काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 148, कुल 381 में से
संदर्भ में पढ़ेंतदाहुः- "चतसृष्वपि दिक्षु रणे द्विषतः प्रति येन चित्रचरितेन । विहितमपूर्वमदक्षिणमपश्चिममनुत्तरं कर्म ॥" "ऐन्द्री, आग्नेयी, याम्या, नैर्ऋती, वारुणी, वायव्या, कौबेरी, ऐशानी चाष्टौ दिशः" इत्येके । तदाहुः- "एकं ज्योतिर्दृशौ द्वे त्रिजगति गदितान्यब्जजास्यैश्चतुर्भि- र्भूतानां पञ्चमं यान्यलमृतुषु तथा षट्सु नानाविधानि । युष्माकं तानि सप्त त्रिदशमुनिनुतान्यष्टदिग्भाञ्जि भानो- र्यान्ति प्राह्णे नवत्वं दश दधतु शिवं दीधितीनां शतानि ॥" "ब्राह्मी नागीया च द्वे । ताभ्यां सह दशैताः" इत्यपरे । तदाहुः- "दशदिक्कटपर्यन्तसीम सङ्कटभूमिके । विषमा स्थूललक्ष्यस्य ब्रह्माण्डग्रामके स्थितिः ॥" सर्वमस्तु, विवक्षापरतन्त्रा हि दिशामियत्ता । तत्र चित्रास्वात्यन्तरे प्राची, तदनुसारेण प्रतीची, ध्रुवेणोदीची, तदनुसारेणावाची, अन्तरेषु विदिशः, ऊर्ध्वं ब्राह्मी, अधस्तान्नागीयेति । द्विविधो व्यवहारः कवीनां प्राक्सिद्धो विशिष्टस्थानावधिसाध्यश्च । तत्र प्राक्सिद्धे प्राची- "द्वित्रैर्व्योम्नि पुराणमौक्तिकमणिच्छायैः स्थितं तारकै- र्ज्योत्स्नापानभरालसेन वपुषा सुप्ताश्चकोराङ्गनाः । यातोऽस्ताचलचूलमुद्धसमधुच्छत्रच्छविश्चन्द्रमाः प्राची बालबिडाललोचनरुचां जाता च पात्रं ककुप् ॥" दक्षिणा- "दक्षिणो दक्षिणामाशां यियासुः सोऽधिकं बभौ । जिहासुर्दक्षिणामाशां भगवानिव भास्करः ॥" पश्चिमा- "पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे विवस्वता । दीर्घया प्रतिमया सरोम्भस- स्तापनीयमिव सेतुबन्धनम् ॥ १ V A दशदिकूट०. २ V द्विधा च दिव्यव्यवहारः. ३ C प्रसिद्धो. ४ V यियासन्. ५ V जिहासन्.