भारतकोश
कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)

कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)

Kausika Grihyasutram of Atharvaveda with Hindi Translation

महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा

DevanagariHindipublished361 पृष्ठ

पृष्ठ 314, कुल 361 में से

संदर्भ में पढ़ें
पृष्ठ 314

व्याधिताय प्रयच्छति । सर्वत्र यत्र यत्र प्रयच्छतिशब्दस्तत्र तत्रैव बोद्धव्यम् । (कौ० ७।१८) सू० २० । — अनुसूर्यं इति सूक्तेन शुष्कचन्दनमभिमन्त्रयेत् । काष्ठ- शुष्कचन्दनमभिमन्त्रयेत् । गोपीतिलकां-यस्मिन्कस्मिंश्च दृष्ट्वा वदन्तीं तत्राभिमन्त्रयते व्याधितः । सू० २१ ।--वृषभहृदयलोमभिः सुवर्णवेष्टितं मणिं कृत्वा सम्पात्याभि- मन्त्र्य व्याधिताय बध्नाति । समाप्तानि अपस्मारविस्मयहृद्रोगकामलकरोहिणकानि भैषज्यानि । सू० २२ ।—अथ श्वेतकुष्ठभैषज्यान्युच्यन्ते । श्वेतकुष्ठं गोमयेन प्रघृष्य यावल्लोहितं दृष्ट्वा भृङ्गराजहरिद्राभ्यां इन्द्रवारुणीनीलिकापुष्पा एताः पञ्च पिष्ट्वाभिमन्त्र्य कुष्ठं प्रलिम्पति । सू० २३ ।—पलितानि छित्त्वा घृष्ट्वा अवलिम्पति । सू० २४ ।--अथ मारुतान्युच्यन्ते । समाप्तानि कुष्ठभैषज्यानि श्वेतपलितनाशनं दुर्भिन्ननाशनं च । सू० २५ ।--अथ ज्वरभैषज्यमुच्यते । नित्यज्वरे वेलाज्वरे सतत- ज्वरे एकान्तरितज्वरे चातुर्थिकज्वरे च ऋतुज्वरे च । सू० २६ ।—अथोद्वेगविनाश- भैषज्यान्युच्यन्ते । सू० २८ । —उप प्रागादितिसूक्तेन उल्मुकद्वयमभिमन्त्र्य घृषीयत रात्रौ उषाकाले एतत्कर्म । तथा प्रभाते स्वस्तिदा इति सूक्तेन दक्षिणेन पादेन प्रक्राम- तीति (कौ० ५०।१।) स्वस्थयनम् । वृद्धबालयुवस्त्रीपुरुषाणामकस्मादुद्वेगः प्रलापो वा भवेत्तदा एतत्कर्म कुर्यात् । सू० २९ ।--गन्धर्वराक्षसेऽप्सरसे भूतग्रहादिषु भैषज्यान्युच्यन्ते । सू० ३० ।---चतुष्पथे व्याधितं कृत्वा ततः प्रज्वालिताग्नौ घृताक्ताः सर्वौषधीर्जुहोति । सू० ३१ ।—व्याधितस्य वल्गुनिकां सर्वौषधिसहितां हस्तेन कृत्वा नदीमुखसंमुखां प्रविश्य नदीमध्ये वल्गुणिकायां सर्वौषधिं घृताक्तां हुत्वा । ततः प्रक्रामति । उदकमध्ये सर्वौषधीर्जुहोति घृताक्ताः । पश्चात्स्थितो व्याधितं सिञ्चति । सू० ३२ ।—ततो मृण्मये आमपात्रे होमशेषाः सर्वौषधीः कृत्वा पक्षिणो यस्मिन् वृक्षे वसन्ति तत्र त्रिपादे कृत्वा बध्नाति । सू० ३३-४० ।--अथ लौकिके शापे वैदिके शापे च स्त्रीणामाक्रोशे च पुरुषाणाञ्च भैषज्यमुच्यते । सर्वस्मिन् संहिता- विधिकर्मणि प्रधानकर्ममध्ये नवं घटं यत्प्रथममास्थापितमुत्तरतस्तेनोदकेन हिरण्य- वर्णा इति सूक्तेन अभिमन्त्रितेन कारयिताभिषेचयेत् । सर्वत्र मेधाजननादिकर्मसु । ततः पश्चान्मणिबन्धनादिकर्म कुर्यात् । भैषज्येष्वभिषेकं न कुर्यात् । अभ्यातानान्तं कृत्वा अघद्विष्टा इति सूक्तेन यवमणिं सम्पात्याभिमन्त्र्य पुनः सूक्तं जपित्वा बध्नाति । लौकिके आक्रोशे वैदिके च ब्राह्मणस्य शापे आक्रोशे च क्रूरचक्षुर्दृष्टिनिपाते च पिशाच- रक्षादिषु भैषज्यं समाप्तम् । अथ रक्षोग्रहे भैषज्यमुच्यते । आज्यतन्त्रं कृत्वा शं नो देवीति सूक्तेन पृश्निपर्णीमोषधिं पिष्ट्वा सम्पात्याभिमन्त्र्य पुनः सूक्तं जपित्वा शरीरं प्रलिम्पति । अभ्यातानाद्युत्तरतन्त्रम् । पापगृहीते च स्त्रीगर्भस्रावे च मृतापत्यायां च क्रव्याद्गृहीते च पिशाचगृहीते च रक्षोभयभैषज्यं समाप्तम् । अथ राजयक्ष्मादि- भैषज्यमुच्यते । तन्त्रं कृत्वा वरणोवारयता इति तृचेन वरणवृक्षमणिं बध्नाति ।