सज्जं करोति । सू० ३२— अथ सर्वविषये मन्युविनाशकान्युच्यन्ते । दर्भमूलमोषधिवत् खात्वा सम्पात्याभि- मन्त्र्य बध्नाति मन्युके । सू० ३३ । —अवीरजननमुच्यते अपुत्रजननमित्यर्थः । अग्रे जातानित्यृचा अश्वतरीमूत्रेण पाषाणं निघृष्य ततोऽभिमन्त्र्य भक्तेन सह ददाति ।...अलंकारं समालभते । विद्वेषाणं परस्य । अथ वन्ध्याकरणमुच्यते । “प्रान्
संक्षिप्तटीकासङ्ग्रहः । २९ ~ ~ ~ ~ ~
पूर्वेद्युर्वेदिं कृत्वा अभिमंत्र्य द्वितीयेऽहनि समविषमेण भावेन सिद्धिः । सू० ३ ।— पञ्चग्रन्थिवेणुदण्डमभिमंत्र्य आयाच्यं समे धारयति । अभीष्टदिशि पतनेनार्थसिद्धिः । इषुं सन्धायैाभिमन्त्र्यायाचेत् । चिन्तितं प्रक्षेपेणार्थं । कुम्भे उदकपूर्णं दुग्धं प्रक्षिप्यायाचेत् । जनाधिकेनार्थसिद्धिः यथा चिन्तितं तथा सिद्धिः कमण्डलुमुदक- पूर्णं दुग्धमाक्षिप्याभिमंत्र्यायाचेत् । जनाधिकेनार्थसिद्धिः । दर्भस्तम्बमभिमन्त्या- याचेत् । काम्पीलशाखां मूर्ध्नि धारयित्वाभिमन्त्र्यायाचेत् । इष्टदिक्पतनेनार्थः । युगमभिमंत्र्यायाचेत् । ******धान्यमभिमंत्र्यायाचेदग्नौ प्रक्षिपेत् प्रदक्षिणज्वलनेनार्थः। हस्तयोरङ्गुलिद्वयमभिमन्त्यायाचेत् । अज्ञातस्य "वेनस्तदि"ति सूक्तेन एकविंशत्या शर्करया अभिमन्त्र्यायाचेत् धनेनार्थः समविषमभावेन यथावतार्थः । सू० ४।—अथ नष्टद्रव्यपरीक्षणे क्रियमाणे इदं कर्म । "वेनस्तदि"ति सूक्तेन । सू० ६ । वेन- स्तदिति सूक्तेनाहतेन वस्त्रेण वेष्टितं हलं सम्पात्याभिमन्त्र्य येन हरेतां ततो नष्टः । अक्षाः कुम्भवत्कृत्वा सम्पात्य येन हरेतां ततो नष्टः । समाप्तं नष्टद्रव्यपरीक्षणे विज्ञानम् । सू० ७ ।—अथ कुमारीविज्ञानमुच्यते । वेनस्तदिति सूक्तेन । सू० ११ ।—“वेन- स्त”दिति सूक्तेन कुमारीमुदकाञ्जलिं पूरयित्वाभिमन्त्र्य । सू० १२ । समाप्तं कुमारी- विवाहकाले विज्ञानम् । कण्डिका ॥ ३८ ॥ अथ नैमित्तिकान्युच्यन्ते । सू० १ ।—दुर्दिनविनाशकर्मणां विधिं वक्ष्यामः । दुर्दिनमभिमुखमुपतिष्ठते सर्वत्र दुर्दिनविनाशकानि । सू० २ ।—प्रत्यृचमुदकं प्रक्षिपति । सू० ३ ।—खड्गं गृहीत्वोपतिष्ठते अभिमुखः । उल्मुकं गृहीत्वोपतिष्ठते सूर्यस्याभिमुखः । लकुटं गृहीत्वोपतिष्ठते । सू० ४ ।—उन्मृजानो अर्कमुखो भूत्वो- पतिष्ठते । सू० ६ ।— पटेरकसमिध अर्कसमिध आदधाति स्थण्डिले । सू० ७ ।— खदां खात्वा खदां त्रिःपरिक्रम्यार्कैर्निर्लुञ्चितं कृत्वा खदायां प्रक्षिपति सूक्तान्ते । ततः पांसुना खदां पूरयति । वृष्टिनिवारणं समाप्तं । सू० ८ ।—अशनिनिवारणं कर्म व्याख्यास्यामः । अशन्यभिमुखमुपतिष्ठते । सू० ९।—एतत्कर्मक्षेत्रे । अशनिनिवारणं । अतिवृष्टिरनावृष्टिः शलभा मूषकाः शुकाः । स्वचक्रं परचक्रं वा सप्तैता ईतयः स्मृताः ॥ सू० ११ । —अवदीर्यमाणे ग्रामे वावसाने वाग्निशरणे वा सभायां वा गृहे वा प्राकारे वा रक्षार्थं कर्म वक्ष्यामः । सू० १२ ।—पत्तने रक्षार्थान्युच्यन्ते । सू०१३- १६ ।—दृंहणानि । दृंतिकर्माणि दृढीकर्माणि वा । समाप्तानि दृढकर्माणि ।... गृहपत्तने ग्रामपत्तने कार्यदृढकरणे अवहरणरक्षार्थं । सू० १७ ।—विवादे जयकर्मणां विधिं व्याख्यास्यामः । ज्येष्ठीमधुमभिमन्त्र्य भक्षयति । ततः सभां प्रविशति अपराजित-
३० अथर्ववेदीय-कौशिकसूत्रस्य- देशात् । परिषज्जयकर्म सभाजयकर्म समाप्तं । सू०१८ । —विवादे जयकर्माण्युच्यन्ते । पाठामूलं मुखे प्रक्षिप्य तदनन्तरमपराजितादेशादागच्छति । सू० १९ । —पाठामूलं मुखे प्रक्षिप्यान्वाह । सू० २० । —पाठामूलं बध्नाति । सू० २१ । पाठापुष्पमाला- मभिमन्त्र्य शिरसि धारयति । पाठापालाशी सप्तपालाशी सप्तपर्णी मालामभिमन्त्र्य धारयति । सू० २२ । —वृष्टिनिवारणं भक्षभोजने कर्म उच्यते । भक्तमभिमन्त्र्य भक्तं शाकादि । ततो भुञ्जीत । वृष्टिनिवारणं समाप्तं । सू० २३ । —ब्रह्मजज्ञानमिति सूक्तेन प्रथमेन काण्डादिना सूक्तेन वेदं वा अनुवाकं वा सूक्तं वा कल्पं वा ब्राह्मणं वा अध्ययनं कर्तुमिच्छति तदा तदा सूक्तं जपित्वा ततोऽध्ययनं कुर्यात् । कलहशमनं समाप्तं । सू० २४ । —ब्र