काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 300, कुल 381 में से
संदर्भ में पढ़ेंSEVENTEENTH ADHYĀYA 245 the whole of the peninsula to the south of the Narbada and the Mahānadī rivers. Cunningham's "The Ancient Geography of India" pp. 11-12. For the various countries cf. नक्षत्रत्रयवर्गैराग्नेयाद्यैर्व्यवस्थितैर्नवधा । भारतवर्षे मध्यात् प्रागादिविभाजिता देशाः ॥ १ ॥ भद्रारिमेदमाण्डव्यसाल्वनीपोज्जिहानसङ्ख्याताः । मरुवत्सघोषयामुनसारस्वतमत्स्यमाध्यमिकाः ॥ २ ॥ माथुरकोपज्योतिषधर्मारण्यानि शूरसेनाश्च । गौरग्रीवोद्देहिकपाण्डुगुडाश्वत्थपाञ्चालाः ॥ ३ ॥ साकेतकङ्ककुरुकालकोटिक्कुकुराश्च पारियात्रनगः । औदुम्बरकापिल्ठलगजाह्वयाश्चेति मध्यमिवम् ॥ ४ ॥ अथ पूर्वस्यामञ्जनवृषभध्वजपद्ममाल्यवद्गिरयः । व्याघ्रमुखसुह्मकर्वटचान्द्रपुराः शूर्पकर्णाश्च ॥ ५ ॥ खसमगधशिबिरगिरिमैथिलसमतटोड्राश्ववदनदन्तुरकाः । प्राग्ज्योतिषलौहित्यक्षीरोदसमुद्रपुरुषादाः ॥ ६ ॥ उदयगिरिभद्रगौडकपौण्ड्रोत्कलकाशिमेकळाम्बष्ठाः । एकपदताम्रलिप्तककोशलका वर्धमानाश्च ॥ ७ ॥ आग्नेय्यां दिशि कोशलकलिङ्गवङ्गोपवङ्गजठराङ्गाः । शौलिकाविदर्भवेत्सान्ध्रचेदिकाश्चोर्ध्वकण्ठाश्च ॥ ८ ॥ वृषनालिकेरचर्मद्वीपा विन्ध्यान्तवासिनस्त्रिपुरी । श्मश्रुधरहेमकुड्यव्यालग्रीवा महाग्रीवाः ॥ ९ ॥ किष्किन्धकण्टकस्थलनिषादराष्ट्राणि पुरिकदशार्णाः । सह नग्नपर्णशबरैराश्लेषाये त्रिके देशाः ॥ १० ॥ अथ दक्षिणेन लङ्का कालाजिनसौरिकीर्णतालिकाटाः । गिरिनगरमलयदर्दुरमहेन्द्रमालिन्यभरुकच्छाः ॥ ११ ॥ कङ्कणटङ्कणवनवासिशिबिकफणिकारकोङ्कणाभीराः । आकरवेणावन्तीकदशपुरगोर्नर्दकेरलकाः ॥ १२ ॥ कर्णाटमहाटविचित्रकूटनासिक्क्यकोल्लगिरिचोलाः । क्रौञ्चद्वीपजटाधरकावेर्यो ऋष्यमूकश्च ॥ १३ ॥ वैडूर्यशङ्खमुक्तात्रिवारिचरधर्मपट्टनद्वीपाः । गणराज्यकृष्णवेल्लूरपिशिकशूर्पाद्रिकुसुमनगाः ॥ १४ ॥ तुम्बवनकार्मेणेयकयाभ्योदधितापसाश्रमा ऋषिकाः । काञ्चीमरुचीपट्टनचेर्यार्यकसिंहलऋषभाः ॥ १५ ॥ बलदेवपट्टनं दण्डकावनतिमिङ्गिलाशना भद्राः । कच्छोऽथ कुञ्जरदरी सताम्रपर्णीति विज्ञेयाः ॥ १६ ॥ नैर्ऋत्यां दिशि देशाः पल्लवकाम्बोजसिन्धुसौवीराः । वडवामुखारबाम्बष्ठकपिलनारीमुखानर्त्ताः ॥ १७ ॥ फेणगिरियवनमाकरकर्णप्रावेयपारशवशूद्राः ।