काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 114, कुल 381 में से
संदर्भ में पढ़ेंकविरहस्ये एकादशोऽध्यायः । ६१ पिबति मधुसुगन्धीन्याननानि प्रियाणां त्वयि विनिहितभारः कुन्तलानामधीशः ॥” यथा वोत्तरार्धे—“पिबतु मधुसुगन्धीन्याननानि प्रियाणां मयि विनिहितभारः कुन्तलानामधीशः ॥” वाक्यस्यान्यथा व्याख्यानमपि न स्वीकरणं हरणं वा । यथा— ५ “सुभ्रु त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषितां दूरादेव मयोज्झिताः सुरभयः स्रग्दाम(गन्ध)धूपादयः । कोपं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदाधुना सद्यस्त्वद्विरहाद्भवन्ति दयिते सर्वा ममान्धा दिशः ॥” एतच्च कान्ताप्रसादनपरं वाक्यं कुपितदृष्टिपरतया व्याख्यातं १० न स्वीकृतं हृतं वा । यत्तु परकीयं स्वीयमिति प्रोक्तानामन्यतमेन कारणेन विलपन्ति, तन्न केवलं हरणम्, अपि तु दोषोदाहरणम् । मुक्तकप्रबन्धविषयं तत् । मूल्यक्रयोऽपि हरणमेव । वरमप्रसिद्ध्य- शसो न पुनैर्दुर्यशः । सभापतिस्तु द्विधा, उपजीव्य, उपजीवकश्च [इति] । तत्रोपजी- १५ वनमात्रेण न कश्चिद्दोषः । यतः सर्वोऽपि परेभ्य एव व्युत्पद्यते । केवलं तत्र समुदायो गुरुः । “तद्दुक्तिहरणम्” इत्याचार्याः । यथा—“ऊरुद्वन्द्वं सरसकदलीकाण्डसब्रह्मचारि ।” यथा च—“ऊरुद्वयं कदलीकन्दलयोः सवंशं २० श्रोणिः शिलाफलकसोदरसन्निवेशा । वक्षः स्तनद्वितयताडितकुम्भशोभं सब्रह्मचारि शशिनश्च मुखं मृगाक्ष्याः ॥” “उक्तयो ऽर्थान्तरसङ्क्रान्ता न प्रत्यभिज्ञायन्ते, स्वदन्ते च; तद्- र्थास्तु हरणादपि हरणं स्युः” इति यायावरीयः । “नास्त्यचौरः कविजनो नास्त्यचौरो वणिग्जनः । २५ स नन्दति बिना वाच्यं यो जानाति निगूहितुम् ॥ १ A omits नं. २ B प्रोक्त्वा नान्यतमेनकर. ३ B न तु दु. ४ B कदलि०. ५ A सदंशं.