काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 101, कुल 381 में से
संदर्भ में पढ़ें४८ काव्यमीमांसायाम् निबन्ध(न्धे)शुद्धः— “स्तिमितविकसितानामुल्लसद्भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारभाजाम् । प्रतिनयननिपाते किञ्चिदाकुञ्चितानां सुचिरमहमभूवं पात्रमालोकितानाम् ॥” ५ चित्रः— “अलसवलितमुग्धस्निग्धनिष्पन्दमन्दै- रधिकविकसदन्तर्विस्मयस्मेरतारैः । हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षै- रपहृतमपविद्धं पीतमुन्मूलितं च ॥” कथोत्थः— “अभिलाषमुदीरितेन्द्रियः १० स्वसुतायामकरोत्प्रजापतिः । अथ तेन निगृह्य विक्रिया- मभिशप्तः फलमेतदन्वभूत् ॥” संविधानकभूः— “क्रोधं प्रभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति । १५ तावत्स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥” आख्यानकवान्— “पत्युः शिरश्चन्द्रकलामेनैन स्पृशेति सख्या परिहासपूर्वम् । सा रञ्जयित्वा चरणौ कृताशी- २० र्माल्येन तां निर्वचनं जघान ॥” किञ्च संस्कृतवत्सर्वासपि भाषासु यथासामर्थ्यं यथारुचि यथा- कौतुकं चावहितः स्यात् । शब्दार्थयोश्चाभिधानाभिधेयव्यापार- प्रगुणतामवबुध्येत । तदुक्तम्— i एकोऽर्थः संस्कृतोक्त्या ससुकविरचनः प्राकृतेनापरोऽस्मि- न्न्योऽपभ्रंशगीर्भिः किमपरमपरो भूतभाषाक्रमेण । १ A संविभानभूः. २ B आख्यानवान्.