काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 100, कुल 381 में से
संदर्भ में पढ़ेंनवमोऽध्यायः । ४५ “प्रशान्तजलभृत्पङ्के विमले वियदम्भसि । ताराकुमुदसम्बन्धे हंसायत इवोडुराट् ॥” काव्यानि पुनरेतन्मयान्येव । “अस्तु नाम निःसीमाऽर्थसार्थः । किन्तु रसवत्त एव निबन्धो युक्तो न नीरसस्य” इत्यपराजितिः । यदाह— “मज्जनपुष्पावचयनसन्ध्याचन्द्रोदयादिवाक्यमिह । सरसमपि नातिबहुलं प्रकृतरसानन्वितं रचयेत् ॥ यस्तु सरिद्रिसागरपुरतुरगरथादिवर्णने यत्नः । कविशक्तिख्यातिफलो विततधियां नो मतः स इह ॥” ‘आम्’ इति यायावरीयः । अस्ति चानुभूयमानो रसस्यानुगुणो विगुणश्चार्थः, काव्ये तु कविवचनानि रसयन्ति विरसयन्ति च नार्थाः । अन्वयव्यतिरेकाभ्यां चेदमुपलभ्यते । तत्र सरिद्वर्णनरसवत्ता— “एतां विलोकय तनूदरि ताम्रपर्णी— मम्भानिधौ विवृतशुक्तिपुटोद्धृतानि । यस्याः पयांसि परिणाहिषु हारमूर्त्या वामभ्रुवां परिणमन्ति पयोधरेषु ॥” अद्रिवर्णनरसवत्ता— “एतास्ता मलयोपकण्ठसरितामेणाक्षि रोधोभुव- श्चौपाभ्यासनिकेतनं भगवतः प्रेयो मनोजन्मनः । यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः पीयन्ते विवृतोर्ध्वचञ्चु विचलत्कण्ठं चकोराङ्गनाः ॥” सागरवर्णनरसवत्ता— “धत्ते यत्किलकिञ्चितैकगुरुतामेणीदृशां वारुणी वैधुर्यं विदधाति दम्पतिरुषां यच्चन्द्रिकार्द्रं नभः । यच्च स्वर्गसदां वयः स्मरसुहृन्नित्यं सदा सम्पदाम् यल्लक्ष्मीरधिदैवतं च जलधेस्तत्कान्तमाचेष्टितम् ॥” १ B अप. २ B omits तु. ३ B omits विरसयन्ति and reads न चार्थो ४ A तलोदरि. ५ B छाया.