काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 302, कुल 381 में से
संदर्भ में पढ़ेंSEVENTEENTH ADHYĀYA 247 तुषधान्यकटुकतरुकनकदहनविषसमरशूराणाम् ॥ ४ ॥ गिरिसलिलदुर्गकोशलभरुकच्छसमुद्ररोमकतुखाराः । वनवासितहणहलस्त्रीराज्यमहार्णवद्वीपाः ॥ ६ ॥ शोणस्य नर्मदाया भीमरथायाश्च पश्चिमाद्धस्थाः । निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा ॥ ९ ॥ मन्दाकिनी पयोष्णी महानदी सिन्धुमालतीपाराः । उत्तरपाण्ड्यमहेन्द्राद्रिविन्ध्यमलयोपगाश्चोलाः ॥ १० ॥ द्रविडविदेहान्ध्राश्मकभासापुरकौङ्कणाः समऋषिकाः । कुन्तलकेरलदण्डककान्तिपुरमलेच्छसङ्करजाः ॥ ११ ॥ नासिक्यभोगवर्धनविराटविन्ध्याद्रिपार्श्वगा देशाः । ये च पिबन्ति सुतोयां तापीं ये चापि गोमतीसलिलम् ॥ १२ ॥ लौहित्यः सिन्धुनदः सरयूर्गम्मीरिका रथाङ्गा च । गङ्गाकौशिक्याद्याः सरितो वैदेहकाम्बोजाः ॥ १६ ॥ मथुरायाः पूर्वार्ध हिमवद्रोमन्तचित्रकूटस्थाः । सौराष्ट्रसेतुजलमार्गपण्यबिलपर्वताश्रयिणः ॥ १७ ॥ चरपुरुषकुहकजीवकशिशुकविशठसूचकाभिचाररताः । दूतनपुंसकहास्यज्ञभ्रमतन्त्रेन्द्रजालज्ञाः ॥ १९ ॥ सिन्धुनदपूर्वभागो मथुरापश्चार्धभरतसौवीराः । सुस्रोदीच्यविपाशासरिच्छतद्रूरमठसाल्वाः ॥ २१ ॥ त्रैगर्तपौरवाम्बष्ठपारता वाटधानयौधेयाः । सारस्वताजुनायनमत्स्यार्द्धग्रामराष्ट्राणि ॥ २२ ॥ तक्षशिलमार्तिकावतबहुगिरिगान्धारपुष्कलावटकाः । प्रस्थलमालवकैकयदाशार्णोशीनराः शिवयः ॥ २६ ॥ ये च पिबन्ति वितस्तामिरावतीं चन्द्रभागसरितं च । रथरजताकरकुञ्जरतुरगमहामात्रधनयुक्ताः ॥ २७ ॥ आनर्त्तार्वुदपुष्करसौराष्ट्राभीरशूद्ररैवतकाः । नष्टा यस्मिन्देशे सरस्वती पश्चिमो देशः ॥ ३१ ॥ कुरुभूमिजाः प्रभासं विदिशावेदमृतीमहीतटजाः । खलमलिननीचतैलिकविहीन सत्त्वोपहतपुंस्वाः ॥ ३२ ॥ गिरिदुर्गपल्लवश्वेतहूणचोलावगणमरुचीनाः । प्रत्यन्तधनिमहेच्छव्यग्रमायपराक्रमोपेताः ॥ ३८ ॥ बृहत्संहिता—Chap. XVI. cf. also the quotations from पराशर in Bhaṭṭotpala's commentary ad loc. cf. also महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ॥ भारतस्यास्य वर्षस्य नव भेदान्निशामय । इन्द्रद्वीपः कसेरुमान् ताम्रपर्णी गभस्तिमान् ॥