काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 121, कुल 381 में से
संदर्भ में पढ़ें६८ काव्यमीमांसायाम् एतां प्रेमभरालसां च सहसा शुष्यन्मुखीमाकुलः श्लिष्यन् रक्षति पक्षसम्पुटकृतच्छायः शकुन्तः प्रियाम्॥" उभयवाक्यार्थोपादानं सम्पुटः (८) यथा—"विन्ध्यस्याद्रेः परिसरनदी नर्मदा सुभ्रु सैषा यादोभर्तुः प्रथमगृहिणीं यां विदुः पश्चिमस्य । यस्यामन्तःस्फुरितशफरत्रासहासाकुलाक्षी खैरं खैरं कथमपि मया तीरमुत्तारिताऽसि ॥" यथा—"नाभीगुहाबिलविशचलवीचिजात- मञ्जुध्वनिश्रुतिकणत्कलकुकुभानि । रेवाजलाम्बविरलं ग्रँहिलीक्रियन्ते लाटाङ्गनाभिरपराह्ननिमज्जनेषु ॥" अत्रार्थे—"यद्गार्ग्याभिर्जगाहे गुरुशकुलकुलास्फालनत्रासहास- व्यस्तोरुस्तम्भिकाभिर्दिशि दिशि सरितां दिग्विजयप्रक्रमेषु । अम्भो गम्भीरनाभीकुहरकवलनोन्मुक्तिपर्यायलोल- त्कल्लोलाबद्धमुग्धध्वनिचकितरणत्कुकुभं कामिनीभिः ॥" सोऽयं कवेरकवित्वदाघी सर्वथा प्रतिबिम्बकल्पः परिहरणीयः । यतः—पृथक्त्वेन न गृह्णन्ति वस्तु काव्यान्तरस्थितम् । पृथक्त्वेन न गृह्णन्ति स्ववपुः प्रतिबिम्बितम् ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे शब्दार्थहरणेपु कविप्रभेदाः प्रतिबिम्बकल्पविकल्पस्य समीक्षा द्वादशोऽध्यायः ॥ १ B शफरी. २ B कणज्जल. ३ B गृहिणी० ४ B कवेरवकवित्व.