भारतकोश
कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)

कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद)

Kausika Grihyasutram of Atharvaveda with Hindi Translation

महर्षि कौशिक (अनुवादक: पण्डित उदयनारायण सिंह) द्वारा

DevanagariHindipublished361 पृष्ठ

पृष्ठ 350, कुल 361 में से

संदर्भ में पढ़ें
पृष्ठ 350

५४ अथर्ववेदीय-कौशिकसूत्रस्य— सू० ९।—एकविंशति दर्भपिञ्जूलीर्नद्यां ह्रदे वा आवपति। सू० १७।—यवानाल- भते। सू० १९।—अप नः शोशुचदिति सूक्ताभ्यां शाम्याकीः समिध आद- धाति। सू० २०।—बान्धवाः। सू० २१।—अथ द्वितीयेऽहनि कर्मोच्यते। दिवो नभ इत्यृचाग्निं प्रज्वाल्य स्थालीपाकं सकृत्सर्वहुतं करोति। सू० २४।— समाप्तं द्वयहकर्म। सू० २५।—तृतीये नास्ति कर्म। चतुर्थेऽहनि कर्मोच्यते...। शुक्तिकं-शुक्तिकं। सू० २९।—ततः संचयनं करोति। सू० ३३।—समाप्तं संचयनं चतुर्थेऽहनि केचिद्यवोयः प्रथमानि कर्माणि कुर्वन्ति। तथा च माहकिः— कण्डिका ॥ ८३ ॥ अथ पितृमेध उच्यते। संवत्सरे कुर्यादिति श्रुतिः। अथवा संवत्सरमध्ये। सू० ३।—शतच्छिद्रं सहस्रच्छिद्रं द्वितीयं मृन्मये द्वे कुर्यात्। सू० ४।—द्वे जीर्ण- वाससी नीललोहितसूत्रे प्रसिद्धे प्रसव्यां रज्जुं। इति पितृनिधानसंभाराः। सू० ५।—अथ पितृनिधानकाल उच्यते। सू० ९।—अथावसानमस्थिगृहमुच्यते तत्स्थानमुच्यते। सू० १३।—अथ चतुर्दश्यां इदं कर्म। सू० १७।—संप्रोक्ष- ण्यौ। सू० २१।—अस्थिनाशे प्रायश्चित्तकर्मोच्यते। अस्थिनाशे तद्देशात्पां- सन्गृहीत्वावसानं समोप्य तत उत्थापयति। सू० ३४।—अथवा त्रीणि शतानि षष्टिश्च पलाशत्स्रहप्रान्तैः पुरुषं कल्पयित्वा तत उत्थापनीभिरुत्थाप्य हरिणीभिर्ह- रेयुः। शरीरनाशे दग्धे वैतत्प्रायश्चित्तं भवति। सू० २५।—मण्डपः...तस्योत्तर- द्वारं दक्षिणद्वारं कुर्यात्। सू० २७।—अस्थीनि मण्डपे प्रवेशयति।— कण्डिका ॥ ८४ ॥ सू०। ६।—सयवस्य चरोः सर्वे स्वगोत्रजा भोजनं कुर्वन्ति। सू० ८। अथ प्रैषं ददाति गोत्रिणां। वीणां वादयेत्। वाद्यानि वादयेत्। सू० १३-१४—अथा- मावस्यायाः प्रभाते कर्मोच्यते। तान्यस्थीनि मण्डपादुत्थाप्य हरिणीभिर्हरेयुः। ततः पादे निधाय। अथ विधानमुच्यते। पश्चात् पूर्वकृतेभ्यः पितृभ्यः। सू० १५।— प्राग्दक्षिणां दिशमभिमुखमारभ्याणि उत्तरस्यां दिशि समाप्यन्ते— कण्डिका ॥ ८५ ॥ सू० १।—अथ प्रमाणमुच्यते। सू० ४।—एवं विधं मण्डपं मिमीते। सू० ८।—अयुग्मानि कुर्यात्। परिमण्डलानि वर्तुंलानि। चतुरस्राणि वाश्मशानि कार्याणि विकल्पेन शौनकिनां। सू० २०।—जीर्णवस्त्रगास्तृणाति। सू० २२। जीर्णवस्त्रं स्तृणाति ततो द्वितीयं परिचैलवस्त्रं। सू० २३।—तत्रैव बर्हिद्वारंयित्वा अग्नेः कर्म भविष्यति। तेन वस्त्रेण उक्तो होमः स्तरणं च। सू० २४।—सर्वाण्य- स्थीनि तस्मिन् गर्ते निवपति। सू० २५।—कुले ज्येष्ठो अस्थीनि यथापरु...।

कौशिक गृह्यसूत्रम् (अथर्ववेद शौनक शाखा - संक्षिप्त टीका एवं पं. उदयनारायण सिंह हिन्दी अनुवाद) · पृष्ठ 350, कुल 361 में से · BharatKosha