काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 111, कुल 381 में से
संदर्भ में पढ़ें५८ काव्यमीमांसायाम् “न” इति यायावरीयः । उल्लेखवाग्वदसन्दर्भः परिहरणीयः प्रत्यभिज्ञायातः पादोऽपि । तस्यापि साम्येन किञ्चन दुष्टं स्यात् । यथा- “इत्युक्तवानुक्तिविशेषरम्यं मनः समाधाय जयोपपत्तौ । उदारचेता गिरमित्युदारां द्वैपायनेनाभिदधे नरेन्द्रः ॥” यथा च— “इत्युक्तवानुक्तिविशेषरम्यं रामानुजन्मा विरराम मानी । सङ्क्षिप्तमाप्तावसरं च वाक्यं सेवाविधिज्ञैः पुरतः प्रभूणाम् ॥” उल्लेखवान्यथा- “नमः संसारनिर्वाणविषामृतविधायिने । सप्तलोकोर्मिभङ्गाय शङ्करक्षीरसिन्धवे ॥” यथा च— “प्रसरद्विन्दुनादाय शुद्धामृतमयात्मने । नमोऽनन्तप्रकाशाय शङ्करक्षीरसिन्धवे ॥” “पाद एवान्यथात्वकरणकारणं न हरणम्, अपि तु स्वीकरणम्” इत्याचार्याः । यथा- “त्यागाधिकाः स्वर्गमुपाश्रयन्ते त्यागेन हीना नरकं व्रजन्ति । न त्यागिनां किञ्चिदसाध्यमस्ति त्यागो हि सर्वव्यसनानि हन्ति ॥” यथा च— “त्यागो हि सर्वव्यसनानि हन्ती- त्यलीकमेतद्भुवि सम्प्रतीतम् । जातानि सर्वव्यसनानि तस्या- स्त्यागेन मे मुग्धविलोचनायाः ॥” तदिदं स्वीकरणापरनामधेयं हरणमेव । तद्वदूर्द्धमयोगेऽपि । यथा— १ AB नाप्रत्यभिज्ञायातः.