काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 156, कुल 381 में से
संदर्भ में पढ़ेंकविरहस्ये अष्टादशोऽध्यायः । १०१ चलच्चटुलचातकः कृतकुरङ्गरागोदयः सदर्दुररवोद्यमो मदभरप्रगल्भोरगः । शिखण्डिकुलताण्डवामुदितमद्गुकङ्काहयो वियोगिषु घनागमः स्मरविषं विषं मुञ्चति ॥ दलत्कुटजकुड्मलः स्फुटितनीपपुष्पोत्करो ५ धवप्रसवबान्धवः प्रचितमञ्जरीकार्जुनः । कदम्बकलुषाम्बरः कलितकेतकीकोरक- श्चलन्निचुलसञ्चयो हरति हन्त घर्मात्ययः ॥” वर्षाः ॥ “१द्राग्ग(क्त)र्जयन्ती विमदान्मयूरान्प्रगल्भयन्ती कुररद्विरेफान् । १० शरत्समभ्येति विकास्य पद्मानुन्मीलयन्ती कुमुदोत्पलानि ॥ सा भाति पुष्पाणि २निवेशयन्ती बन्धूकबाणासनकुङ्कुमेषु । शेफालिकासप्तपलाशकाशभाण्डीरसौगन्धिकमालतीषु ॥ सखञ्जरीटा सपयःप्रसादा सा कस्य नो मानसमाच्छिनत्ति । कादम्बकारण्डवचक्रवाकससारसक्रौञ्चकुलानुयाता ॥ १५ उपानयन्ती कलहंसयूथमगस्त्यदृष्ट्या पुनती पयांसि । मुक्तासु शुभ्रं दधती च गर्भं शरद्विचित्रैश्चरितैश्चकास्ति ॥ क्षितिं खनन्तो वृषभाः खुराग्रै रोधो विषाणैर्द्विरदा रदन्तः । शृङ्गं त्यजन्तो रुरवश्च जीर्णं कुर्वन्ति लोकानवलोकनोत्कान् ॥ अभ्रावदातद्युति चन्द्रिकाम्बु नीलावभासं च नभः समन्तात् । २० ३सुरेभवथी दिवसावतारो ४जीर्णाभ्रखण्डानि च पाण्डुराणि ॥ महानवम्यां निखिलास्त्रपूजा नीराजना वाजिभटद्विपानाम् । दीपालिकायां विविधा विलासा यात्रोन्मुखैरत्र नृपैर्विधेयाः ॥ व्योम्नि तारतरतारकोत्करः स्यन्दनप्रचरणक्षमा मही । भास्करः शरदि दीप्रदीधितिर्बुध्यते च सह माधवः सुरैः ॥ २५ केदार एव कलमाः परिणामनम्राः प्राचीनमामलकमर्हति पाकनीलम् । १ V B प्रोन्मादयन्ती. V C प्रोन्मोदयन्ती. २ V B & V C विशेषयन्ती. ३ V सुरे- भवीथी दिवि सावदारा. ४ V B & V C जीर्णाब्जखण्डानि.