भारतकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 118, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 118

कविरहस्ये द्वादशोऽध्यायः । ६५ अप्रत्यभिज्ञेयतया स्ववाक्ये नवतां नयेत् । यो द्रावयित्वा मूलार्थं द्रावकः स भवेत्कविः ॥ चिन्तासमं यस्य रसैकस्रुतिरुदेति चित्राकृतिरर्थसार्थः । अदृष्टपूर्वो निपुणैः पुराणैः कविः स चिन्तामणिरद्वितीयः ॥” तस्य चायोनिर्थः । स च त्रिधा लौकिकालौकिकभेदेन, तयो- र्मिश्रत्वेन च । तत्र लौकिकः— “मा कोशकारलतिके वह वर्णगर्वं किं डम्बरेण चणिके तव कौसुमेन । पुण्ड्रेक्षुयष्टिरियमेकतरा चकास्तु या स्यन्दते रसमृतेऽपि हि यन्त्रयोगात् ॥” अलौकिकः—“देवी पुत्रमसूत नृत्यत गणाः किं तिष्ठतेत्युन्भुजे हर्षाद्भृङ्गिरिटावुदाहृतगिरा चामुण्डयाऽऽलिङ्गिते । पायाद्वो जितदेवदुन्दुभिघनध्वानप्रवृत्तिस्तयो- रन्योन्याङ्क¹निपातजर्जरजरत्स्थूलास्थिजन्मा रवः ॥” मिश्रः—“स्थिते कुक्षेरन्तर्मुरजयिनि निःश्वासमरुतो जनन्यास्तन्नाभीसरसिजपरागोत्करमुचः । निपीताः सानन्दं रचितफणचक्रेण हलिना समन्तादस्यासुः प्रतिदिनमसेनांसि भवतः ॥” तेषां च चतुर्णामर्थानाम्— चत्वार एते कथिता मयैव येऽर्थाः कवीनां हरणोपदेशे । प्रत्येक²मष्टत्ववशाद्भवन्ति द्वात्रिंशता तेऽनुगताः प्रभेदैः ॥ तत्र प्रतिबिम्बकल्पविकल्पाः (८) । स एवार्थः पौ³र्वापर्यविपर्या- साद्व्यत्यस्तै⁴र्कः (१) ।


१ A अन्योन्याङ्ग. २ B प्रत्येकमाष्टक्य० ३ B पूर्वोपर्य. ४ A स्त. ९