काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 165, कुल 381 में से
संदर्भ में पढ़ें११२ अष्टादशोऽध्यायः। लकुचाद्यन्तर्व्याजं तथा बहिर्व्याजमत्र मोचादि । आम्राद्युभयव्याजं सर्वव्याजं च ककुभादि ॥ पनसादि बहुव्याजं नीलकपित्थादि भवति निर्व्याजम् । सकलफलानां षोढा ज्ञातव्यः कविभिरिति भेदः ॥ एकद्वित्र्यादिभेदेन सामस्त्येनाथवा ऋतून् । प्रबन्धेषु निबध्नीयात्क्रमेण व्युत्क्रमेण वा ॥ न च व्युत्क्रमदोषोऽस्ति कवेरर्थपथस्पृशः । तथा कथा कापि भवेद् व्युत्क्रमो भूषणं यथा ॥ अनुसन्धानशून्यस्य भूषणं दूषणायते । सावधानस्य च कवेर्दूषणं भूषणायते ॥ इति कालविभागस्य दर्शिता वृत्तिरीदृशी । कवेरिह महान्मोह इह सिद्धो महाकविः ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे कालविभागो नाम अष्टादशोऽध्यायः ॥ समाप्तमिदं प्रथममधिकरणं कविरहस्यं काव्यमीमांसायाम् ॥ १ V कपिच्छादि.