भारतकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 127, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 127

७४ काव्यमीमांसायाम्

यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥" यथा च— “उदयति पश्य कृशोदरि दलितत्वक्षीर(त्वक्सार)१करणिभिः किरणैः। उदयाचलचूडामणिरेष पुरो रोहिणीरमणः ॥” यथा च—“उदयति नवनीतपिण्डपाण्डुः कुमुदवनान्यवघट्टयन्कराग्रैः। उदयगिरितटस्फुटाट्टहासो रजनिवधूमुखदर्पणः शशाङ्कः॥” यथा च—“प्रोषितैकेन्दुहंसेऽस्मिन्स्लाविव तमोऽम्बुभिः । नभस्तडागे मदनस्ताराकुमुदद्वा(भा)सिनि ॥” अत्रार्थे—“रजनिपुरन्ध्रिरोध्रतिलकस्तिमिरद्विपयूथकेसरी रजतमयोऽभिषेककलशः कुसुमायुधमेदिनीपतेः । अयमुदयाचलैकचूडामणिर्भिनवदर्पणो दिशा- मुदयति गगनसरसि हंसस्य हसन्निव विभ्रमं शशी ॥” कन्दभूतोऽर्थः कन्दलायमानैर्विशेषैरभिधीयत इति कन्दः । (८) । यथा— “विशिखामुखेषु विसरति पुञ्जीभवतीव सौधशिखरेषु । कुमुदाकरेषु विकसति शशिकलेशपरिस्रुता ज्योत्स्ना ॥” अत्रार्थे—“वियति विसर्पतीव कुमुदेषु बह्ळभवतीव योषितां प्रतिफलतीव जरठशरकाण्ड२पाण्डुषु गण्डभित्तिषु । अम्भसि विकसतीव ३लसतीव सुधाधवलेषु धामसु ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका ॥ स्फटिकमणिघट इवेन्दुस्तस्यामपिधानमाननमिवाङ्कः । क्षरति चिरं तेन यथा ज्योत्स्ना घनसारधूलिरिव ॥ सितमणिकलशादिन्दोर्हरिणहरित्तृणपिधानतो गलितैः । रजनिभुजिष्या सिञ्चति नभोऽङ्गणं चन्द्रिकाम्भोभिः ॥ संविधातुमभिषेकमुदासे मन्मथस्य लसदंशुजलौघः ।

१ Explained in C as सदृशैः. २ K विपाण्डुषु. ३ K हसतीव.