भारतकोश
कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)

कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)

Kausika Grihyasutram of Atharvaveda with Hindi Translation

महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा

DevanagariHindipublished361 पृष्ठ

पृष्ठ 315, कुल 361 में से

संदर्भ में पढ़ें
पृष्ठ 315

राजयक्ष्मादिपूगव्याधिषु श्वेतोदुम्बरकुष्ठाद्यष्टादशजातिषु ज्वरादिसर्वरोगेषु भैषज्यं समाप्तम् । अथ वातविकारे भैषज्यमुच्यते । पिप्पलीक्षिप्तभेषजीमिति सूक्तेन पिप्पल- द्रव्यं आशयति । वातविकारे धनुर्वातगुल्मे वातशूले क्षिप्तवातप्रदोषे कर्मकृते वाते उत्पन्ने सर्वव्याधिविकारे भैषज्यं समाप्तम् । जलोदरे भैषज्यमुच्यते । विद्रधस्य बलासस्येति तृचेन सूक्तेन व्याधितस्य मूर्धनि सम्पातानानयति । सर्वव्याधिविसर्पणे प्रकोप च बलासे च आन्त्रविसर्पणे च अक्षिविसर्पणे च विद्रधिविसर्पणे च हृदयामये च अज्ञातराजयक्ष्मणि च एतेषां भैषज्यं समाप्तम् । या बभ्रव इति सूक्तेन दश वृक्ष- शकलानि लाक्षाहिरण्‍येन वेष्टितं मणिं कृत्वा...बध्नाति । सर्वव्याधिभैषज्यं समाप्तम् । सू० ४१ ।--अथ क्षेत्रियव्याधिभैषज्यमुच्यते ।