काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 292, कुल 381 में से
संदर्भ में पढ़ेंरवं नाट्यं मयूराणां वर्षास्वेव विवर्णयेत् । नियमस्य विशेषोऽन्यः कश्चिदत्र प्रकाश्यते ॥ शुभ्रमिन्द्रद्विपं ब्रूयात्त्रीणि सप्त चतुर्दश । भुवनानि चतस्रोऽष्टौ दश वा ककुभो मताः ॥ जिनसेन अलङ्कारचिन्तामणि—pp. 7 & 8. असतोऽपि निबन्धेनानिबन्धेन सतोऽपि च । नियमेन च जात्यादेः कवीनां समयस्त्रिधा ॥ असतोऽपि निबन्धो यथा— रत्नादि यत्र तत्राद्रौ हंसाद्यल्पजलाशये । जलेभार्थं नभोनद्यामम्भोजातं नदीष्वपि ॥ तिमिरस्य तथा मुष्टिग्राह्यं सूचीविभेद्यताम् । अञ्जलिग्राह्यता कुम्भोपवाह्यत्वे विधुत्विषः । शुक्लं कीर्त्तिहासादौ कार्ण्यं दुष्कीर्त्यघादिषु । प्रतापे रक्ततोष्णत्वे रक्तत्वं क्रोधरागयोः ॥ विभावर्यां भिन्नतटाश्रयणं चक्रवाकयोः । ज्योत्स्नापानं चकोराणां वर्णयेदसद्प्यदः ॥ चतुर्भिः कलापकम् । सतोप्यनिबन्धो यथा— वसन्ते मालतीपुष्पं फलं पुष्पं च चन्दने । अशोके च फलं ज्योत्स्नाध्वान्ते कृष्णान्यपक्षयोः ॥ कामिदन्तेषु कुन्दानां कुड्मलेषु च रक्तताम् । प्रियङ्गुपुष्पे पीतत्वं सरोजमुकुलादिषु ॥ हरितत्वं दिवा नीलोत्पलानां स्मेरता दिवा । शेफालिकासुमे भ्रंशं वर्णयेन्न सदप्यदः ॥ त्रिभिर्विशेषकम् । नियमो यथा— मुक्तास्ताम्रपर्ण्यामेवाब्धिष्वेव मकरानपि । भूर्जद्रून् हिमवत्येव मलये ह्येव चन्दनम् ॥ सामान्यग्रहणे वारिमुचां कृष्णत्वमेव हि । रक्तत्वमेव रत्नानां पुष्पाणां शौक्ल्यमेव च ॥ तथा वसन्त एवान्यभृतानां ध्वनितोद्भवम् । वर्षास्वेव मयूराणां रुतं नृत्तं च वर्णयेत् ॥ त्रिभिर्विशेषकम् । नियमविशेषो यथा— नीलकृष्णयोर्हरितकृष्णयोः श्यामकृष्णयोः । पीतपाटलयोः शुक्लाङ्गारयोर्नागसर्पयोः ॥ महार्णवसागरयोः क्षीरक्षारसमुद्रयोः । कमलासम्पदोः कामध्वजे मकरमत्स्ययोः ॥ द्वादशानामप्यर्काणां वार्ध्यग्निदृग्जचन्द्रयोः । चन्द्रे शशैनयोर्विष्णौशेषकूर्मादिकस्य च ॥ नारायणदामोदरमाधवप्रभृतेरपि । दानवासुरदैत्यानामैक्यमेवाभिसम्मतम् ॥ चतुर्भिः कलापकम् ।