काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 31, कुल 381 में से
संदर्भ में पढ़ेंINTRODUCTION. XXIX Some particulars about the ancestry of the author can be gathered from his dramas. He is very proud of his family and his literary देव्याः सरोजदलधामनि हंसपृष्ठे लीलायितं चरणयोर्दितयेन यस्याः । सा किं रमाभिषनिषण्णविलोचनेषु चिल्हाविषेषु ............टं करोति ॥ योऽप्यस्ति लोकतिलकः क्षितिषेषु कश्चिदेकः कृती स्वयमसावनुपासितोऽपि । निर्मथ्य पन्नगधनाथ इव द्विजिल्हान् क्षिप्तामृतं नभसि नेष्यति काव्यकुम्भम् ॥ ये नाम केचिदमुना कवितारसेन व्यासादयः कृतधियो भुवनेषु सिद्धाः । तेषामुपासितपदाः कवयः किमन्यदासादयन्ति परमत्र सुवर्णसिद्धिम् ॥ बाणस्य हर्षचरिते निशितामुदीक्ष्य शक्तिं न केऽत्र कवितास्त्रमदं त्यजन्ति । मान्यं न कस्य च कवेरिह कालिदासवाचां रसेन रसितस्य भवत्यवृष्यम् ॥ 1 Uchchhvāsa. आसीदसीमस्फुरितोरुधामा वाल्मीकिरग्रण्यतमो मुनीनाम् । निर्वाणमार्गैकमहाध्वगोऽपि सम्पर्कतः कापि न यो रजोभिः ॥ ब्राह्मीनिवासात्सुमितः स साक्षाद्देवः स्वयंभूरिति कीर्तितो यः । कोऽन्यः क्रमस्थापितवर्णसारां सृष्टिं कृती काव्यमयीं चकार ॥ छन्दोविचित्रेर्निहितैः क्रमेण पदैः समन्तान्मसृणीकृतोऽन्तः । निषेव्यते वर्णमहाटवीषु यस्यैष दिग्व्यैरपि काव्यमार्गः ॥ वंशः कवीनामुदियाय तस्मान्मूर्ध्ना धृतो भूमिभृतां गणेन । अच्छिद्रितेऽपि त्रिदशप्रतोर्ष्या वाणीगुणः स्फूर्जति कोऽपि यत्र ॥ यस्मिन्नभूदग्रभवः कवीनां व्यासो मुनिर्यस्य गुणैर्विजेतुः । ध्वजच्छटेवोन्नतसोमवंशमालम्बिता वल्गति भारते गीः ॥ कविर्गुणाढ्यः स च येन सृष्टा बृहत्कथा प्रीतिकरी जनानाम् । या संविधानेषु सुसन्धिवन्ध्यैः निपीड्यमानेव रसं प्रसूते ॥ स कश्चिदालेख्यकरः कविले प्रसिद्धनामा भुवि भर्तृमेण्ठः । रसप्लवेऽपि स्फुरति प्रकाभं वर्णेषु यस्योज्ज्वलना तथैव ॥ ख्यातः कृती सोऽपि च कालिदासः शुद्धा सुधास्वादुमती च यस्य । वाणीमिषाच्चण्डमरीचिगोत्रसिन्धोः परं पारमवाप कीर्तिः ॥ बाणः कवीनामपि चक्रवर्ती चकास्ति यस्योज्ज्वलवर्णशोभम् । एकातपत्रं भुवि पुष्पभूतिवंशश्रयं हर्षचरित्रमेव ॥ मान्यो जगत्त्यां भवभूतिरार्यः सारस्वते वर्त्मनि सार्थवाहः । वाचं पताकामित्र यस्य दृष्ट्वा जनः कवीनामनुपृष्ठमेति ॥ सामन्तजन्मापि कवीश्वराणां महत्तमो वाक्पतिराजसूरिः । यश्छाययाप्यन्यमपीडयन्सन्नुत्पादयत्यर्थमनन्यदृष्टम् ॥ वन्द्यः स विद्वानभिनन्दनामा विश्रम्भपात्रं च वचोधिदेव्याः । समर्पिता यस्य खलु स्वकीयकोशाधिकारेषु सुवर्णमुद्रा ॥ यायावरः प्राज्ञवरो गुणज्ञैराशंसितः सूरिसमाजवर्यैः । नृत्यत्युदारं भणिते गुणस्था नटीव यस्योदरसा पदश्रीः ॥ बभूवुरन्येऽपि कुमारदासभासादयो हन्त कवीन्दवस्ते । यदीयगोभिः कृतिनां द्रवन्ति चेतांसि चन्द्रोपलनिर्मलानि ॥ तस्मिन्सुवंशे कविमौक्तिकानामुत्पत्तिभूमौ कचिदेकदेशे । किञ्चित्कविः सोढल इत्यजातनिष्पत्तिरासीज्जलबिन्दुरेव ॥ यो वत्सराजेन वरेण राज्ञां लाटावनीमण्डननायकेन । सूक्ष्मावृढस्तोकगुणाश्रितोऽपि मिश्रीकृतो भानुमतेव पद्मः ॥