भारतकोश
काव्यादर्श (महाकवि दण्डी - प्रसादिनी सान्वय हिन्दी व्याख्या सहित)

काव्यादर्श (महाकवि दण्डी - प्रसादिनी सान्वय हिन्दी व्याख्या सहित)

Kavyadarsha of Mahakavi Dandin with Prasadini Commentary

महाकवि दण्डी द्वारा

DevanagariHindipublished270 पृष्ठ

पृष्ठ 7, कुल 270 में से

संदर्भ में पढ़ें
पृष्ठ 7

मङ्गलम् सरस्वती श्रीश्च शरीरसम्पदा गुणाश्च सद्वंश इहोज्ज्वलो महान् । सुदुर्लभाः पुण्यततिं विना सदा न चास्ति सा भागवतीं कृपां विना ॥ १ ॥ सद्योऽधिगन्तुं च समाश्रयेऽम्बिकां जन्मान्तरे चेन्न ममेह ते समे । पराम्बिकेयं न ततोऽस्ति कोमलं मनस्तु कस्यापि जने समाश्रिते ॥ २ ॥ पुण्यानि मे सन्ति च कान्यपीह यत् प्रवृत्तिरस्तीह ममांशतः शुभे । सुविप्रवृत्तिश्च सुखानि च स्थिता सरस्वतोपादनिषेवणे मतिः ॥ ३ ॥ विभाति चित्ते च नखच्छटा गिरः सुदुर्लभा याऽस्ति तपस्विनामपि । गिरां प्रदानैश्च सदजर्नैः सदा प्रकाश्यते ग्रन्थमिषेण चापि यत् ॥ ४ ॥ इतोऽधिका देवगिरोऽभिराधना भवेत् सुभूयोऽपि ममान्यजन्मनि । श्रियस्तु तावत्य इदम्परा मम गिरोऽभिराद्धिर्न विहन्यते यथा ॥ ५ ॥ शरीरमाद्यं खलु धर्म-साधनं न साध्यमस्तीति तदर्थना वृथा । यथाऽपि साध्यं न विहन्यते तथा भवेदितिप्रायमिहार्थ्यते मया ॥ ६ ॥ त एव काम्याश्च गुणा अपीह मा- मवापयेयुर्हि गिरः सुपादयोः । त एव दोषा यदि विघ्नतामितास् तथैव वंशोऽपि च काम्यते मया ॥ ७ ॥

काव्यादर्श (महाकवि दण्डी - प्रसादिनी सान्वय हिन्दी व्याख्या सहित) · पृष्ठ 7, कुल 270 में से · BharatKosha