भारतकोश
काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

पृष्ठ 291, कुल 381 में से

संदर्भ में पढ़ें
पृष्ठ 291

236 EXPLANATORY NOTES l. 17. Sarasvatīkaṇṭhābharaṇa reads त्वं नागराज instead of हे नागराज. *[ l. 19. Read सोढाऽविषह्यवृषवाहनयोगलीलापर्यङ्कबन्धनविधेस्तव । quoted in सरस्वतीकण्ठाभरण II. l. 24. जयन्ति बाणासुर. कादम्बरी. 2.] Page. 89.

  • [ अस्ति दैत्यो. first verse of हयग्रीववध of भर्तृमेण्ठ, दानवाधिपते and महासु- रसमाजेऽस्मिन् seem to be from the same work. One more verse विनिर्गतं मानद. is quoted in काव्यप्रकाश. कविसमय of वामन is different from that of राजशेखर. The following quotations will explain the कविसमय and show how far the later writers of कविशिक्षा were indebted to राजशेखर for this. कवीनां समयस्त्रेधा निबन्धोऽप्यसतस्सतः । अनिबन्धस्स जात्यादेर्नियमेन समासतः ॥ असतोऽपि निबन्धो यथा— गिरौ रत्नादि हंसादि स्तोकपद्माकरादिषु । नीरेभार्थं खगङ्गायां जलजाद्यं नदीष्वपि ॥ तमसः सूचिभेद्यत्वं मुष्टिग्राह्यत्वमुच्यते । अञ्जलिग्राह्यता चन्द्रत्विषः कुम्भोपवाह्यता ॥ प्रतापे रक्ततोष्णत्वे कीर्त्तौ हंसादिशुभ्रता । कृष्णत्वमपकीर्त्यादौ रक्तत्वं कोपरागयोः ॥ चतुष्ट(ष्क)त्वं समुद्रस्य वियोगः कोकयोर्निशि । चकोराणां सुराणां च ज्योत्स्नावासो निगद्यते ॥ रमायाः पद्मवासित्वं राज्ञो वक्षसि च स्थितिः । समुद्रमथनं तत्र सुरेन्ध्रीसमुद्भवः ॥ सतोऽप्यनिबन्धो यथा— चन्दने फलपुष्पे च सुरभौ मालतीसुमम् । शुक्ले पक्षे तमोऽशुक्ले ज्योत्स्ना फलमशोकके ॥ रक्तिमा कामिदन्तेषु हरितत्वं च कुन्दके । दिवा निशोत्पलाब्जानां विकासित्वं न वर्ण्यताम् ॥ नियमेन निबन्धो यथा— सामान्येन तु धावल्यं पत्रपुष्पाम्बुवाससाम् । चन्दनं मलयेष्वेव मधावेव पिकध्वनिम् ॥ अम्बुदाम्बुधिकाकाहिकेशभृङ्गेषु कृष्णताम् । बिम्बबन्धूकनीरेषु सूर्यबिम्बे च रक्तताम् ॥