काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
लज्जेव शूरस्य मृजेव यूनो विभूषणं तस्य नृपस्य सैव ॥” आख्यातकविर्यथा—"उच्चैस्तरां जहसुराजहृषुर्जगर्ज्रु- राजग्मिरे भुजतटीनिकरैः स्फुरद्भिः । सन्तुष्टुवुर्मुमुदिरे बहु मेनिरे च वाचं गुरोरमृतसम्भवलाभगर्भा॒म् ॥” नामाख्यातकविः—"हतत्विषोऽन्धाः शिथिलांसबाहवः श्रि(स्त्रि)यो विषादेन विचेतना इव । न चुक्रुशुर्नो रुरुदुर्न सस्वनु- र्न चेलुरासुर्लिखिता इव क्षणम् ॥” अर्थकविः—"देवी पुत्रमसूत नृत्यत गणाः किं तिष्ठतेत्युन्भुजे हर्षाच्छृङ्गिरिटावुदाहृतगिरा चामुण्डयाऽऽलिङ्गिते । पायाद्वो जितदेवदुन्दुभिघनध्वानप्रवृत्तिस्तयो- रन्योन्याङ्गनिपातजर्जरजरत्स्थूलास्थिजन्मा रवः ॥” द्विधाऽलङ्कारकविः शब्दार्थभेदेन । तयोः शब्दालङ्कारः— "न प्राप्तं विषमरणं प्राप्तमपापेन कर्मणा विषमरणम् । न मृतो भागीरथ्यां मृतोऽहमुपगृह्य मन्दभागी रथ्याम् ॥” अर्थालङ्कारः—"भ्रान्तजिह्वापताकस्य फणच्छत्रस्य वासुकेः । दंष्ट्राशलाकादारिद्र्यं कर्तुं योग्योऽस्ति मे भुजः ॥” उक्तिकविः—"उदरमिद़मनिन्द्यं मानिनीश्वासलैाव्यं स्तनतटपरिणाहो दोर्लतालेह्यसीमा । स्फुरति च वदनेन्दुर्दृक्प्रणालीनिपेय- स्तदिह सुदृशि कल्याः केलयो यौवनस्य ॥” यथा वा—"प्रतीच्छत्याशोकीं किसलयपरावृत्तिमधरः कपोलः पाण्डुत्वादवतरति ताडीपरिणतिम् । १ C जहसुरुजहृषु. २ C भुजतढानि करैः. ३ A रन्योन्याङ्क. ४ BC प्राप्तं पापेन कर्मणा विषमरणं च. ५ B लभ्यं.
कविरहस्ये पञ्चमोऽध्यायः । १९
परिम्लानप्रायामनुवदति दृष्टिः कमलिनी- मितीयं माधुर्यं स्पृशति च तनुत्वं च भजते ॥” रसकविः—"एतां विलोकय तनूदरि ताम्रपर्णी- मम्भोनिधौ विवृतशुक्तिपुटोद्गतानि । यस्याः पयांसि परिणाहिषु हारमूर्त्या वामभ्रुवां परिणमन्ति पयोधरेषु ॥” मार्गकविः—"मूलं बालकवीरुधां सुरभयो जातीतरूणां त्वचः सारश्चन्दनशाखिनां किसलयान्यर्दाण्यशोकस्य च । शैरीषी कुसुमोद्गतिः परिणमन्मोचं च सोऽयं गणः ग्रीष्मेणोष्महरः पुरा किल ददे दग्धाय पञ्चेषवे ॥” शास्त्रार्थकविः—"आत्माराम्रा विहितरतयो निर्विकल्पे समाधौ ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः । यं वीक्षन्ते
शसमकालं कवते स आवेशिकः। यो यदैवेच्छति तदैवाविच्छिन्न- वचनः सोऽविच्छेदी। यः कन्याकुमारादिषु सिद्धमन्त्रः सरस्वतीं सङ्क्रामयति स सङ्क्रामयिता। सततमभ्यासवशतः सुकवेः वाक्यं पाकमायाति। “कः पुनरयं पाकः?” इत्याचार्याः। “परिणामः” इति मङ्गलः। “कः पुनरयं प- रिणामः?” इत्याचार्याः। “सुपां तिङां च श्रवः यैषा व्युत्पत्तिः” इति मङ्गलः। “सौशब्द्यमेतत्। पदनिवेशनिष्कम्पता पाकः” इत्याचार्याः। तदाहुः— “आवापोद्धरणे तावद्यावद्दोलायते मनः। पदानां स्थापिते स्थैर्ये हन्त सिद्धा सरस्वती॥” “आग्रहपरिग्रहादपि पदस्थैर्यपर्यवसायस्तस्मात्पदानां परिवृत्ति- वैमुख्यं पाकः” इति वामनीयाः। तदाहुः— “यत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम्। तं शब्दन्याय(स)निष्णाताः शब्दपाकं प्रचक्षते॥” “इयमशक्तिर्न पुनः पाकः” इत्यवन्तिसुन्दरी। यदेकस्मिन्वस्तुनि महाकवीनामनेकोऽपि पाठः परिपाकवान्भवति। तस्माद्रसोचित- शब्दार्थसूक्तिनिबन्धनः(नं) पाकः। यदाह— “गुणालङ्काररीतियुक्तिशब्दार्थग्रथनक्रमः। स्वदते सुधियां येन वाक्यपाकः स मां प्रति॥” तदुक्तम्— “सति वक्तरि सत्यर्थे शब्दे सति रसे सति। अस्ति तन्न विना येन परिस्रवति वाङ्मधु॥” “कार्यानुमेयत्तया यत्तच्छब्दनिवेद्यः परं पाकोऽभिधाविषयः। त- त्सहृदयप्रसिद्धिसिद्ध एव व्यवहाराङ्गमसौ” इति यायावरीयः। स च कविग्रामस्य काव्यमभ्यस्यतो नवधा भवति। तत्राद्यन्तयो- रस्वादु पिचूमन्दपाकम्, आदावस्वादु परिणामे मध्यमं बदरपाकम्, आदावस्वादु परिणामे स्वादु मृद्वीकापाकम्, आदौ मध्यममन्ते चा- स्वादु वार्त्ताकपाकम्, आद्यन्तयोर्मध्यमं तिन्तिडीकपाकम्, आदौ १ A सिद्धिमन्त्रः. २ B संक्रमयति. ३ B संक्रमयिता. ४ BC श्रवः सैषा. ५ B अवापो०. ६ B च.
कविरहस्ये षष्ठोऽध्यायः । २१ मध्यममन्ते स्वादु सहकारपाकम्, आदावुत्तममन्ते चास्वादु क्रमुक- पाकम्, आदावुत्तममन्ते मध्यमं त्रपुसपाकम्, आद्यन्तयोः स्वादु नालिकेरपाकमिति । तेषां त्रिष्वपि त्रिकेषु पाकाः प्रथमे त्याज्याः । वरमकविर्न पुनः कुकविः स्यात् । कुकविता हि सोच्छ्वासं मरणम् । मध्यमाः संस्कार्याः । संस्कारो हि सर्वस्य गुणमुत्कर्षति । द्वादशव- ५ र्णमपि सुवर्णं पावकपाकेन हेमीभवति । शेषा ग्राह्याः । स्वभावशुद्धं हि न संस्कारमपेक्षते । न मुक्तामणेः शाणस्तारतायै प्रभवति । अन- वस्थितपाकं पुनः कपित्थपाकमामनन्ति । तत्र पलालधूननेन अन्न- कणलाभवत्सुभाषितलाभः । सम्यगभ्यस्यतः काव्यं नवधा परिपच्यते । १० हानोपादानसूत्रेण विभजेत्तद्धि बुद्धिमान् ॥ अयमत्रैव शिष्याणां दर्शितस्त्रिविधो विधिः । किन्तु वि(त्रि)विधमप्येतत्त्रिंजगलस्य(?) वर्त्तते ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे शिष्यविशेषेषु काव्यपाककल्पः पञ्चमोऽध्यायः ॥ १५ षष्ठोऽध्यायः पदवाक्यविवेकः । व्याकरणस्मृतिनिर्णीतः शब्दो निरुक्तनिघण्ट्वादिभिर्निर्दिष्टः। तद- भिधेयोऽर्थः। तौ पदम्। तस्य पञ्च वृत्तयः-सुब्वृत्तिः, समासवृत्तिः, तद्धितवृत्तिः कृद्वृत्तिः, तिङ्वृत्तिश्च । गौरश्वः पुरुषो हस्तीति जाति- वाचिनः शब्दाः । हरो हरिर्हिरण्यगर्भः काल आकाशं दिगिति २० द्रव्यवाचिनः । श्वेत्तः कृष्णो रक्तः पीत इति च गुणवाचिनः । प्राद्- यश्चादयश्चासत्त्ववचनाः । नगरमुप प्रस्थितः पन्थाः, वृक्षमन्व द्योतते विद्युदिति कर्मप्रवचनीयाः । “सेयं सुब्वृत्तिः पञ्चतथ्यपि वाङ्मयस्य माता” इति विद्वांसः । सुब्वृत्तिरेव समासवृत्तिः । व्याससमासा- १ B हारो. २ B त्रिभ्य···वर्त्तते. ३ B निर्घण्टादिभिः.
२२ काव्यमीमांसायाम्
वेवानयोर्भेदहेतुः। सा च षोढा द्वन्द्वादिभेदेन। तत्र षट्समासीस- माससूक्तम्— “द्वन्द्वोऽस्मि द्विगुरस्मि च गृहे न मे सतत॒मव्ययीभावः। तत्पुरुष कर्म धारय येनाहं स्यां बहुव्रीहिः॥” [5] तद्धितवृत्तिः पुनरनन्ता। तद्धि शास्त्रप्रायोवादो यदुत तद्धितमूढाः पाणिनीयाः[इति]। माञ्जिष्ठं रौचनिकं सौरं सैन्धवं वैयासीयमिति तद्धितान्ताः। प्रातिपदिकविषया चेयम्। कृद्वृत्तिश्च धातुविषया। कर्ता हर्ता कुम्भकारो नगरकार इति कृदन्ताः। तिङ्वृत्तिर्दशधा दशलकारीभेदेन। द्विधा च सा धातुसौधातुविषयत्वेन। अपाक्षीत् [10] पचति पक्ष्यतीति धातवीयान्याख्यातानि। अपल्लवयत् पल्लवयति पल्लवयिष्यतीति सौधातवीयानि। तदिदमित्थङ्कारं पञ्चप्रकारमपि पदजातं मिथः समन्वीयमानमा- नन्त्याय कल्पते। तज्जन्मा चैष¹ विदुषां वादो यत्किल दिव्यं समा- सहस्रं बृहस्पतिर्वक्ता शतक्रतुरध्येता² तथापि नान्तः शब्दराशेरा- [15] सीत्[इति]। तत्र दयितसुब्वृत्तयो विदर्भाः। वल्लभसमासगतयो³ गौडाः। प्रियतद्धिता दाक्षिणात्याः। कृतप्रयोगरुचय उदीच्याः। अभीष्टतिङ्वृत्तयः सर्वेऽपि सन्तः। तेषां च विशेषलक्षणानुसन्धा- नेनावर्द्धताख्यातगणः। उक्तञ्च— “विशेषलक्षणविदां प्रयोगाः प्रतिभान्ति ये। [20] आख्यातराशिस्तैरेष प्रत्यहं ह्युपचीयते॥” पदानामभिधित्सितार्थग्रन्थनाकरः सन्दर्भो वाक्यम्। “तस्य च त्रिधाऽभिधाव्यापारः” इत्यौद्भटाः। वैभक्तः शाक्तः शक्तिविभक्ति- मयश्च। प्रतिपदं श्रूयमाणासूपपदविभक्तिषु कारकविभक्तिषु वा वैभक्तः। लुप्तास्वपि विभक्तिषु समाससामर्थ्यात्तदर्थावगतौ [25] शाक्तः। उभयात्मा च शक्तिविभक्तिमयः। तत्र वैभक्तः— “नमस्तस्मै वराहाय लीलयोद्धरते महीम्। खुरयोर्मध्यगो यस्य मेरुः खणखणायते॥”
१ A च. २ A adds च. ३ B वृत्तयो.
कविरहस्ये षष्ठोऽध्यायः । २३ शाक्तः—"विभ्रस्तशत्रुः स्पृहयालुलोकः प्रपन्नसामन्त उदग्रसत्त्वः । अस्ति क्षितीशस्तृणतोऽप्यपश्य- ।"वृत्ते- रेकमेवेदं वाक्यम्" इति यायावरीयः । १ B शक्तः. २ C हरिभीत्याश्रिताः शेष०. ३ C मेघसि.
कविरहस्ये षष्ठोऽध्यायः । २३ शाक्तः — "विभ्रस्तशत्रुः स्पृहयालुलोकः प्रपन्नसामन्त उदग्रसत्त्वः । अधिष्ठितौदार्यगुणोऽसिपत्र- जितावनिर्नास्ति नृपस्त्वदन्यः ॥ यथा वा — "कण्ठदोलायितोद्दामनीलेन्दीवरदामकाः । हेरम्भीत्याश्रिताशेषकालियाहिकुला इव ॥" शक्तिविभक्तिमयः — "अथागादेकदा स्पष्टचतुराशामुखद्युतिः । तं ब्रह्मेव शरत्कालः प्रोत्फुल्लकमलासनः ॥" तत्र वाक्यं दशधा। एकाख्यातम्, अनेकाख्यातम्, आवृत्ताख्या- तम्, एकाभिधेयाख्यातम्, परिणताख्यातम्, अनुवृत्ताख्यातम्, समुच्चिताख्यातम्, अध्याहृताख्यातम्, कृदभिहिताख्यातम्, अनपे- क्षिताख्यातमिति । तत्रैकाख्यातम् — "जयत्येकपदाक्रान्तसमस्तभुवनत्रयः । द्वितीयपदविन्यासव्याकुलाभिनयः शिवः ॥" अनेकाख्यातम् । तच्च द्विधा सान्तरं निरन्तरम् [इति]। तयोः प्रथमम् — "देवासुरास्तमथ मन्थगिरां विरामे पद्मासनं जय जयेति बभाषिरे च । द्राग्भेजिरे च परितो बहु मेनिरे च स्वाग्रेसरं विदधिरे च ववन्दिरे च ॥" द्वितीयम् — "त्वं पासि हंसि तनुषे मनुषे बिभर्षि विभ्राजसे सृजसि संहरसे विरौषि । आस्से निरस्यसि सरस्यसि रासि लासि सङ्क्रीडसे त्रुडसि मेध्यसि मोदसे च ॥" "आख्यातपरतन्त्रा वाक्यवृत्तिरतो यावदाख्यातमिह वाक्यानि" इत्याचार्याः । "एकाकारतया कारकग्रामस्यैकार्थतया च वचोवृत्ते- रेकमेवेदं वाक्यम्" इति यायावरीयः । १ B शक्तः. २ C हरिभीत्याश्रिताः शेष०. ३ C मेधसि.
२४ काव्यमीमांसायाम्
आवृत्ताख्यातम्—"जयत्यमलकौस्तुभस्तबकितांसपीठो हरि- र्जयन्ति च मृगेक्षणाश्चलदपाङ्गदृष्टिक्रमाः । ततो जयति मल्लिका तदनु सर्वसंवेदना- विनाशकरणक्षमो जयति पञ्चमस्य ध्वनिः ॥” एकाभिधेयाख्यातम्— "हृष्यति चूतेषु चिरं तुष्यति बकुलेषु मोदते मरुति । इह हि मधौ कलकूजिषु पिकेषु च प्रीयते रागी ॥” परिणताख्यातम्—"सोऽस्मिन्जयति जीवातुः पञ्चेषोः पञ्चमध्वनिः । ते च चैत्रे विचित्रैलाकक्कोलीकेलयोऽनिलाः ॥” अनुवृत्ताख्यातम्—"चरन्ति चतुरम्भोधिहेलोद्यानेषु दन्तिनः । चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश्च ते ॥” समुचिताख्यातम्—"परिग्रहभराक्रान्तं दौर्गत्यगतिचोदितम् । मनो गन्त्रीव कुपथे चीत्करोति च याति च ॥” यथा च—"स देवः सा दंष्ट्रा कृतकिटिविलासस्मितसिता द्वयं दिश्यात्तुभ्यं मुदमिदमुदारं जयति(तु) च । उद्वच्छद्भिर्भूयस्तरलनिवेशा वसुमती यदग्रे यच्छासैर्गिरिगुरुकलीलामुद्वहत् ॥” अध्याहृताख्यातम्—"दोर्दण्डताण्डवभ्रष्टमुडुषण्डं बिभर्ति यः । व्यस्तपुष्पाञ्जलिपदे चन्द्रचूडः श्रिये स वः॥” कृदभिहिताख्यातम्—"अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकथो(कृतो)दयम् । विनयबाधितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः ॥” अनपेक्षिताख्यातम्—"कियन्मात्रं जलं विप्र ? जानुदघ्नं नराधिप । तथापीयमवस्था ते न सर्वत्र भवादृशाः ॥” गुणवदलङ्कृतञ्च वाक्यमेव काव्यम् । "असत्यार्थाभिधायित्वा- न्नोपदेष्टव्यं काव्यम्” इत्येके । यथा—
कवि रहस्ये षष्ठोऽध्यायः । २५ “स्तेमः स्तोकोऽपि नाङ्गे श्वसितमविकलं चक्षुषां सैव वृत्तिः मध्येक्षीराब्धि मग्नाः स्फुटमथ च वयं कोऽयमीदृक्प्रकारः । इत्थं दिग्भित्तिरोधक्षतविसरतया मांसलैस्त्वद्यशोभिः स्तोकावस्थानदुस्थैस्त्रिजगति धवले विस्मयन्ते मृगाक्ष्यः ॥” यथा च— “भ्रश्यद्भूभृद्भोगीश्वरफणपवनाध्मातपातालतालुः(मूलः) त्रुट्यन्नानागिरीन्द्रावलिशिखरखरास्फाललोलाम्बुराशिः । उद्यन्नीरन्ध्रधूलीविधुरसुरवधूमूच्यमानोपशल्यः¹ कल्पोद्योगस्य यस्य त्रिभुवनदमनैः² सैन्यसम्मर्द आसीत् ॥” आहुश्च—“दृष्टं किंचिददृष्टमन्यदपरं वाचालवार्त्तार्पितं भूयस्तुण्ड(ङ्ग)पुराणतः परिणतं किञ्चिच्च शास्त्रश्रुतम् । सूक्त्या वस्तु यदत्र चित्ररचनं तत्काव्यमव्याहतं रत्नस्येव न तस्य जन्म जलधेर्नो रोहणाद्वा गिरेः ॥” “न” इति यायावरीयः । “नासत्यं नाम किश्चन काव्ये यस्तु स्तुत्येष्वर्थवादः³ (?) । स न परं कविकर्मणि श्रुतौ च शास्त्रे च लोके च⁴ ॥” तत्र श्रौतः—“पुष्पिण्यौ⁵ चरतो जङ्घे भूष्णुरात्मा फलेग्रहिः । शेरेऽस्य सर्व्वे⁶ पाप्मानः श्रमेण प्रपथे हताः ॥” शास्त्रीयः—“आपः पवित्रं प्रथमं पृथिव्या- मपां पवित्रं परमं च मन्त्राः । तेषां च सामर्ग्यजुषां पवित्रं महर्षयो व्याकरणं निराहुः ॥” किञ्च—“यस्तु प्रयुङ्क्ते कुशलो विशेषे⁷ शब्दान्यथावद्व्यवहारकाले । सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद्दुष्यति चापशब्दैः ॥
१ A explains as उपकण्ठः. २ A ०दसनः. ३ B स्तुत्यर्थवादः. ४ B श्रुतौ शास्त्रे लोके च. ५ A पुष्पिन्वौ. ६ B सर्व्वपाप्मानः. ७ B पैः. ४
“कः ? । वाग्योगविदेव । कुत एतत् ? । यो हि शब्दाज्ञानादपश- ब्दानप्यसौ जानाति । यथैव हि शब्दज्ञाने धर्म एवमपशब्दज्ञानेऽप्य- धर्मः । अथवा भूयानधर्मः प्राप्नोति । भूयांसो ह्यपशब्दा अल्पीयांसः शब्दाः । एकैकस्य हि शब्दस्य बहवोऽपभ्रंशाः । तद्यथा गौरि- त्यस्य शब्दस्य गावी गोणी गोता गोपोतलिकेत्येवमादयोऽपभ्रंशाः । अथ योऽवाग्योगवित् अज्ञानं तस्य शरणम् । नात्यन्तायाज्ञानं शरणं भवितुमर्हति । यो ह्यजानन्वै ब्राह्मणं हन्यात्सुरां वा पिबे- त्सोऽपि, मन्ये पतितः स्यात् । एवं तर्हि सोऽनन्तमाप्नोति जयं परत्र वाग्योगविद्दुष्यति चापशब्दैः । कः ? । अवाग्योगविदेव । अथ यो वाग्योगवित् विज्ञानं तस्य शरणम् । क पुनरिदं पठितम् ? । भ्राजा नाम श्लोकाः । किञ्च भोः श्लोका अपि प्रमाणम् ? । किञ्चातः ? । यदि प्रमाणमयपि श्लोकः प्रमाणं भवितुमर्हति— ‘यद्यु(दु)दुम्बरवर्णानां घटीनां मण्डलं महत् । पीतं न गमयेत्स्वर्गं किं तत्क्रतुगतं नयेत् ॥’ इति । प्रमत्तगीत एष तत्रभवतो यस्त्वप्रमत्तगीतस्तत्प्रमाणमेव” इति गोनर्दीयः । लौकिकः—‘‘गुणानुरागमिश्रेण यशसा तव सर्पता । दिग्वधूनां मुखे जातमकस्मादर्द्रकुङ्कुमम् ॥’’ “असदुपदेशकत्वात्तर्हि नोपदेष्टव्यं काव्यम्” इत्यपरे। यथा एवं— “वयं बाल्ये डिम्भास्तरुणिमनि यूनः परिणता- वपीच्छामो वृद्धानपरिणयविधेस्तु स्थितिरियम् । त्वयाऽऽरब्धं जन्म क्षपयितुममार्गेण किमिदं न नो गोत्रे पुत्रि क्वचिदपि सतीलाञ्छनमभूत् ॥” “अस्त्ययमुपदेशः । किन्तु निषेध्यत्वेन न विधेयत्वेन” इति याया- वरीयाः । य एवंविधा विधयः परस्त्रीषु पुंसां सम्भवन्ति तानवबु-
१ C दुष्यति अपशब्दैः कः ? । B कः । अवाग्योगवित् । अथ वाग्योगवित् १ ज्ञानं तस्य शरणम् । नात्यन्ताय ज्ञानं भवितुमर्हति । योऽह्यजानन् ब्राह्मणं हन्यात् सुरां वा पिबेत् सोऽपि मन्ये पतितः स्यात् । एवं तर्हि सोऽनन्तमाप्नोति । किञ्चातः । यतः यदि प्रमाणमयपि श्लोकः प्रमाणं भवितुमर्हति । क पुनरिदं पठितमित्याचार्याः । भ्रान्ता नाम श्लोकास्तेष्विति गोनर्दीयः । किञ्च भोः श्लोक एव प्रमाणम् । तदनेनापि प्रमाणेन भवितव्यमित्याचार्याः “यद्युदुम्बरवर्णानां घटीनां मण्डलं महत् । पीतं न गमयेत्स्वर्गं किं तत्क्रतुगतं नयेत्” प्रमत्तगीतमेतद्भगवतो यस्त्वप्रमत्तगीतं तत्प्रमाण- मेवेति गोनर्दीयः ॥
कविरहस्ये षष्ठोऽध्यायः । २७ ध्येतेति कवीनां भावः । किञ्च “कविवचनायत्ता लोकयात्रा । सा च निःश्रेयसमूलम्” इति महर्षयः । यदाहुः— “काव्यमय्यो गिरो यावच्चरन्ति विशदा भुवि । तावत्सारस्वतं स्थानं कविरासाद्य मोदते ॥” किञ्च—“श्रीमन्ति राज्ञां चरितानि यानि प्रभुत्वलीलाश्च सुधाशिनां याः । ये च प्रभावास्तपसामृषीणां ताः सत्कविभ्यः श्रुतयः प्रसूताः ॥” उक्तञ्च—“ख्याता नराधिपतयः कविसंश्रयेण राजाश्रयेण च गताः कवयः प्रसिद्धिम् । राज्ञा समोऽस्ति न कवेः परमोपकारी राज्ञो न चास्ति कविना सदृशः सहायः ॥ वल्मीकजन्मा स कविः पुराणः कवीश्वरः सत्यवतीसुतश्च । यस्य प्रणेता तदिहानवद्यं सारस्वतं वर्त्म न कस्य वन्द्यम् ? ॥” “असभ्यार्थाभिधायित्वान्नोपदेष्टव्यं काव्यम्” इति च केचित् । यथा— “प्रसर्पन्प्रग्रीवैर्भृतभुवनकुक्षिर्झणझणा- करालः प्रागल्भ्यं वदति तरुणीनां प्रणयिषु । विलासव्यत्यासाज्जघनफलकास्फालनघन- स्फुटच्छेदोत्सक्तः कलकनककाञ्चीकलकलः ॥” अपि च—“नित्यं त्वयि प्रचुरचित्रकपत्रभङ्गी- ताटङ्कताडनविपाण्डुरगण्डलेखाः । स्विद्यन्तु रत्नरशनारणनाभिराम- कामार्तिनर्तितनितम्बतटास्तरुण्यः ॥” “प्रक्रमापन्नो निबन्धनीय एवायमर्थः” इति यायावरीयः । तदिदं श्रुतौ शास्त्रे चोपलभ्यते । तत्र याजुषः— १ A तंक्ति.
२८ काव्यमीमांसायाम् “योनिरुदूखलं शिश्नं मुसलं मिथुनमेवैतत् प्रजननं क्रियते ॥” आर्ष:—“उपोप मे परामृश मा मे दभ्राणि मन्यथाः । सर्वाऽहमस्मि रोमशा गन्धारीणामिवाविका ॥” शास्त्रीय:—“यस्याः प्रसन्नधवलं चक्षुः पर्यन्तपक्ष्मलम् । नवनीतोपमं तस्या भवति स्मरमन्दिरम् ॥” पदवाक्यविवेकोऽयमिति किञ्चित्प्रपञ्चितः । अथ वाक्यप्रकारांश्च कांश्चिदन्यान्निबोधत ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे षष्ठोऽध्यायः पदवाक्यविवेकः ॥ सप्तमोऽध्यायः पाठप्रतिष्ठा । वाक्यं वचनमिति व्यवहरन्ति । तच्च त्रिधा प्रणेतृभेदेन ब्राह्मं, शैवं, वैष्णवमिति । तदिदं वायुप्रोक्तपुराणादिभ्य उपलब्धं यदुत ब्राह्मं वचः पञ्चधा स्वायम्भुवमैश्वरमर्षिमार्षीकमार्षिपुत्रकं च [इति]। स्वयम्भू्र्ब्रह्मा तस्य स्वायम्भुवम् । तन्मनोजन्मानो भृगुप्रभृतयः पु- त्रास्ते ईश्वरास्तेषामैश्वरम् । ईश्वराणां सुता ऋषयस्तेषामार्षम् । ऋषी- णामपत्यानि ऋषीकास्तेषामार्षीकम् । ऋषीकाणां सूनव ऋषिपुत्र- कास्तेषामार्षिपुत्रकम् । स्वयम्भुवः प्रथमं वचः श्रुतिः । श्रुतेरन्यच्च स्वायम्भुवम् । तदाहुः— “सर्वभूतात्मकं भूतं परिवादं च यद्भवेत् । क्वचिन्निरुक्तमोक्षार्थं वाक्यं स्वायम्भुवं हि तत् ॥” तदेव स्तोकरूपान्तरपरिणतमैश्वरं वचः । उक्तञ्च— “व्यक्तक्रममसङ्क्षिप्तं दीप्तगम्भीरमर्थवत् । प्रत्यक्षं च परोक्षं च लक्ष्य्तामैश्वरं वचः ॥” १ B तस्मै जननं. २ B गान्धारिणा० ३ A omits च. ४ A लिंश्यता०.
कविरहस्ये सप्तमोऽध्यायः । २९
आर्षम्—“यत्किञ्चिन्मन्त्रसंयुक्तं युक्तं नामविभक्तिभिः । प्रत्यक्षाभिहितार्थं च तदृषीणां वचः स्मृतम् ॥” आर्षीकम्—“नैगमैर्विविधैः शब्दैर्निपातबहुलं च यत् । न चापि सुमहेद्वाक्यमृषीकाणां वचस्तु तत् ॥” आर्षिपुत्रकम्—“अविस्पष्टपदप्रायं यच्च स्याद्बहुसंशयम् । ऋषिपुत्रवचस्तत्स्यात्ससर्वपरिदेवनम् ॥” तदुदाहरणानि पुराणेभ्य उपलभेत । सारस्वताः कवयो नः पूर्वे इत्थङ्कारं कथयन्ति । ब्रह्मविष्णुरुद्रगु- हबृहस्पतिभार्गवादिशिष्येषु चतुःषष्टावुपदिष्टं वचः पारमेश्वरं क्रमेण च सञ्चरद्देवैर्देवयोनिभिश्च यथामत्युपजीव्यमानं दिव्यमिति व्यपदिश्यते । देवयोनयस्तु— “विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः । सिद्धगुह्यकभूताश्च पिशाचा देवयोनयः ॥” तत्र पिशाचादयः शिवानुचराः स्वभूमौ संस्कृतवादिनो मर्त्ये तु भूतभाषया व्यवहरन्तो निबन्धनीयाः । अप्सरसस्तु प्राकृतभाषया । तद्दिव्यं वचश्चतुर्द्धा वैबुधं वैद्याधरं गान्धर्वं योगिनीगतं च [इति] । शेषाणामेतेष्वेवोपलक्षणं प्रकृतिसादृश्येन । तत्र वैबुधम्— “समासव्याससंदग्धं शृङ्गाराद्भुतसम्भृतम् । सानुप्रासमुदारं च वचः स्यादमृताशिनाम् ॥” यथा—“यच्चन्द्रकोटिकरकोरकभारभाजि बभ्राम बभ्रुणि जटाकुहरे हरस्य । तद्भोः पुनातु हिमशैलशिलानिकुञ्ज- झत्कारडम्बरविरावि सुरापगाम्भः ॥” वैद्याधरम्—“स्तोकानुप्राससच्छायं चतुरोक्ति प्रसादि च । द्राघीयसा समासेन विद्धि वैद्याधरं वचः ॥”
१ A सुमहा०. २ A ऋषीणां हि. ३ B उपलभ्येत. ४ B ०वुपदिष्टं.
३० काव्यमीमांसायाम् यथा— “प्रणतसुरकिरीटप्रांशुर्लांशुवंश- च्छुरितनखशिखाग्रोद्भासमानारुणाङ्घ्रे । उदिततरणिबृन्दोद्दामधामोर्ध्वनेत्र- ज्वलननिकरदग्धानङ्गमूर्ते नमस्ते ॥” ५ यथा वा— “भ्रमति भ्रमरकरम्बितनन्दनवनचम्पकस्तबकगौरः । वात्याहत इव वियति स्फुटलक्ष्मा रोहिणीरमणः ॥” गान्धर्वम्— “ह्रस्वैः समासैर्भूयोभिर्विभूषितपदोच्चया । तत्त्वार्थग्रथनग्राह्या गन्धर्वाणां सरस्वती ॥” यथा— “नमः शिवाय सोमाय सगणाय ससूनवे । १० सवृषव्यालशूलाय सकपालाय सेन्दवे ॥” योगिनीगतम्— “समासरूपकप्रायं गम्भीरार्थपदक्रमम् । सिद्धान्तसमयस्थायि योगिनीनामिदं वचः ॥” यथा— “दुःखन्धनैकदहनामृतवर्षमेघ संसारकूपपतनैककरावलम्ब । १५ योगीन्द्रदर्पण जगद्गतकृत्स्नतेजः- प्रत्यक्षचौरवर वीरपते नमस्ते ॥” महाप्रभावत्वाद्वौजङ्गममपि दिव्यमित्युपचर्यते । “प्रसन्नमधुरोदात्तसमासव्यास१भागवत् । अनोजस्विपदप्रायं वचो भवति भोगिनाम् ॥” २० यथा— “सुसर्जि(ञ्जि)तां श्रोत्रसुखां सुरूपा- मनेकरत्नोज्ज्वलचित्रिताङ्गीम् । विद्याधरेन्द्रः प्रतिगृह्य वीणां पिनाकिने गायति मङ्गलानि ॥” “किमर्थं पुनरनुपदेश्ययोर्ब्राह्मपारमेश्वरयोर्वाक्यमार्गयोरुपन्या- २५ सः ?” इत्याचार्याः। “सोऽपि कवीनामुपदेशपरः” इति यायावरीयः । ———————————————————————— १ Explained in A as समूह.
कविरहस्ये सप्तमोऽध्यायः । ३१
यतो नाटकादावीश्वरादीनां देवानां च प्रवेशे तच्छायावन्ति वा- क्यानि विधेयानि । इति दिव्यम् । इह हि प्रायोवादो यदुत मर्त्यावतारव्यवहाररुचेर्भगवतो वासु- देवस्य वचो वैष्णवम् [इति] । तन्मानुषमिति व्यपदिशन्ति । तच्च त्रिधा रीतिन्त्रयभेदेन । तदाहुः— “वैदर्भी गौडीया पाञ्चाली चेति रीतयस्तिस्रः । आशु(सु) च साक्षान्निवर्सति सरखती तेन लक्ष्यन्ते॥” रीतिरूपं वाक्यत्रितयम् । काकुः पुनरनेक्यति । “काकुर्व(व)क्रो- क्तिर्नाम शब्दालङ्कारोऽयम्” इति रुद्रटः । “अभिप्रायवान्पाठधर्मः काकुः । स कथमलङ्कारी स्यात् ?” इति यायावरीयः । सा च द्विधा साकाङ्क्षा निराकाङ्क्षा च । वाक्यान्तराकाङ्क्षिणी साकाङ्क्षा । वाक्यो- त्तरभाविनी निराकाङ्क्षा । तदेव वाक्यं काकुविशेषेण साकाङ्क्षम् । तदेव काक्वन्तरेण निराकाङ्क्षम् । आक्षेपगर्भा, प्रश्नगर्भा, वितर्कगर्भा चेति साकाङ्क्षा । विधिरूपा, उत्तररूपा, निर्णयरूपेति निराकाङ्क्षा । तत्राक्षेपगर्भा— “यदि मे वल्लभा दूती तदाऽहमपि वल्लभा । यदि तस्याः प्रिया वाचः तन्ममापि प्रियप्रियाः ॥” एवमेव निर्देष्टुर्विधिरूपा । प्रश्नगर्भा— “गतः स कालो यत्रासीन्मुक्तानां जन्म वल्लिषु । वर्तन्ते साम्प्रतं तासां हेतवः शुक्तिसम्पुटाः ॥” इयमेवोपदेष्टुरुत्तररूपा । वितर्कगर्भा— “नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न नाम शरासनम् । अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी ॥” इयमेवोपदेष्टुर्निर्णयरूपा । ता इमास्तिस्रोऽपि नियतनिबन्धाः । तद्विपरीताः पुनरनन्ताः । तत्राभ्युपगमानुनयकाकू—
३२ काव्यमीमांसायाम् "युष्मच्छासनलङ्घनाम्भसि मया मग्नेन नाम स्थितं प्राप्ता नाम विगर्हणा स्थितिमतां मध्येऽनुजानामपि। क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा- नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव ॥" 5 अभ्यनुज्ञोपहासकाकू— "मथ्नामि कौरवशतं समरे न कोपा- दुःशासनस्य रुधिरं न पिबाम्युरस्तः। सञ्चूर्णयामि गदया न सुयोधनोरू सन्धिं करोतु भवतां नृपतिः पणेन ॥" एवं त्रिचतुरकाकुयोगोऽपि। तत्र त्रियोगः— 10 “सेयं पश्यति नो कुरङ्गवधूस्त्रस्तैवमुद्वीक्षते तस्याः पाणिरयं न मारुतचलत्पत्राङ्गुलिः पल्लवः। तारं रोदिति सैव नैष मरुता वेणुः समापूर्यते सेयं मामभिभाषते प्रियतमा नो कोकिलः कूजति ॥" चतुर्योगः— "उच्यतां स वचनीयमशेषं 15 नेश्वरे परुषता सखि साध्वी। आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः ॥" “सख्या वा नायिकाया वा सखीनायिकयोरथ। सखीनां भूयसीनां वा वाक्ये काकुरिह स्थिता ॥ 20 पदवाक्यविदां मार्गो योऽन्यथैव व्यवस्थितः। सत्त्वाङ्गाभिनयो(य)द्योत्या तं काकुः कुरुतेऽन्यथा ॥ अयं काकुकृतो लोके व्यवहारो न केवलम्। शास्त्रेष्वप्यस्य साम्राज्यं काव्यस्याप्येष जीवितम् ॥ कामं विवृणुते काकुरर्थान्तरमतन्द्रिता। 25 स्फुटीकरोति तु सतां भावाभिनयचातुरीम् ॥ इत्थं कविर्निबध्नीयादित्थं च मतिमान्पठेत् । यथा निबन्धनिगडच्छायां काश्चिन्निषिञ्चति ॥
[Header] कविरहस्ये सप्तमोऽध्यायः । ३३
करोति काव्यं प्रायेण संस्कृतात्मा यथा तथा । पठितुं वेत्ति स परं यस्य सिद्धा सरस्वती ॥ यथा जन्मान्तराभ्यासात्कण्ठे कस्यापि रक्तता । तथैव पाठसौन्दर्यं नैकजन्मविनिर्मितम् ॥ ससंस्कृतमपभ्रंशं लालित्यालिङ्गितं पठेत् । ५ प्राकृतं भूतभाषां च सौष्ठवोत्तरमुद्धरेत् ॥ प्रसन्ने मन्द्रयेद्वाचं तारयेत्तद्विरोधिनि । मन्द्रतारौ च रचयेन्निर्वाहिणि यथोत्तरम् ॥ ललितं काकुसमन्वितमुज्जवलमर्थवशकृतपरिच्छेदम् । श्रुतिसुखविविक्तवर्णं कवयः पाठं प्रशंसन्ति ॥ १० अतितूर्णमतिविलम्बितमुल्बणनादं च नादहीनं च । अपदच्छिन्नमनावृतमतिमृदु परुषं च निन्दन्ति ॥ गंम्भीरत्वमनैश्व(ष्ठु)र्यं निर्व्यूढिस्तारमन्द्रयोः । संयुक्तवर्णलावण्यमिति पाठगुणाः स्मृताः ॥ यथा व्याघ्री हरेत्पुत्रान्दंष्ट्राभिश्च न पीडयेत् । १५ भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत् ॥ विभक्तयः स्फुटा यत्र समासश्चाकदर्थितः । अम्लानः पदसन्धिश्च तत्र पाठः प्रतिष्ठितः ॥ न व्यस्तपदयोरैक्यं न भिदां तु समस्तयोः । न चाख्यातपदम्लानिं विदधीत सुधीः पठन् ॥ २० आगोपालकमायोषिदास्तामेतस्य लेह्यता । इत्थं कविः पठन्काव्यं वाग्देव्या अतिवल्लभः ॥ येऽपि शब्दविदो नैव नैव चार्थविचक्षणाः । तेषामपि सतां पाठः सुष्ठु कर्णरसायनम् ॥ पठन्ति संस्कृतं सुष्ठु कुण्ठाः प्राकृतवाचि ते । २५ वाणार(राण)सीतः पूर्वेण ये केचिन्मगधादयः ॥” आह स—"ब्रह्मन्विज्ञापयामि त्वां स्वाधिकारजिहासया । गौडस्त्यजतु वा गाथामन्या वाऽस्तु सरस्वती ॥
[Footnotes] १ C गम्भीरत्वमवैखर्यं. ५
३४ काव्यमीमांसायाम्
नातिस्पष्टो न चाश्लिष्टो न रूक्षो नातिकोमलः । न मन्द्रो नातितारश्च पाठी(ठो) गौडेषु वाडवः ॥ रसः कोऽप्यस्तु काव्यस्तु रीतिः कोऽप्यस्तु वा गुणः । सगर्वं सर्वकर्णाटष्टंकारोत्तरपाठिनः ॥ गद्ये पद्येऽथवा मिश्रे काव्ये काव्यमना अपि । गेयगर्भे स्थितः पाठे सर्वोऽपि द्रविडः कविः ॥ पठन्ति लटभं लाटाः प्राकृतं संस्कृतद्विषः । जिह्वया ललितोल्लापलब्धसौन्दर्यमुद्रया ॥ सुराष्ट्रत्रावणाद्या ये पठन्त्यर्पितसौष्ठवम् । अपभ्रंशावदंशानि ते संस्कृतवचांस्यपि ॥ शारदायाः प्रसादेन काश्मीरः सुकविर्जनः । कर्णे गुडूचीगण्डूषस्तेषां पाठक्रमः किमु ! ॥ ततः पुरस्तात्कवयो ये भवन्त्युत्तरापथे । ते महत्यपि संस्कारे सानुनासिकपाठिनः ॥ मार्गानुगेन निनदेन निधुर्गुणानां सम्पूर्णवर्णरचनो यतिभिर्विभक्तः । पाञ्चालमण्डलभुवां सुभगः कवीनां श्रोत्रे मधु क्षरति कश्चन काव्यपाठः ॥ ललल्कारया जिह्वं जर्जरस्फाररेफया । गिरा भुजङ्गाः पूज्यन्ते काव्यभव्यधियो न तु ॥ पञ्चस्थानसमुद्भववर्णेषु यथा स्वरूपनिष्पत्तिः । अर्थवशेन च विरतिः सर्वस्वमिदं हि पाठस्य ॥” सकाकुकलना पाठप्रतिष्ठेयं प्रदर्शिता । अर्थानुशासनस्याथ प्रकारः परिकीर्त्यते ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे सप्तमोऽध्यायः वाक्यविशेषाः काकुकलना पाठप्रतिष्ठा च ॥
१ B लटसं. २ A तिष्ठिता.
कविरहस्ये अष्टमोऽध्यायः । ३५
अष्टमोऽध्यायः काव्यार्थयोनयः ।
“श्रुतिः, स्मृतिः, इतिहासः, पुराणं, प्रमाणविद्या, समयविद्या, राजसिद्धान्तत्रयी, लोको, विरचना, प्रकीर्णकं च काव्यार्थानां द्वादश योनयः” इत्याचार्याः । “उचितसंयोगेन, योक्तृसंयोगेन, उत्पाद्यसंयोगेन, संयोगविकारेण च सह षोडश” इति यायावरीयः। ५ तत्र श्रौतः। “उर्वशी हाप्सराः पुरूरवसमैडं चकमे” । अत्रार्थे— “चन्द्राद्बुधः समभवद्भगवाम्नरेन्द्र- मार्थं पुरूरवसमैडमसावसूत । तं चाप्सराः स्मरवती चकमे किमन्य- दत्रोर्वशी स्मितवशीकृतशक्रचेताः ॥” १० यथा वा—“यदेतन्मण्डलं तपति तन्महदुक्थं ता ऋचः स ऋचां लोकोऽथ यदेतदर्चिर्दीप्यते तन्महाव्रतं तानि सामानि स साम्नां लोकोऽथ य एष तस्मिन्मण्डले पुरुषः सोऽग्निस्तानि यजूंषि स यजुषां लोकः सैषा त्रय्येव विद्या तपति ।” अत्रार्थे—“एतद्यन्मण्डलं खे तपति दिनकृतस्ता ऋचोऽर्चीषि यानि १५ द्योतन्ते तानि सामान्ययमपि पुरुषो मण्डलेऽणुर्यजूंषि । एवं यं वेद वेदत्रितयमयमयं वेदवेदी समग्रो वर्गः स्वर्गापवर्गप्रकृतिरविकृतिः सोऽस्तु सूर्यः श्रिये वः॥” तच्चेदं वेपहरणम् । यदित्थं कथयन्ति— “नमोऽस्तु तस्यै श्रुतये यां दुहन्ति पदे पदे । २० ऋषयः शास्त्रकाराश्च कवयश्च यथामति ॥” स्मार्तः—‘‘बह्वर्थेष्वभियुक्तेन सर्वत्र व्यपलापिना । विभावितैकदेशेन देयं यदभियुज्यते ॥” अत्रार्थे—“हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता । सम्भावितैकदेशेन देयं यदभियुज्यते ॥” २५
१ B प्रमाणं. २ A ०मैल. ३ B प्रपलायिना. ४ V सम्भावितैक०.
३६ काव्यमीमांसायाम् ऐतिहासिकः—"न स सङ्कुचितः पन्था येन वाली हतो गतः । समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥" अत्र—"मदं नवैश्वर्यलवेन लम्भितं विसृज्य पूर्वः समयो विमृश्यताम् । जगज्जिघृत्सातुरकण्ठपद्धति- र्न वालिनैवाहिततृसिरन्तकः ॥" पौराणिकः—"हिरण्यकशिपुर्दैत्यो यां यां स्मित्वाऽप्युदैक्षत । भयभ्रान्तैः सुरैश्चक्रे तस्यै तस्यै दिशे नमः ॥" अत्र—"स सञ्चरिष्णुर्भुवनत्रयेऽपि यां यदृच्छयाऽशिश्रियदाश्रयः श्रियः । अकारि तस्यै मुकुटोपलस्खलत्- करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ॥" अत्राहुः—"श्रुतीनां साङ्गशाखानामितिहासपुराणयोः । अर्थग्रन्थः कथाभ्यासः कवित्वस्यैकमौषधम् ॥ इतिहासपुराणाभ्यां चक्षुर्भ्यामिव सत्कविः । विवेकाञ्जनशुद्धाभ्यां सूक्ष्ममप्यर्थमीक्षते ॥ वेदार्थस्य निबन्धेन श्लाघ्यन्ते कवयो यथा । स्मृतीनामितिहासस्य पुराणस्य तथा तथा ॥" द्विविधः प्रामाणिको मैमांसकस्तार्किकश्च । तत्र प्रथमः । शब्दस्य सामान्यमभिधेयं विशेषश्चार्थः । अत्र— "सामान्यवाचि पदमप्यभिधीयमानं मां प्राप्य जातमभिधेयविशेषनिष्ठम् । स्त्री काचिदित्यभिहिते सततं मनो मे तामेव वामनयनां विषयीकरोति ॥" १ B जिधित्सा०. २ A हत. ३ V त्रिसन्ध्यं त्रिर्दिशे नमः. ४ B भुवनान्तरेषु ५ B तदाहुः. ६ B श्लाघंते.