काव्यादर्श (महाकवि दण्डी - प्रसादिनी सान्वय हिन्दी व्याख्या सहित)
Kavyadarsha of Mahakavi Dandin with Prasadini Commentary
महाकवि दण्डी द्वारा
पृष्ठ 256, कुल 270 में से
संदर्भ में पढ़ेंप्रसादिनीकारका निवेदन २३३ ( काव्यादर्श-प्रशंसा ) अहो एतस्य वैमल्यं सुधी-हृदय-रञ्जनम् । दण्ड्याचार्यमतेर्गर्भात् प्रसूतस्य विराजते ॥ ४ ॥ (दण्ड्याचार्यस्तुतिः) भामहो न विधुस्तुल्यः क्षीणः पक्षान्तरे स्थितः । सञ्छन्नो मेघमालाभिः शुक्ले पक्षेऽप्यशोभनः ॥ ५ ॥ विसञ्ज उद्धटः सोऽयं काव्ये व्याकरणं श्रयन् । दण्डिनि प्रतिपक्षे व भामहं मध्यमं नृपम् ॥ ६ ॥ रीतित्रयप्रभेदेन त्रिविक्रमायते तु यः । किं पुनर्बलिनो ह्यस्य सम्मुखे वामनो हि सः ॥ ७ ॥ (टीकाकारका परिचय) खरकग्रामभूः पुण्या ब्रह्मदत्तबुधप्रसूः । विद्याशौर्याढ्यहर्याणे श्रीरोहितकमण्डले ॥ ८ ॥ शिवकरणशर्मख्यविप्रस्यासन् सुताः स्तुताः । ब्रह्मण इव वेदार्या विष्णु-माडू यमौ तयोः ॥ ६ ॥ तुलसीराम-रामज्यौ तृतीयस्य सुतास्त्रयः । हरिरामारुणो ग्रस्तो मध्येऽह्नो मृत्युराहुणा ॥ १० ॥ अस्ति तस्यात्मजः शास्त्री व्रजनारायणः सुधीः । हरिरामानुजः श्रीमान् श्रीनिवासो विदां वरः ॥ ११ ॥ ज्योतिर्विद्भूषणं शैवः पूतात्मा तपसा परम् । रामविलासनामास्यास्त्यनुजो दैववित् परः ॥ १२ ॥ मयि स्निग्धाऽस्य भार्या च पूज्या कलावती शुभा । कनीयानस्ति पुत्रः श्रीमुरारीलालसञ्ज्ञकः ॥ १३ ॥ विष्णुदत्तस्य शास्त्रेषु नैकेषु व्याकृतौ श्रुतौ । कर्मकाण्डे च नाक्षत्रे वेदान्ते प्रथितो बुधः ॥ १४ ॥ बाणाङ्कग्रहभूवर्षे १६६५ वैक्रमेऽशुक्लपक्षतौ । ज्येष्ठे प्रार्तजनिर्मेऽभूत् सीतायां श्रीनिवासतः ॥ १५ ॥ भगवती च विद्या च भगिन्यौ पुण्यलक्षणे । तारादेवी शुभा भार्या कैशोरात् सङ्गिनी ययौ ॥ १७ ॥ लोकान् दिव्यान् सुखान् भोक्तुमतुष्यन्तीव मानुषे । कुसुमाख्या ततश्चोढाऽम्बाऽऽदेशेन शुभोदया ॥ १७ ॥