काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 293, कुल 381 में से
संदर्भ में पढ़ें238 EXPLANATORY NOTES दानवास्तु विप्रचित्तिः शम्भरो नमुचिस्तथा । पुलोमादयोऽथ दैत्या हिरण्याख्यो विरोचनः ॥ बाणो हिरण्यकशिपुर्बलिप्रह्लादकादयः । अथासुरा वृषपर्वबलवृत्रादयः स्मृताः ॥ स्त्रीणामक्ष्णः कटाक्षाणां शुक्लता कृष्णताऽथवा । कृष्णताप्यथवा शुक्लश्यामता शुक्लकृष्णता ॥ बहुकालजन्मनोऽपि शिवचन्द्रस्य बालता । मनोभवस्य मूर्त्तत्वममूर्त्तत्वं च वर्ण्यते ॥ देवदेवीस्थितिं विद्यान्नायिकानायकक्रमम् । स्वभावान् सर्वजीवानां व्यवस्था देशकालयोः ॥ अमर—काव्यकल्पलतावृत्ति—द्वितीयप्रतान pp. 30–31. असतोऽपि निबन्धेनानिबन्धेन सतोऽपि वा । नियमेन च जात्यादेः कवीनां समयस्त्रिधा ॥ असतोऽपि निबन्धो यथा— रत्नानि यत्र तत्राद्रौ हंसास्त्वल्पजलाशये । जलेभायं नभोनद्यामम्भोजातं नदीष्वपि ॥ तिमिरस्य तथा मुष्टिग्राह्यत्वं सूचिभेद्यता । अञ्जलिग्राह्यता कुम्भोपवाह्यत्वं शशित्विषः ॥ शुक्लत्वं कीर्त्तिहासादौ कार्ण्यं चाकीर्त्तिपापयोः । प्रतापे रक्ततोष्णत्वे रक्तत्वं क्रोधरागयोः ॥ विभावर्यां भिन्नतटाश्रयणं चक्रवाकयोः । ज्योत्स्नापानं चकोराणां चतुष्करत्वं पयोनिधेः ॥ सतोऽप्यनिबन्धो यथा— वसन्ते मालतीपुष्पं फलपुष्पे च चन्दने । अशोके च फलं ज्योत्स्नाध्वान्ते कृष्णान्यपक्षयोः ॥ कामिदन्तेषु कुन्दानां मुकुलेषु च रक्तता । हरितत्वं दिवा नीलोत्पलानाञ्च विकासिता ॥ वर्णयेन्न सदप्येतन्नियमोऽथ प्रकाश्यते । नियमो यथा— भूर्जत्वग्धिमवत्येव मलये ह्येव चन्दनम् ॥ सामान्यग्रहणे शौक्ल्यं छत्राम्भःपुष्पवाससाम् । कृष्णत्वं केशकाकाहिपयोनिधिपयोमुचाम् ॥ रक्तत्वं रक्तबन्धूकबिम्बाम्भोजविवक्षताम् । तथा वसन्त एवान्यपुष्टानां कलकूजितम् ॥ वर्षास्वेव मयूराणां रुतं नृत्यं च वर्णयेत् । नियमस्य विशेषोऽथ पुनः कश्चित् प्रकाश्यते ॥ नियमविशेषो यथा— कमलासम्पदोः कृष्णहरितोर्नागसर्पयोः । पीतलोहितयोः स्वर्णपरागाग्निशिखादिषु ॥