कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)
Kausika Grihyasutram of Atharvaveda with Hindi Translation
महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा
पृष्ठ 351, कुल 361 में से
संदर्भ में पढ़ेंसंक्षिप्तटीकासङ्ग्रहः । ५५ सू० २७ ।--“यास्ते धाना”--इति द्वे धाना धेनुरित्येका एतास्ते असौ धेनव इत्येका यास्ते धान्य अस्तिवत्येका एतामिस्तलमिश्रधानाः···अस्थिषूपरि आदधाति···। कण्डिका ॥ ८६ ॥ सू० १ ।—तान्यस्थीनि गर्तस्थितानि । सू० २ ।-द्वौ चरू···अष्टौ चरवः प्रति- दिशं दधाति । सू० ४ ।—एकं मध्ये निधाय ततोऽभिमन्त्रयते प्रतिमन्त्रं क्षीरादि- पूर्णा मन्त्रोक्ता अपूपाः पिधानाः सर्वे कर्तव्याः प्रसव्या दातव्याः । सू० ५ ।-- अस्थीनि । सू० ६ ।-मध्यमपलाशपत्रैः शतच्छिद्रसहस्रच्छिद्रादि चरवश्च । सर्वं आच्छादयन्ति ॥ १०॥ शिलाभिर्विषमाभिरिष्टकाभिर्वा प्रसन्यं चिन्वन्ति । श्मशानं । सू० १४ ।—शरस्तम्बस्य अन्तर्हितमघमिति मंत्रेण कटिकामभिमन्त्र्य ग्रामश्मशानमन्तर्धानं करोति । सू०१५ । —अष्टाङ्गुलां कटिकां प्रसव्यं कुशेन त्रिः परिविच्य आमथिरत्वा सिञ्चति पश्चिमायां दिशि स्फाटयन्ति । सू० १६ ।—समेत विश्व इत्यनया ऋचा सर्वे बान्धवाः परिषिञ्चन्ति ध्रुवनाभ्युपयच्छन्ते । त्रिः प्रसव्यं परिकीर्णकेश्यः परियन्ति दक्षिणानूरुनाघ्नाना इति ध्रुवनानि । सू० १७ ।···इन्द्र- क्रतुमित्यन्तं । एतैः पश्चात्स्थिता उपतिष्ठन्ते कर्ता गोत्रिणश्च । सू० १८ । —समाप्तं श्मशाने चित्तस्य कर्म । सू० १९ ।-शुभकर्म । सीसे मृड्ढवमित्यादि क्रव्याच्छम- नेन व्याख्यातं । सू० २२ ।--पदानि लोपयति । सू० २४ । —ससशर्करं पाणिष्वा- वपते इत्यादि···तासां धूमं भक्षयन्ति इत्येवमन्तं सर्वं कुर्वन्ति गोत्रिणः । सू० २९। वैवस्वतं स्थालीपाकं श्रपयित्वा इत्यादि यमव्रतान्तं सर्वं भवति ॥ कण्डिका ॥ ८७ ॥ सू० ८ । त्रीनन्धो मुष्टीन्निवंपति···। सू० १४ । तियंगङ्गुलिं--। सू० १५ ।- अवागङ्गुलिं । सू० २७ ।--एताभिर्बर्हिस्तृणाति बर्हिषि आयवनं करोति । सू० २८ ।-आ यत पितर इत्यृचा आच्य जान्वित्यृचा संविशन्त्वित्यृचा एतैस्तिलान्विकीर्य । कण्डिका ॥ ८८ ॥ सू० १ ।—चरुमभिघारयति । सू० ६ ।--संबर्हिरक्तमिति सद्भांस्तण्डु- लाञ्जुहोति । ततः पर्युक्षणं । सू० १४ ।--पिञ्जूलीघृताक्ताः पिण्डेषु निदधाति । सू० १८ ।—अत्र पितर इति प्रतिपिण्डं जपति । सू० २० ।—त्रींस्त्रीन्प्राणाया- मान् कुर्यात् । सू० २१ ।—पिण्डेषूपतिष्ठन्ते । सू० २९ ।—यन्न इदमिति मनो न्वा व्हामहेति सूक्तं हृदये अन्वालभ्य जपेत् । कण्डिका ॥ ८९ ॥ सू० १६ । —गृह्येप्पनाहिताग्नेर्होमः । सू० १४ । —इदं मे कृतमस्तीति मंत्रेणाग्निमुपतिष्ठते यस्मात्कोशादिति । इति पिण्डपितृयज्ञः समाप्तः ॥ ११ ॥ ॥ इति एकादशोऽध्यायः ॥