काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 54, कुल 381 में से
संदर्भ में पढ़ेंLII SUMMARY. चतुर्दशोऽध्यायः कविसमयलक्षणम्। स्वर्ग्यभौमपातालीयभेदैः कविसमयत्रैविध्यम्। तेषां मध्ये भौमस्य जातिद्रव्यगुणक्रियारूपतया चतुष्प्रकारत्वम्। तेषां प्रत्येकमसतो निबन्धनात्, सतोऽप्यनिबन्धनान्, नियमतश्चेति त्रैविध्यम्। p. 82 पञ्चदशोऽध्यायः गुणसमयस्यापि असतो गुणस्य निबन्धनं सतोप्यनिबन्धनं, नियमतश्चेति त्रैविध्यम्। p. 86 षोडशोऽध्यायः भौमवत्स्वर्ग्योऽपि कविसमयः, विशेषस्तु चन्द्रमसि ऐक्यकल्पनादि। भौम- स्वर्ग्यवत् पातालीयः कविसमयः। विशेषस्तु नागसर्पयोः दैत्यदानवासुराणां च ऐक्यकल्पनम्। p. 89 सप्तदशोऽध्यायः जगत एकद्वित्रिसप्तचतुर्दशैकविंशतिरिति पृथक् पृथक् कल्पनाभेदेन भेदाः। भूलोकस्य द्वीपाः समुद्राश्च। जम्बूद्वीपस्य वर्षाणि वर्षगिरयश्च। भारतवर्षस्य नव भेदाः सम्राट्सूचक्रवर्तिनोर्व्याख्ये। आर्यावर्तस्य पूर्वदेशो, दक्षिणापथः, पश्चाद्देशः, उत्तरापथः, मध्यदेशश्चेति पञ्च विभागाः। विभागपञ्चके जनपदानां, पर्वतानां, सरितामुत्पन्नद्रव्याणां च निर्देशः। दिग्विचारः। पौरस्त्यदाक्षिणात्यपाश्चात्योदी- च्यानां देहवर्णनियमः। p. 98 अष्टादशोऽध्यायः सौरचान्द्रमसे माने। ऋतुषु वायुदिग्विचारः। वर्षाधर्मवर्णनम्। शरद्धर्मवर्ण- नम्। हेमन्तधर्मवर्णनम्। शिशिरधर्मवर्णनम्। वसन्तधर्मवर्णनम्। ग्रीष्मधर्मवर्णनम्। सन्धिः, शैशवः, प्रौढिः, अनुवृत्तिश्चेति ऋतूनां चतस्रोऽवस्थाः। तासामुदाहरणानि। शोभान्भोगगन्धरसैः फलार्चनाभ्यां च पुष्पस्य षोढा उपयोगः। अन्तर्व्याजं, बहिर्व्याजं, बाह्यान्तर्व्याजं, सर्वव्याजं, बहुव्याजं, निर्व्याजमिति फलानां षोढा भेदः। p. 112