काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 56, कुल 381 में से
संदर्भ में पढ़ेंशास्त्रनिर्देशः, काव्यपुरुषोत्पत्तिः, पदवाक्यविवेकः, पाठप्रतिष्ठा, अर्थानुशासनं, वाक्यविधयः, कविविशेषः, कविचर्या, राजचर्या, काकुप्रकाराः, शब्दार्थहरणोपायाः, कविसमयः, देशकालविभागः, भुवनकोश, इति कविरहस्यं प्रथममधिकरणमित्यादि । इति सूत्राण्यथैतेषां व्याख्या भाष्यं भविष्यति । समासव्यासविन्यासः सैष शिष्यहिताय नः ॥ चित्रोदाहरणैर्गुरु्वी ग्रन्थेन तु लघीयसी । इयं नः काव्यमीमांसा काव्यव्युत्पत्तिकारणम् ॥ इयं सा काव्यमीमांसा मीमांसा यत्र वाग्लवः । वाग्लवं न स जानाति न विजानाति यस्त्विमाम् ॥ यायावरीयः सङ्क्षिप्य मुनीनां मतविस्तरम् । व्याकरोत्काव्यमीमांसां कविभ्यो राजशेखरः ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे प्रथमोऽध्यायः शास्त्रसङ्ग्रहः ॥ द्वितीयोऽध्यायः शास्त्रनिर्देशः । इह हि वाङ्मयमुभयथा शास्त्रं काव्यं च । शास्त्रपूर्वकत्वात् का- व्यानां पूर्वं शास्त्रेष्वभिनिविशेत । नह्यप्रवर्त्तितप्रदीपास्तमसि तत्त्वा- र्थसार्थमध्यक्षयन्ति । तच्च द्विधा — अपौरुषेयं पौरुषेयं च । अपौरुषेयं श्रुतिः । सा च मन्त्रब्राह्मणे । विवृतक्रियातन्त्रा मन्त्राः । मन्त्राणां स्तुति- निन्दाव्याख्यानविनियोगग्रन्थो ब्राह्मणम् । ऋग्यजुःसामवेदास्त्रयी । अथर्वणश्च तुरीयः । तत्रार्थव्यवस्थितपादा ऋचः । ताः सगीतयः सा- मानि । अच्छन्दांस्यगीतानि यजूंषि । ऋचो यजूंषि (सामानि) चाथ- र्वणं त इमे चत्वारो वेदाः । इतिहासवेदधनुर्वेदौ गान्धर्वायुर्वेदौचापि चोपवेदाः । “वेदोपवेदात्मा सार्ववर्णिकः पञ्चमो गेयवेदः” इति द्रौहि- णिः । “शिक्षा, कल्पो, व्याकरणं, निरुक्तं, छन्दोविचितिः, ज्योतिषं च १ A. B. प्रदीपास्ते.