भारतकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 149, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 149

[Page Header] ९६ काव्यमीमांसायाम्

उत्तरा— "अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी विगाह्य स्थितः पृथिव्या इव मानदण्डः ॥" विशिष्टस्थानावधौ तु दिग्विभागे पूर्वपश्चिमौ यथा— "यादांसि हे चरत संगतगोत्रतन्त्रं पूर्वेण चन्दनगिरेरुत पश्चिमेन । नो चेन्निरन्तरधराधरसेतुसृति- राकल्पमेष न विरंस्यति वो वियोगः ॥ दक्षिणोत्तरौ यथा—"काञ्च्याः पुरो दक्षिणदिग्विभागे तथोत्तरस्यां दिशि वारिराशेः । कर्णान्तचक्रीकृतचारुचापो रत्या समं साधु वसत्यनङ्गः ॥" उत्तरादावप्युत्तरदिगभिधानं, अनुत्तरादावप्युत्तरदिगभिधानम् । तयोः प्रथमम्—"तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन । यस्योद्याने कृतकतनयः कान्तया वर्द्धितो मे हस्तप्राप्यः स्तबकविनतो बालमन्दारवृक्षः ॥" द्वितीयम्—"सह्याद्रेरुत्तरे भागे यत्र गोदावरी नदी । पृथिव्यामिह कृत्स्नायां स प्रदेशो मनोरमः ॥" एवं दिगन्तरेष्वपि । तत्र देशपर्वतनद्यादीनां दिशां च यः क्रमस्तं तथैव निबध्नीयात् । साधारणं तूभयत्र लोकप्रसिद्धितश्च । तद्वर्णनियमः । तत्र पौरस्त्यानां श्यामो वर्णः, दाक्षिणात्यानां कृष्णः, पाश्चात्यानां पाण्डुः, उदीच्यानां गौरः, मध्यदेश्यानां कृष्णः श्यामो गौरश्च । पौरस्त्यश्यामता—"श्यामेष्वङ्गेषु गौडीनां सूत्रहारैकहारिषु । चक्रीकृत्य धनुः पौष्पमनङ्गो वल्गु वल्गति ॥"

[Footnotes] १ B पुष्प. २ B तो.