काव्यादर्श (महाकवि दण्डी - प्रसादिनी सान्वय हिन्दी व्याख्या सहित)
Kavyadarsha of Mahakavi Dandin with Prasadini Commentary
महाकवि दण्डी द्वारा
पृष्ठ 257, कुल 270 में से
संदर्भ में पढ़ें२३४ काव्यादर्श किरोड़ीमलमहाविद्यालये दिल्लोस्थिते गिराम् । दिव्यानां पाठकः पुण्यैर्लेखनीं ग्राहितः करे ॥ १८ ॥ (१) आद्यानिरुक्तमीमांसा, (२) निरुक्ताध्यायपञ्चके । (३) अध्यायत्रितये चैव विद्वच्छात्रोपयोगिके ॥ १६ ॥ व्याख्ये, (४) वैदिकवाङ्मये भाषाचिन्ता तुरीयिका । (५) तारोदयाख्या व्याख्या च सत्तर्कसङ्ग्रहे, ततः ॥ २० ॥ (६) बालप्रबोधिनी टीकोपन्यासश्च पुरातने । तर्कसङ्ग्रहटीके द्वे पाठशोधात् प्रकाशिते ॥ २१ ॥ (७) आद्याध्याययोर्व्याख्या गीताभाष्यनवाम्बरा । (८) टीकेशोपनिषद्भाष्ये कुसुमाञ्जलिनामिका ॥ २२ ॥ (६) निगमबोधतीर्थस्य श्रीशङ्करजगद्गुरोः । चरिताख्यानकाव्यस्यान्वयानुवादभूषणम् ॥ २४ ॥ (१०) सिद्धान्तकौमुदीम्वादि व्याख्याऽऽद्या भवतोषिणी । छात्रावस्थाकृतारम्भा पूरिताऽध्यापकेन या ॥ २३ ॥ त्रयोविंशतिरस्यांश्च लिखितायाः समा गताः । प्रकाश्येति' दशग्रन्थीसन्तत्याऽतुष्टमानसः ॥ २५ ॥ विद्वत्पादरजोमृष्टाशेषधातुमलः शिवः । (११) टीकामातनवं चेमां दययाच्छात्रमण्डले ॥ २६ ॥ भक्त्या दण्डिनि, गीर्देव्याः कृपया, पुण्यसम्पदा । ब्राह्मम्यं सफलं मन्वे गीर्वागध्ययनं तथा ॥ २७ ॥ (आशीः) शास्त्रचर्चामिषेणेयमाराधना शुभप्रदा । प्रीतये युषदो देव्यै बोभूताद् दण्डिनो मयि ॥ २८ ॥ प्रीयतां चैव नित्या सा नित्य वागीश्वरी शुभा । विधौतान्तर्मला दिव्या चतुर्वर्गप्रदायिनी ॥ २६ ॥ श्रद्धयेतोऽपि भूयस्या सेवेय भारतीं सदा । आविर्भयान्मतौ मे सा मन्दायामपि भास्वती ॥ ३० ॥ त्रिभिरृणैर्ऋणावा यज्जायते पुरुषस्त्विह । तेषामेकतमस्यापि लभेयानृण्यमंशतः ॥ ३१ ॥ ॥इति श्रीदण्ड्याचार्यकृतौ काव्यादर्शे तृतीये शब्दालङ्कार-दोष-लक्षण-परिच्छेदे शिवनारायणशास्त्रिकृता प्रसादिनी नाम टीका पूर्णा ॥ १. विश्वविद्यालयेनेयं दिल्याख्येन प्रकाशिता । भूयसा विदुषां तोषमाधेयादवलोकिता ॥