काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 53, कुल 381 में से
संदर्भ में पढ़ेंSUMMARY. LI स्वीकरणापरनामधेयं हरणम् । तद्वदर्थप्रयोगे व्यस्तार्थप्रयोगे च । पाद एवान्यथात्व- करणं पादोनहरणं वा न स्वीकरणम्। भिन्नार्थानां पादानामेकेन पादेनान्वयनं कवि- त्वमेव, तद्वत् कतिपयपदैकदेशप्रयोगौ । वाक्यस्यान्यथा व्याख्यानमपि न स्वीकरणं हरणं वा । परकीयस्य स्वीयत्वेन विल्पनं दोषोदाहरणम् । मूल्यक्रयोऽपि हरणम् । नास्त्यचौरः कविजनः, परं तु यो निगूहितुं जानाति, स विना वाच्यं नन्दति । कविः कश्चिदुत्पादकः, कश्चित्परिवर्तकः, कश्चिदाच्छादकः, कश्चित्संवर्गकः, परं तु यः शब्दार्थोक्तिषु किञ्चन नूतनं पश्येत् , प्राच्यं किञ्चन चोल्लिखेत् , स महाकविः। p. 62 द्वादशोऽध्यायः अर्थहरणस्य विचारः । अन्ययोनिर्निह्नुतयोनिरयोनिरिति त्रयो भेदाः । अन्ययो- निर्द्विधा प्रतिबिम्बकल्प आलेख्यप्रख्यश्च । निह्नुतयोनिरपि द्विधा तुल्यदेहितुल्यः पर- पुरप्रवेशसदृशश्च । अयोनिः पुनरेकादश एव । व्याख्या उदाहरणानि च प्रतिबिम्ब- कल्पादिचतुर्णामर्थानाम् । अमीषामर्थानामयस्कान्तवद्धान्वर्थाः भ्रामकचुम्बककर्षक- द्रावकाः चत्वारः लौकिकाः कवयः । पञ्चमश्च चिन्तामणिरलौकिकोऽदृष्टचरार्थदर्शी । तेषां व्याख्याः । चिन्तामणेः लौकिकालौकिकमिश्रत्वेन त्रयो भेदाः । तेषामुदाहर- णानि । प्रतिबिम्बकल्पादिचतुर्णामर्थानां प्रत्येकमाष्टक्यवशाद्द्वात्रिंशद्धरणोपायाः । तत्र प्रतिबिम्बकल्पस्याष्टौ विकल्पाः व्यस्तकः, खण्डं, तैलबिन्दुः, नटनेपथ्यं, छन्दोविनिमयः, हेतुव्यत्ययः, सङ्क्रान्तकं, सम्पुटश्च । तेषामुदाहरणानि । सोऽयं कवेरकवित्वदायी सर्वथा प्रतिबिम्बकल्पः परिहरणीयः । p. 68 त्रयोदशोऽध्यायः आलेख्यप्रख्यतुल्यदेहितुल्यपरपुरप्रवेशसदृशानां प्रत्येकमष्टौ भेदाः । तत्र सम- क्रमः, विभूषणमोषः, व्युत्क्रमः, विशेषोक्तिः, उत्तंसः, नटनेपथ्यम्, एकपरिकार्यः, प्रत्यापत्तिः इति आलेख्यप्रख्यस्य अष्टौ भेदाः । विषयपरिवर्तः, द्वन्द्वविच्छित्तिः, रत्नमाला, सङ्ख्योल्लेखः, चूलिका ( संवादिनी विसंवादिनीति द्विरूपा ), विधानाप- हारः, माणिक्यपुञ्जः, कन्द इति तुल्यदेहितुल्यस्याष्टौ भेदाः । अनयोर्मार्गयोरनुग्रा- ह्यत्वम् । हुडुयुद्धं, प्रतिकञ्चुकं, वस्तुसंचारः, धातुवादः, सत्कारः, जीवञ्जीवकः, भावमुद्रा, तद्विरोधी इति परपुरप्रवेशसदृशस्य अष्टौ भेदाः इति द्वात्रिंशद्धर- णोपायाः । अर्थवैपरीत्येन च तेषां प्रतियोगिनः । एतेषां हानोपादानविज्ञाने कवित्वम् । p. 78