काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 55, कुल 381 में से
संदर्भ में पढ़ेंॐ राजशेखरविरचिता काव्यमीमांसा। कविरहस्यम्। प्रथमोऽध्यायः शास्त्रसङ्ग्रहः। अथातः काव्यं मीमांसिष्यामहे यथोपदिदेश श्रीकण्ठः परमेष्ठि- वैकुण्ठादिभ्यश्चतुःषष्टये शिष्येभ्यः, सोऽपि भगवान्स्वयम्भूरिच्छा- जन्मभ्यः स्वान्तेवासिभ्यः । तेषु सारस्वतेयो वृन्दीयसामपि वन्द्यः काव्यपुरुष आसीत्। तं च सर्वसमयविदं दिव्येन चक्षुषा भविष्य- दर्थदर्शिनं भूर्भुवःस्वस्त्रितयवर्त्तिनीषु प्रजासु हितकाम्यया प्रजापतिः काव्यविद्याप्रवर्त्तनायै प्रायुङ्क । सोऽष्टादशाधिकरणं दिव्येभ्यः काव्यविद्यास्नातकेभ्यः सप्रपञ्चं प्रोवाच। तत्र कविरहस्यं सहस्राक्षः समाम्नासीत्, औक्तिकमुक्तिगर्भः, रीतिनिर्णयं सुवर्णनाभः, आनुप्रा- सिकं प्रचेतायनः, यमकानि चित्रं चित्राङ्गदः, शब्दश्लेषं शेषः, वास्तवं पुलस्त्यः, औपम्यमौपकायनः, अतिशयं पाराशरः, अर्थश्लेषमुतथ्यः, उभयालङ्कारिकं कुबेरः, वैनोदिकं कामदेवः, रूपकनिरूपणीयं भरतः, रसाधिकारिकं नन्दिकेश्वरः, दोषाधिकरणं धिषणः, गुणौपादानिक- मुपमन्युः, औपनिषदिकं कुचमारः इति ततस्ते पृथक् पृथक् स्वशा- स्त्राणि विरचयाञ्चक्रुः। इत्थङ्कारञ्च प्रकीर्णत्वात् सा किञ्चिदुच्छिच्छद इतीयं प्रयोजका(ना)ङ्गवती सङ्क्षिप्य सर्वमर्थमल्पग्रन्थेनाष्टादशाधि- करणी प्रणीता। तस्या अयं प्रकरणाधिकरणसमुद्देशः। शास्त्रसङ्ग्रहः १ चित्राङ्गद may go with यमकानि too, or all MSS may have omitted the name of the teacher of Yamakas.