काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
पृष्ठ 72, कुल 381 में से
संदर्भ में पढ़ेंलज्जेव शूरस्य मृजेव यूनो विभूषणं तस्य नृपस्य सैव ॥” आख्यातकविर्यथा—"उच्चैस्तरां जहसुराजहृषुर्जगर्ज्रु- राजग्मिरे भुजतटीनिकरैः स्फुरद्भिः । सन्तुष्टुवुर्मुमुदिरे बहु मेनिरे च वाचं गुरोरमृतसम्भवलाभगर्भा॒म् ॥” नामाख्यातकविः—"हतत्विषोऽन्धाः शिथिलांसबाहवः श्रि(स्त्रि)यो विषादेन विचेतना इव । न चुक्रुशुर्नो रुरुदुर्न सस्वनु- र्न चेलुरासुर्लिखिता इव क्षणम् ॥” अर्थकविः—"देवी पुत्रमसूत नृत्यत गणाः किं तिष्ठतेत्युन्भुजे हर्षाच्छृङ्गिरिटावुदाहृतगिरा चामुण्डयाऽऽलिङ्गिते । पायाद्वो जितदेवदुन्दुभिघनध्वानप्रवृत्तिस्तयो- रन्योन्याङ्गनिपातजर्जरजरत्स्थूलास्थिजन्मा रवः ॥” द्विधाऽलङ्कारकविः शब्दार्थभेदेन । तयोः शब्दालङ्कारः— "न प्राप्तं विषमरणं प्राप्तमपापेन कर्मणा विषमरणम् । न मृतो भागीरथ्यां मृतोऽहमुपगृह्य मन्दभागी रथ्याम् ॥” अर्थालङ्कारः—"भ्रान्तजिह्वापताकस्य फणच्छत्रस्य वासुकेः । दंष्ट्राशलाकादारिद्र्यं कर्तुं योग्योऽस्ति मे भुजः ॥” उक्तिकविः—"उदरमिद़मनिन्द्यं मानिनीश्वासलैाव्यं स्तनतटपरिणाहो दोर्लतालेह्यसीमा । स्फुरति च वदनेन्दुर्दृक्प्रणालीनिपेय- स्तदिह सुदृशि कल्याः केलयो यौवनस्य ॥” यथा वा—"प्रतीच्छत्याशोकीं किसलयपरावृत्तिमधरः कपोलः पाण्डुत्वादवतरति ताडीपरिणतिम् । १ C जहसुरुजहृषु. २ C भुजतढानि करैः. ३ A रन्योन्याङ्क. ४ BC प्राप्तं पापेन कर्मणा विषमरणं च. ५ B लभ्यं.