काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 136, कुल 381 में से
संदर्भ में पढ़ेंकविरहस्ये पञ्चदशोऽध्यायः । ८३ पञ्चदशोऽध्यायः गुणसमयस्थापना । असतो गुणस्य निबन्धनम् । यथा—यशोहासप्रभृतेः शौक्ल्यम्, अयशसः पापप्रभृतेश्च कार्ष्ण्यं, क्रोधानुरागप्रभृतेश्च रक्तत्वम्। तत्र यशःशौक्ल्यम्— "स्तेमः स्तोकोऽपि नाङ्गे श्वसितमविकलं चक्षुषां सैव वृत्ति- र्मध्येक्षीराब्धि मग्नाः स्फुटमथ च वयं कोऽयमीदृक्प्रकारः। इत्थं दिग्भित्तिरोधक्षतविसरतया मांसलैस्त्वद्यशोभिः स्तोकावस्थानदुःस्थैस्त्रिजगति धवले विस्मयन्ते मृगाक्ष्यः॥" हासशौक्ल्यम्—"अट्टहासच्छलेनास्याद्यश्स्यं फेनौघपाण्डुराः। जगत्क्षय इवापीताः क्षरन्ति क्षीरसागराः॥" अयशःकृष्णत्वम्— "प्रसरन्ति कीर्त्तयस्ते तव च रिपूणामकीर्त्तयो युगपत्। कुवलयदलं संवलिताः प्रतिदिनमिव मालतीमालाः॥" पापकार्ष्ण्यम्—"उत्खातनिर्मलमयूखकृपाणलेखा- श्यामायिता तनुरभूद्द्यकन्धरस्य। सद्यःप्रकोपकृतकेशववंशनाश- सङ्कल्पसंजनितपापमलीभसैव ।" क्रोधरक्तता—"आस्थानकुट्टिमतलप्रतिबिम्बितेन कोपप्रभाप्रसरपाटलविग्रहेण। भौमेन मूर्च्छितरसातलकुक्षिभाजा भूमिश्चचाल चलतोर्दरवर्त्तिनेव ॥" अनुरागस्परक्तता यथा—"गुणानुरागमिश्रेण यशसा तव सर्पता। दिग्वधूनां मुखे जातमकस्मादार्द्रकुङ्कुमम्॥" सतोऽपि गुणस्यानिवन्धनम् । कुन्दकुद्मलांनां कामिदन्तानां च रक्तत्वं, कमलमुकुलप्रभृतेश्च हरितत्वं, प्रियङ्गुपुष्पाणां च पीतत्वम्। १ V स्याः पश्य. २ V प्रतिदिशमिव. ३ V चलनो.