काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 112, कुल 381 में से
संदर्भ में पढ़ेंकविरहस्ये एकादशोऽध्यायः । ५९ “पादस्ते नरवर दक्षिणे समुद्रे पादोऽन्यो हिमवति हेमकूटलग्ने । आक्रामत्यलघु महीतलं त्वयीत्थं भूपालाः प्रणतिमपास्य किन्नु कुर्युः ॥” यथा चोत्तरार्द्धे¹—“इत्थं ते विधृतपदद्वयस्य राज- न्नाश्चर्यं कथमिव सीधनी न भिन्ना ॥” एवं व्यस्तार्द्धप्रयोगेऽपि² । यथा— “तत्तावदेव शशिनः स्फुरितं महीयो यावन्न तिग्मरुचिमण्डलमभ्युदेति । अभ्युद्गते³ सकलधामनिधौ⁴ तु तस्मि- न्निन्दोः सिताभ्रशकलस्य च को विशेषः ॥” यथा च—“तत्तावदेव शशिनः स्फुरितं महीयो यावन्न किञ्चिदपि गौरतरा हसन्ति । ताभिः पुनर्विहसिताननपङ्कजाभि- रिन्दोः सिताभ्रशकलस्य च को विशेषः ॥” पादे⁵ एवान्यथात्वकरणं न स्वीकरणं पादोनहरणं वा । यथा— “अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे । न्यासापह्नवने चैव दिव्या सम्भवति क्रिया ॥” यथा चोत्तरार्द्धे— “तन्वङ्गी यदि लभ्येत दिव्या सम्भवति क्रिया ।” यथा वा—“यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु । कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥” यथा चोत्तरार्द्धे—“कुक्षौ समुद्राश्चत्वारः स सहेत स्वरानलम् ॥” भिन्नार्थानां तु पादानामेकेन पादेनान्वयनं कवित्वमेव । यथा— ———————————————————————————————————————————— १ B चोत्तरार्द्धं. २ A प्रयोगोपि. ३ B अभ्युद्यते. ४ V S तुहिनधामनिधौ. ५ A पादा.