काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 115, कुल 381 में से
संदर्भ में पढ़ें६२ काव्यमीमांसायाम् उत्पादकः कविः कश्चित्कश्चिच परिवर्त्तकः । आच्छादकस्तथा चान्यस्तथा संवर्गकोऽपरः ॥ शब्दार्थोक्तिषु यः पश्येदिह किञ्चन नूतनम् । उल्लिखेत्किञ्चन प्राच्यं मन्यतां स महाकविः ॥” ५ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे एकादशोऽध्यायः शब्दहरणानि ॥
द्वादशोऽध्यायः शब्दार्थहरणेपु कविप्रभेदाः प्रति- बिम्बकल्पविकल्पस्य च समीक्षा ।
“पुराणकविक्षुण्णे वर्त्मनि दुरापमस्पृष्टं वस्तु, ततश्च तदेव संस्कर्र्तु १०प्रयतेत” इत्याचार्याः । “न” इति वाक्पतिराजः । “आसंसारमुदारैः कविभिः प्रतिदिनगृहीतसारोऽपि । अद्याप्यभिन्नमुद्रो विभाति वाचां परिस्पन्दः ॥” “तत्प्रतिभासाय च परप्रबन्धेष्ववदधीत । तदवगाहने हि तदे- कयोनयोऽर्थाः पृथक्पृथक् प्रथन्ते” इत्येके । “तत्रत्यानामर्थानां छा- १५ यया परिवृत्तिः फलम्” इत्यपरे । “महात्मनां हि संवादिन्यो बुद्धय एकमेवार्थमुपस्थापयन्ति, तत्परित्यागाय तानाद्रियेत” इति च केचित् । “न” इति यायावरीयः । सारस्वतं चक्षुरवाङ्मनसगोचरेण प्रणिधानेन दृष्टमदृष्टं चार्थजातं स्वयं विभजति । तदाहुः—सुप्तस्यापि महाकवेः शब्दार्थौ सरस्वती दर्शयति। तदि- २० तरस्य तत्र जाग्रतोऽप्यन्धं चक्षुः । अन्यदृष्टचरे ह्यर्थे महाकवयो जात्यन्धाः । तद्विपरीते तु दिव्यदृशः । न तत् त्र्यक्षः सहस्राक्षो वा यच्चर्मचक्षुषोऽपि कवयः पश्यन्ति । मतिदर्पणे कवीनां विश्वं प्रति- फलति । कथं नु वयं दृश्यामह इति महात्मनामहंपूर्विकयैव श- ब्दार्थाः पुरो धावन्ति । यत्सिद्धप्रणिधाना योगिनः पश्यन्ति, तन्न
१ Explained in C as अनेककाव्यार्थग्राही. B संवर्ध. २ B तत्रस्या०. ३ A वा. ४ B omits अन्य.