कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 313, कुल 361 में से
संदर्भ में पढ़ेंसंक्षिप्तटोकासङ्ग्रहः । १७ एकविंशति गृहत्तृणानि च प्रक्षिप्य तं घटमभिमन्त्र्य ततो व्याधितं सिञ्चति । ततो मार्जनञ्च दर्भत्रयमेकत्र बद्धं पिञ्जूलीत्युच्यते । समाप्तं जलोदरभैषज्यम् । अभ्यासेन कर्मसिद्धिः दिने दिने कुर्यात् जलोदरनाशनार्थम् ॥ कण्डिका ॥ २६ ॥ सू० १ ।—अथ वातपित्तश्लेष्मणि भैषज्यान्युच्यन्ते । मांसमेदोऽभिमन्त्र्य पाययति वातविकारे । मधु अभिमन्त्र्य पाययति श्लेष्मविकारे । घृतमभिमन्त्र्य पाय- यति वातपित्तसहविकारे । तैलमभिमन्त्र्य पाययति वातश्लेष्मविकारे । सू० २-६ ।- अतिकाशे शीर्षक्ति शिरोवेदनायां च कर्माण्युच्यन्ते । व्याधितं शिरं मौञ्जवेष्टितं कृत्वा वामेन हस्तेन वपनं जालसहितं गृहीत्वा जरायुज इति सूक्तेन लाजान् प्रकिरन् व्रजति व्याधिदेशं यावत् । तत्रैव मुञ्जप्रक्षं लाजांश्च वपनानां प्रक्षेपः । वामेन हस्तेन वपनं मौञ्जं इन्दुकं च गृहीत्वा दक्षिणेन हस्तेन ज्यां तूणीं गृहीत्वा...व्याधितमग्रे कृत्वा यत्र व्याधिरुत्पन्ना तत्र स्थाने गत्वा जरायुज इति जपित्वा मौञ्जप्रक्षं वपनं क्षिपति व्याध्युत्पत्तिस्थाने ज्यां तूणीं प्रक्षिपति । वातज्वरे कटिभङ्गे शिरोरोगे च वातगुल्मे वातविकारे च सर्वरोगे च भैषज्यम् । धनुर्वाते अङ्गकम्पने वाते शरीरभङ्गे सर्ववातविकारे भैषज्यम् । सू० ८ ।—घृतमभिमन्त्र्य नासिकानस्तं दद्यात् । सू० ९ ।—जरायुज इति सूक्तेन पञ्चपर्ववेणुदण्डं ललाटे संस्तभ्य जपति शिरोरोगे कटिभङ्गे वा वातगुल्मे विकारे च । लिङ्गयुपतापः समाप्तः । सू० १० ।—अथ लोहितं वहति शरीरमध्ये बहिश्च । कर्माण्युच्यन्ते । पञ्चपर्ववेणुदण्डं रुधिरवहनस्थाने दत्वा “असूर्या” इति सूक्तं जपति । रथ्यायाः पांसून् गृहीत्वाभिमन्त्र्य रुधिरव्रणे वि- किरति । सू० ११ ।—अभ्रंकपालिकां बध्नाति । केदारमृत्तिका इति । सू० १२ ।- अभ्रंकपालिकामभिमन्त्र्य पाययति । अभ्रंकपालिकां शुष्कपङ्कमृत्तिकाम् । स्त्रीरजसोऽति- प्रवर्त्तने भैषज्यं रुधिरप्रवाहे च । सू० १४ ।—अथ हृद्रोगे कामले चेत्यादिभैषज्या- न्युच्यन्ते । सू० १६-१७ ।—अनुसूर्यमिति सूक्तेन गोरक्तचर्मच्छिद्रमणिं गोदुग्धे तं दत्त्वा संपात्याभिमन्त्र्य बध्नाति दुग्धं च पाययति । अभ्यातानाद्युत्तरतन्त्रम् । कामले हृद्रोगे चेत्यादि लिङ्गयुपतापः । सू० १८ ।—हरिद्रौदनं व्याधितस्य भोजनं दत्वा तस्योच्छिष्टं चानुच्छिष्टं चैकत्र कृत्वा तेन च उद्वर्त्तनं कृत्वा शिरः- प्रभृत्यारभ्य यावत्पादौ उद्वर्त्य ततो व्याधितं च खट्वायामुपवेश्य खट्वाधस्तात् शुकं काष्ठमुसुकं च गोपितिलकां च एते त्रयः पक्षिणः सव्यजङ्घायां हरितसूत्रेण बद्ध्वा खट्वाधस्ताद् बध्नाति ।......अपस्मारे भैषज्यम् । उदकमभिमन्त्र्य व्याधितं स्नापयति । सू० १९।—मन्थमभिमन्त्र्य प्रपाद्य प्रयच्छति भक्ष्यार्थम् । सर्वत्र गृहद्वारे अग्रे व्याधितं कृ