काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 154, कुल 381 में से
संदर्भ में पढ़ेंकविरहस्ये अष्टादशोऽध्यायः। १०१ चलच्चटुलचातकः कृतकुरङ्गरागोदयः सदर्दुररवोद्यमो मदभरप्रगल्भोरगः। शिखण्डिकुलताण्डवामुदितमण्डूकङ्काहयो वियोगिषु घनागमः सरविषं विषं मुञ्चति॥ दलत्कुटजकुड्मलः स्फुटितनीपपुष्पोत्करो ५ धवप्रसवबान्धवः प्रचितमञ्जरीकार्जुनः। कदम्बकलुषाम्बरः कलितकेतकीकोरक- श्चलन्निचुलसञ्चयो हरति हन्त घर्मात्ययः॥” वर्षाः॥ “द्राग्ग(क्त)र्जयन्ती विमदान्मयूरान्प्रगल्भयन्ती कुररद्विरेफान्। १० शरत्स्रसमभ्येति विकास्य पद्मानुन्मीलयन्ती कुमुदोत्पलानि॥ सा भाति पुष्पाणि निवेशयन्ती बन्धूकबाणासनकुङ्कुमेषु। शेफालिकासपलाशकाशभाण्डीरसौगन्धिकमालतीषु॥ सखञ्जरीटा सपयःप्रसादा सा कस्य नो मानसमाच्छिनत्ति। कादम्बकारण्डवचक्रवाकससारसक्रौञ्चकुलानुयाता॥ १५ उपानयन्ती कलहंसयूथमगस्त्यदृष्ट्या पुनती पयांसि। मुक्तासु शुभ्रं दधती च गर्भं शरद्विचित्रैश्चरितैश्चकास्ति॥ क्षितिं खनन्तो वृषभाः खुराग्रै रोधो विषाणैर्द्विरदा रदन्तः। शृङ्गं त्यजन्तो रुरवश्च जीर्णं कुर्वन्ति लोकानवलोकनोत्कान्॥ अभ्रावदातद्युति चन्द्रिकाम्बु नीलातभासं च नभः समन्तात्। २० ३सुरेभवथी दिवसावतारो ४जीर्णाभ्रखण्डानि च पाण्डुराणि॥ महानवम्यां निखिलास्त्रपूजा नीराजना वाजिभटद्विपानाम्। दीपालिकायां विविधा बिलासा यात्रोन्मुखैरत्र नृपैर्विधेयाः॥ व्योम्नि तारतरतारकोत्करः स्यन्दनप्रचरणक्षमा मही। भास्करः शरदि दीप्तदीधितिर्बुध्यते च सह माधवः सुरैः॥ २५ केदार एव कलमाः परिणामनम्राः प्राचीनमामलकमर्हति पाकनीलम्। १ V B प्रोन्मादयन्ती. V C प्रोन्मोदयन्ती. २ V B & V C विशेषयन्ती. ३ V सुरे- भवीथी दिवि सावत्तारा. ४ V B & V C जीर्णाब्जखण्डानि.