काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 150, कुल 381 में से
संदर्भ में पढ़ेंकवि रहस्ये सप्तदशोऽध्यायः। ९७ दाक्षिणात्यकृष्णता-“इदं भासां भर्तुहृतकनकगोलप्रतिकृति क्रमान्मन्दज्योतिर्गलति नभसो बिम्बवलयम्। अथैष प्राचींतः सरति मुरलीगण्डमलिन- स्तरुच्छायाचक्रैः स्तबकित इव ध्वान्तविसरः॥” पाश्चात्यपाण्डुता-“शाखास्मेरं मधुकवलनाकेलिलोलेक्षणानां भृङ्गस्त्रीणां बकुलमुकुलं कुन्तलीभावमेति। किं चेदानीं यवनतरुणीपाण्डुगण्डस्थलीभ्यः कान्तिः स्तोकं रचयति पदं नागवल्लीच्छदेषु॥” उदीच्यगौरता-“पुष्पैः सम्प्रति काञ्चनारतरवः प्रत्यङ्गमRow/आलिङ्गिताः वाल्हीकीदशनव्रणारुणतरैः पत्रैरशोकोऽर्चितः। जातं चम्पकमप्युदीच्यललनालावण्यचौर्यक्षमं माञ्जिष्ठैर्मुकुलैश्च पाटलतरोरन्यैव काचिल्लिपिः॥” यथा वा-“काश्मीरीगात्रलेखासु लोलल्लावण्यवीचिषु। द्रावयित्वेव विन्यस्तं स्वर्णं षोडशवर्णकम्॥” मध्यदेश्यकृष्णता यथा- “युधिष्ठिरक्रोधवह्नेः कुरुवंशैकदाहिनः। पाञ्चालीं ददृशुः सर्वे कृष्णां धूमशिखामिव॥” तदून्मध्यदेश्यश्यामता। न च कविमार्गे श्यामकृष्णयोः पाण्डु- गौरयोर्वा महान्विशेष इति कविसमयेष्ववोचाम। मध्यदेश्यगौरता- “तव नवनवनीतपिण्डगौरे प्रतिफलदुत्तरकोसलेन्द्रपुत्र्याः। अवगतमलिके मृगाङ्कबिम्बं मृगमदपत्रनिभेन लाञ्छनेन॥” विशेषस्तु पूर्वदेशे राजपुत्र्यादीनां गौरः पाण्डुर्वा वर्णः। एवं दक्षिणदेशेऽपि। तत्र प्रथमः-“कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरः स्फारोडरमरपुलक॑ वक्त्रकमलम्।
१ V प्राचीनः. २ V नागवल्लीदलेषु. ३ V कोसलेन्दुपुत्रि. B पुत्रिकायाः ४ A कै.