काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 124, कुल 381 में से
संदर्भ में पढ़ेंकविरहस्ये त्रयोदशोऽध्यायः । ७१ मूलप्ररूढसितदन्तबिसाङ्कुरेण नालायितं तपनबिम्बसरोरुहस्य ॥” अत्रार्थे—“सरलकरदण्डनालं गजवपुषः पुष्करं विभोर्जयति । मूलबिसकाण्डभूमौ यत्राभूदेकदंष्ट्रैव ॥” विकृतेः प्रकृतिप्रापणं प्रत्यापत्तिः (८) । यथा—“रविसङ्क्रान्तसौभाग्यस्तुषाराविलमण्डलः । निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥” अत्रार्थे—“तस्याः प्रतिद्वन्द्विभवाद्दिषादा- त्सद्यो विमुक्तं मुखमाबभासे । निःश्वासबाष्पापगमे प्रपन्नः प्रसादमात्मीयमिवात्मदर्शः ॥” ता इमा आलेख्यप्रख्यस्य भिदाः । सोऽयमनुग्राह्यो मार्गः । आहुश्च—“सोऽयं भणितिवैचित्र्यात्समस्तो वस्तुविस्तरः । नटवद्वर्णिकायोगादन्यथात्वमिवाच्छति ॥” अथ तुल्यदेहितुल्यस्य भिदाः (८) । तस्यैव वस्तुनो विषयान्तरयो- जनादन्यरूपापत्तिर्विषयपरिवर्त्तः (१) । यथा--“ये सीमन्तितगात्रभस्मरजसो ये कुम्भकक्षैषिणो ये लीढाः श्रवणाश्रयेण फणिना ये चन्द्रशैल्यद्रुहः । ते कुप्यद्गिरिजाविभक्तवपुषश्चित्तव्यथासाक्षिणः स्थाणोर्दक्षिणनासिकापुटभुवः श्वासानिलाः पान्तु वः ॥” अत्रार्थे—“ये कीर्णकथितोदराब्जमधवो ये म्लापितोरःस्रजो ये तापात्तरलेन तल्पफणिना पीतप्रतीपोज्झिताः । ते राधास्मृतिसाक्षिणः कमलया सासूयमाकर्णिता गाढान्तर्दवथोः प्रततसरलाः श्वासा हरेः पान्तु वः ॥” द्विरूपस्य वस्तुनोऽन्यतम(र)रूपोपादानं द्वन्द्वविच्छित्तिः (२) । यथा—“उत्क्लेशं केशबन्धः कुसुमशररिपोः कल्मषं वः स मुष्या- द्यत्रेन्दुं वीक्ष्य गङ्गाजलभरलुलितं बालभावादभूताम् । १ A. B. मूलावलम्ब.