कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 322, कुल 361 में से
संदर्भ में पढ़ें२६ अथर्ववेदीय-कौशिकसूत्रस्य— आवपेत्सुरभिगन्धान् क्षीरे सर्पिस्तथोदके । एतदायनमित्याहु रौक्षं तु मधुना सह ॥— सू० १५।—दक्षिणामुखी कुमारी प्रक्रामति । सू० १६।—नावं सम्पात्य “भगस्य नाव” मित्यृचा उत्तारयति । सू० १७।—सप्तदानतंत्र्या वत्सान् बन्ध- यित्वा सम्पात्याभिमंत्र्य कुमारीं मोचयति । स्वयं न कर्त्ता । यदि प्रदक्षिणं मोचयति तदा पतिलाभः । सू० १८।—वृषभं विसर्जंयति । सू० २१।—आगम कृशरं आशयति आज्यतंत्रे भगिनीकं । सू० २३।—तत “अर्यम्ण” इत्यर्धर्चेन गृहाभ्य- न्तरे कोणे, बलिहरणं करोति । सू० २४।—यत आगच्छति काकस्तत आगच्छति वरः समाप्तानि पतिलाभकर्माणि । कण्डिका ॥ ३५ ॥ सू० १।—पुंसवानान्युच्यन्ते । सू० २। — नक्षत्रकल्पे उक्तानि पुंनक्षत्राणि सू० ३। —बाणं विवृर्हति । शरमणिं सम्पात्याभिमंत्र्य बध्नाति । सू० ४।— अध्यण्डे बृहतिपलाशविदार्यौ वा एकत्र पिष्ट्वाभिमंत्र्य दक्षिणेनाङ्गुष्ठेन दक्षिणस्यां नासिकायां नस्तं ददाति । पुत्रार्थं कर्म पुंसवनमित्युच्यते । सू० ५।६।७।— केलूनांश्च पलाशत्सरु निर्वर्तं निघृष्य शिश्ने आधाय ततो मैथुनं करोति । समाप्तं गर्भाधानं । सू० ८।९। —पुनः पुंसवनमुच्यते मधुमन्थेऽद्रिं निक्षिप्याभिमंत्र्य पाययति स्त्री । सू० १०।—शमीगर्भऽश्वत्थस्याङ्घ्रिं कृष्णोर्णया वेष्टयित्वा सम्पात्याभि- मन्त्र्य बध्नाति आज्यतन्त्रे । समाप्तं पुनः पुंसवनं । सू० ११।—अथ गर्भाधान- मुच्यते हस्तावतंकं कर्णादिकं सम्पात्याभिमन्त्र्य बध्नाति आज्यतन्त्रे । समाप्तं गर्भाधान । सू० १२।—अथ गर्भबृंहणमुच्यते । “अच्युता द्यौरि”ति । सू०१६। “धाता दधात्वि”ति चतसृभिर्गर्भिण्या उदरमभिमंत्रयते वीरकर्म समाप्तं सू० १७। अथ प्रजननकर्म । “प्रजापतिर्जनयती”ति सूक्तेन । सू० १९।—उदकुलिजं संपातवन्तं कृत्वा गर्भिणीं परिहृत्य मध्ये निनयति । सुरा कुलिजं ... भक्तं सुरां प्रपां सम्पात्याभिमन्त्र्य प्रजाकामायै प्रयच्छति । समाप्तं प्रजागर्भकर्म वन्ध्यायाः । सू० २०। —अथ सीमन्तकर्म उच्यते । श्वेतपीतसर्षपाञ् सम्पात्याभिमन्त्र्य पुण्याहान्ते बध्नाति । सू० २१।—अथ स्त्रीवशीकरणमुच्यते । वृक्षत्वक् , तगरं, शरखण्डं, अञ्जनं, कुष्ठं, ज्येष्ठिमधु, वातसंभ्रमतृणानि । एतानि द्रव्याणि आज्येना- लोढ्य अङ्गं समालभेत रुच्यर्थम् । सू० २२। —अङ्गुल्या तुदति भार्यायामुदरे पृष्ठौ रुच्यर्थी । सू० २३ । —एकविंशतिबदरीकण्टकानादधाति । सू० २४।— एकविंशतिबदरीप्रान्तानि सूत्रेण वेष्टयित्वा । सू० २६। —खट्वा अधोमुखपट्टिकां गृहीत्वा...स्वपिति । त्रिरात्रं कर्म । सू० २७। —अर्दयञ्छेते । सू० २८।— समाप्तानि संवननानि वशीकरणानि कामविषये स्त्रियामुत्साहो भवति ।