काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 123, कुल 381 में से
संदर्भ में पढ़ें७० काव्यमीमांसायाम् अग्राहि मण्डनविधिर्विपरीतभूषा- विन्यासहासितसखीजनमङ्गनाभिः ॥” अत्रार्थे—“चकार काचित्सितचन्दनाङ्के काञ्चीकलापं स्तनभारपृष्ठे । प्रियं प्रति प्रेषितचित्तवृत्ति- र्नितम्बबिम्बे च बबन्ध हारम् ॥” उपसर्जनस्यार्थस्य प्रधानतायामुत्तंसः (५) । यथा—“दीपयन्नथ नभः किरणौघैः कुङ्कुमारुणपयोधरगौरः । हेमकुम्भ इव पूर्वपयोधे- रुन्ममज्ज शनकैस्तुहिनांशुः ॥” अत्रार्थे—“ततस्तमःश्यामलपट्टकञ्चुकं विपाटयत्किञ्चिद्दृश्यतान्तरा । निशातरुण्याः स्थितशेषकुङ्कुम- स्तनाभिरामं स(श)कलं कलावतः ॥” तदेव वस्तूक्तिवशादन्यथा क्रियत इति १नवनेपथ्यम् (६) । यथा—“आननेन्दुशशलक्ष्म कपोले सादरं विरचितं तिलकं यत् । तत्प्रिये विरचितावधिभङ्गे धौतमीक्षणजलैस्तरलाक्ष्याः ॥” अत्रार्थे—“शोकाश्रुभिर्वासखण्डितानां सिक्ताः कपोलेषु विलासिनीनाम् । कान्तेषु कालात्ययमाचरत्सु स्वल्पायुषः पत्रलता बभूवुः ॥” परिकरसाम्ये सत्यपि परिकार्यस्यान्यथात्वादेकपरिकार्यः (७) । “अव्याद्गजेन्द्रवदनः स इमां त्रिलोकीं यस्योद्धृतेन गगने महता करेण । १ A नटनेपथ्यम्.