काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 153, कुल 381 में से
संदर्भ में पढ़ेंशिशिरेऽपि हेमन्तवदुदीच्यः पाश्चात्यो वा। वसन्ते दक्षिणः। तदुक्तम्— “¹धुन्वँल्लङ्कावनालीर्मुहुरलकलता लासयन्केरलीना- मन्ध्रीधम्मिल्लबन्धान्सपदि शिथिलयन्वेल्लयन्नागवल्लीः। उद्दामं दाक्षिणात्यो म(मि)लितमलयजः सारथिर्मीनकेतोः प्राप्तः सीमन्तिनीनां मधुसमयसुहृन्मानचौरः समीरः॥” “अनियतदिक्को वायुर्ग्रीष्मे” इत्येके। नैर्ऋतः” इत्यपरे। “उभय- मपि” इति यायावरीयः। तत्र प्रथमः— “वात्याचक्रकचुम्बिताम्बरभुवः स्थूला रजोदण्डकाः संगृह्णन्ति भविष्यदभ्रपटलस्थूणावितर्कं नभः। किं चान्यन्मृगतृष्णिकाम्बुविसरैः पात्राणि वीतार्णसां सिन्धूनामिह सूत्रयन्ति दिवसेष्वागामिनीं सम्पदम्॥” द्वितीयः— “सोऽयं करैस्तपति वह्निमयैरिवार्कः साङ्गारविस्तरभरेव धरा समग्रा। वायुः कुकूलमिव वर्षति नैर्ऋतश्च कार्शानवैरिव शरैर्मदनश्च हन्ति॥” किञ्च— “³गर्भान्वलाकासु निवेशयन्तो वंशाङ्कुरान्स्वनिनदैः ²सृजन्तः। रजोऽम्बुदाः प्रावृषि मुद्रयन्तो यात्रोद्यमं भूमिभृतां हरन्ति॥ स सल्हकीसालशिलीन्ध्रयूथीप्रसूनदः पुष्पितलाङ्गलिकः। दग्धोर्वरासुन्दरगन्धबन्धुरर्धत्ययं वारिमुचामनेहा॥ वनानि नीलीदलमेचकानि धाराम्बुधौता गिरयः स्फुरन्ति। पूराम्भसा भिन्नतटास्तटिन्यः सान्द्रेन्द्रगोपानि च शाद्वलानि॥ चकोरहर्षी यतिषारचौरो वियोगिनीवीक्षितनाथवर्त्मा। गृहान्प्रति प्रस्थितपान्थसार्थः कालोऽयमाध्मातनभाः पयोदैः॥ या केलियात्रा ⁴कैँरिकामिनीभिर्या तुङ्गहर्म्याग्रविलासशय्या। चतुःसमं यन्मृगनाभिगर्भं सा वारिदत्तौः प्रथमातिथेयी॥ १ V चुम्बँल्लङ्का० २ V सूच. ३ V गर्भ. ४ V B & V C किल कामिनीभिः.